ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥ २२ ॥
इतश्च परमेश्वर एव भूतयोनिः, नेतरौशारीरः प्रधानं वाकस्मात् ? विशेषणभेदव्यपदेशाभ्याम्विशिनष्टि हि प्रकृतं भूतयोनिं शारीराद्विलक्षणत्वेनदिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजःअप्राणो ह्यमनाः शुभ्रः’ (मु. उ. २ । १ । २) इति ह्येतद्दिव्यत्वादिविशेषणम् अविद्याप्रत्युपस्थापितनामरूपपरिच्छेदाभिमानिनः तद्धर्मान्स्वात्मनि कल्पयतः शारीरस्योपपद्यतेतस्मात्साक्षादौपनिषदः पुरुष इहोच्यतेतथा प्रधानादपि प्रकृतं भूतयोनिं भेदेन व्यपदिशति — ‘अक्षरात्परतः परःइतिअक्षरमव्याकृतं नामरूपबीजशक्तिरूपं भूतसूक्ष्ममीश्वराश्रयं तस्यैवोपाधिभूतम् , सर्वस्माद्विकारात्परो योऽविकारः, तस्मात्परतः परः इति भेदेन व्यपदिशन् परमात्मानमिह विवक्षितं दर्शयतिनात्र प्रधानं नाम किञ्चित्स्वतन्त्रं तत्त्वमभ्युपगम्य, तस्माद्भेदव्यपदेश उच्यतेकिं तर्हि ? यदि प्रधानमपि कल्प्यमानं श्रुत्यविरोधेनाव्याकृतादिशब्दवाच्यं भूतसूक्ष्मं परिकल्प्येत, परिकल्प्यताम्तस्माद्भेदव्यपदेशात् परमेश्वरो भूतयोनिरित्येतदिह प्रतिपाद्यते ॥ २२ ॥

भूतयोनेर्ब्रह्मत्वे हेत्वन्तरमाह —

विशेषणेति ।

चकारार्थमाह —

इतश्चेति ।

एवकारार्थमाह —

नेतराविति ।

इतःशब्दार्थं स्फुटयन्प्रश्नपूर्वं हेतुद्वयमाह —

कस्मादिति ।

विशेषणान्न जीवो भेदोक्तेर्न प्रधानमिति विभज्य व्याकुर्वन्नाद्यं व्याचष्टे —

विशिनष्टीति ।

दिव्यो द्योतनात्मकः स्वयञ्ज्योतिः, तत्र श्रुत्यन्तरप्रसिद्ध्यर्थो हिशब्दः । अमूर्तत्वं पूर्णत्वम् ।

आकाशाद्विशेषमाह —

पुरुष इति ।

कार्यकारणाभ्यां परिच्छेदमाशङ्क्याह —

सबाह्येति ।

बाह्यं कार्यमभ्यन्तरं कारणं ताभ्यां कल्पिताभ्यां सहाधिष्ठानत्वेन तिष्ठति तस्य सर्वकल्पनाधिष्ठानत्वे श्रुतिप्रसिद्ध्यार्थो हिशब्दः ।

जन्माद्यभावेन कौटस्थ्यमाह —

अज इति ।

प्राणमनोभ्यां संसर्गाभेदाभावात्परिशुद्धिमाह —

अप्राणो हीति ।

शारीरस्यापि विशेषणं स्यादित्याशङ्क्याह —

न हीति ।

तद्धर्मा नामरूपादिधर्मा दृश्यत्वादयः ।

विेशेषणस्यानन्यथासिद्धिफलमाह —

तस्मादिति ।

विशेषणस्य तुल्यत्वेऽपि द्वितीयं हेतुं प्रधानपक्षे योजयति —

तथेति ।

भेदोक्तिं व्यनक्ति —

अक्षरमिति ।

किं तदव्याकृतं, तदाह —

नामेति ।

तयोर्बीजस्येश्वरस्य शक्तिरूपं, तत्पारतन्त्र्यात् । भूतानां लीलानां सूक्ष्मं संस्काररूपं वर्ततेऽत्रेति भूतसूक्ष्मं, ईश्वरपदलक्ष्यं स्वरूपमाश्रयोऽस्येति तथोक्तम् । अन्यस्य तत्कार्यत्वेन तदाश्रयत्वात्तस्यैवेश्वरो जीवो जगदिति बुद्धावुपाधित्वेन स्थितं, विकारहेतुत्वाद्विकारश्चेत्यर्थः । ननु नामरूपयोर्बीजं शक्तिरूपं चाव्याकृतम् । यद्वा नामरूपे एव बीजे तयोः शक्तिरूपं तदेव तच्च भूतसूक्ष्मं तत्कारणत्वादीश्वराश्रयमित्याश्रयशब्दो विषयार्थस्तस्यैवेश्वरस्य जीवत्वं प्राप्तस्य बुद्ध्यादिद्वारा कर्तृत्वादावुपाधिभूतमिति व्याख्येयं भाष्यमिति चेत् । मैवम् । आश्रयशब्दस्य श्रुतार्थत्यागायोगाज्जीवत्वापत्तेश्चाव्याकृतसम्बन्धकृतत्वात्परिशुद्धे चिद्धातौ तत्सम्बन्धध्रौव्यात् । अतो भाष्यबहिर्भूतो नानाजीववादः ।

अक्षरशब्दार्थमुक्त्वा परिशिष्टं व्याचष्टे —

तस्मादिति ।

इहेति प्रकृतवाक्योक्तिः ।

प्रधानाद्ब्रह्मणो भेदे प्रधानमिष्टमसतोऽप्रतियोगित्वादित्याशङ्क्याह —

मात्रेति ।

प्रतियोग्यनङ्गीकारे कथं भेदोक्तिः, तत्राह —

किं तर्हीति ।

भूतसूक्ष्मं भूतानां सूक्ष्मं कारणमित्यर्थः । इहेति श्रूतिसूत्रयोरुक्तिः ॥ २२ ॥