वृत्तिकारमतेन व्याकरोति —
अपिचेति ।
अग्निर्द्युलोकः, ‘असौ वाव लोको गौतमाग्निः’ इति श्रुतेः । पद्भ्यामिति प्रथमार्थे । पादौ पृथिवी यस्य, स एष सर्वभूतानामन्तश्चात्मा चेत्यर्थः ।
एवं रूपोपन्यासेऽपि किं स्यात् , तदाह —
तच्चेति ।
अन्यथासिद्धिं प्रत्याह —
नेति ।
तनुमहिमत्वं परिच्छिन्नशक्तित्वम् ।
प्रधानविषयत्वं तस्य दूषयति —
नापीति ।
अनन्यथासिद्धिफलमाह —
तस्मादिति ।
मानाभावेन शङ्कते —
कथमिति ।
मानं वदन्नुत्तरमाह —
प्रकरणादीति ।
प्रकृतत्वेऽपि भूतयोनेः ‘अग्निर्मूर्धा’ इत्यादौ कथमनुवृत्तिः, तत्राह —
एष इति ।
तदेव स्फुटयति —
भूतेति ।
दृष्टान्तेनैतदेवस्फुटयति —
यथेति ।
अदृश्यत्वादिधर्मकस्य विग्रहवद्रूपं कथमित्याक्षिपति —
कथमिति ।
समाधत्ते —
सर्वेति ।
यथा कश्चिद्ब्रह्मात्मविदात्मनः सर्वात्मत्वविवक्षया ‘अहमन्नमहमन्नादः’ इति साम गायति, न त्वन्नान्नादत्वमात्मनोऽभिप्रैति, तस्यापुमर्थत्वात्तथेहापीत्याह —
अहमिति ।