ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
रूपोपन्यासाच्च ॥ २३ ॥
अपि अक्षरात्परतः परःइत्यस्यानन्तरम्एतस्माज्जायते प्राणःइति प्राणप्रभृतीनां पृथिवीपर्यन्तानां तत्त्वानां सर्गमुक्त्वा, तस्यैव भूतयोनेः सर्वविकारात्मकं रूपमुपन्यस्यमानं पश्यामःअग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाःवायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा’ (मु. उ. २ । १ । ४) इतितच्च परमेश्वरस्यैवोचितम् , सर्वविकारकारणत्वात् शारीरस्य तनुमहिम्नः; नापि प्रधानस्य अयं रूपोपन्यासः सम्भवति, सर्वभूतान्तरात्मत्वासम्भवात्तस्मात्परमेश्वर एव भूतयोनिः, नेतराविति गम्यतेकथं पुनर्भूतयोनेरयं रूपोपन्यास इति गम्यते ? प्रकरणात् , ‘एषःइति प्रकृतानुकर्षणात्भूतयोनिं हि प्रकृत्यएतस्माज्जायते प्राणः’ ‘एष सर्वभूतान्तरात्माइति वचनं भूतयोनिविषयमेव भवतियथा उपाध्यायं प्रकृत्यएतस्मादधीष्व, एष वेदवेदाङ्गपारगःइति वचनमुपाध्यायविषयं भवति, तद्वत्कथं पुनरदृश्यत्वादिगुणकस्य भूतयोनेर्विग्रहवद्रूपं सम्भवति ? सर्वात्मत्वविवक्षयेदमुच्यते, तु विग्रहवत्त्वविवक्षया इत्यदोषः, ‘अहमन्नम्अहमन्नादः’ (तै. उ. ३ । १० । ६) इत्यादिवत्

वृत्तिकारमतेन व्याकरोति —

अपिचेति ।

अग्निर्द्युलोकः, ‘असौ वाव लोको गौतमाग्निः’ इति श्रुतेः । पद्भ्यामिति प्रथमार्थे । पादौ पृथिवी यस्य, स एष सर्वभूतानामन्तश्चात्मा चेत्यर्थः ।

एवं रूपोपन्यासेऽपि किं स्यात् , तदाह —

तच्चेति ।

अन्यथासिद्धिं प्रत्याह —

नेति ।

तनुमहिमत्वं परिच्छिन्नशक्तित्वम् ।

प्रधानविषयत्वं तस्य दूषयति —

नापीति ।

अनन्यथासिद्धिफलमाह —

तस्मादिति ।

मानाभावेन शङ्कते —

कथमिति ।

मानं वदन्नुत्तरमाह —

प्रकरणादीति ।

प्रकृतत्वेऽपि भूतयोनेः ‘अग्निर्मूर्धा’ इत्यादौ कथमनुवृत्तिः, तत्राह —

एष इति ।

तदेव स्फुटयति —

भूतेति ।

दृष्टान्तेनैतदेवस्फुटयति —

यथेति ।

अदृश्यत्वादिधर्मकस्य विग्रहवद्रूपं कथमित्याक्षिपति —

कथमिति ।

समाधत्ते —

सर्वेति ।

यथा कश्चिद्ब्रह्मात्मविदात्मनः सर्वात्मत्वविवक्षया ‘अहमन्नमहमन्नादः’ इति साम गायति, न त्वन्नान्नादत्वमात्मनोऽभिप्रैति, तस्यापुमर्थत्वात्तथेहापीत्याह —

अहमिति ।