एकदेशिनं दूषयति —
अन्ये पुनरिति ।
हेत्वसिद्धिमाशङ्क्य पूर्वोत्तरवाक्येषु जायमानत्वेन तत्तदर्थोक्तेरिहापि जायमानत्वेनोक्तिरस्तीत्याह —
एतस्मादिति ।
यश्च सूर्यो द्युलोकाग्नेः समिध एव भासकः सोऽपि तस्मादेव जायत इत्यर्थः ।
तथापि मध्ये परस्यैव रूपमुक्तमित्याशङ्क्य वाक्यभेदान्नेत्याह —
इहेति ।
एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानात्तदर्थं सार्वात्म्ये वक्तव्ये तदेवेदमुक्तमन्यत्रानुक्तेरित्याशङ्क्याह —
सर्वात्मत्वमिति ।
उत्तरत्रोक्तावपि तस्यैवेदमपि सार्वात्म्यमन्यस्यायोगादित्याशङ्क्याह —
श्रुतीति ।
कस्मै प्रजापतये विधेम परिचरेम ।
हिरण्यगर्भः सृष्ट्यादाववर्तिष्टेत्येतावदिहोक्तं न जन्मेत्याशङ्क्याह —
समावर्ततेति ।
स जातः सन्भूतग्रामस्येश्वराज्ञया पतिर्बभूवेति शेषदर्शनादित्यर्थः ।
अस्तु श्रुत्यादिसिद्धं जन्म, तस्य कथं सर्वभूतान्तरात्मत्वं, तत्राह —
विकारेति ।
पूर्वकल्पे प्रकृष्टधीकर्मानुष्ठाता कश्चिद्यजमानः कल्पादौ हिरण्यगर्भतया प्रादुर्बभूव, तस्य सर्वप्राणाद्यधिष्ठातृत्वादधिष्ठात्रधिष्ठेययोरभेदात्प्राणात्मना सर्वभूतानामध्यात्मं देहे स्थितेर्जायमानेऽपि सार्वात्म्यं सिद्धमित्यर्थः ।
नन्वपञ्चीकृतभूताद्यभिमानिनो हिरण्यगर्भस्य विग्रहविशिष्टरूपेण तदधिष्ठेयप्राणादिजन्मानन्तरं जन्मोच्यते चेत् कस्तर्हि सूत्रार्थः, तत्राह —
अस्मिन्निति ।
विश्वं सर्वं कर्म ससाध्यं तपो ज्ञानं च पुरुष एवेति सार्वात्म्यरूपोपन्यासात्परमात्मैव भूतयोनिरित्यर्थः । ‘न विलक्षणत्वात्’ इत्यत्र परिणामस्य सारूप्यापेक्षाप्रतिक्षेपाद्विवर्तस्य च शङ्खपीतिमादौ विसदृशेऽपि दर्शनात्तदपेक्षानियमाद्भूतयोनिवाक्यं निर्विशेषे ब्रह्मण्यन्वितमिति भावः ॥ २३ ॥