ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
वैश्वानरः साधारणशब्दविशेषात् ॥ २४ ॥
को आत्मा किं ब्रह्म’ (छा. उ. ५ । ११ । १) इति आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहि’ (छा. उ. ५ । ११ । ६) इति चोपक्रम्य द्युसूर्यवाय्वाकाशवारिपृथिवीनां सुतेजस्त्वादिगुणयोगमेकैकोपासननिन्दया वैश्वानरं प्रत्येषां मूर्धादिभावमुपदिश्याम्नायतेयस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते, सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति;’ (छा. उ. ५ । १८ । १), तस्य वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा सन्देहो बहुलो वस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः’ (छा. उ. ५ । १८ । २) इत्यादितत्र संशयःकिं वैश्वानरशब्देन जाठरोऽग्निरुपदिश्यते, उत भूताग्निः, अथ तदभिमानिनी देवता, अथवा शारीरः, आहोस्वित्परमेश्वरः इतिकिं पुनरत्र संशयकारणम् ? वैश्वानर इति जाठरभूताग्निदेवतानां साधारणशब्दप्रयोगात् , आत्मेति शारीरपरमेश्वरयोःतत्र कस्योपादानं न्याय्यं कस्य वा हानमिति भवति संशयःकिं तावत्प्राप्तम् ? जाठरोऽग्निरितिकुतः ? तत्र हि विशेषेण क्वचित्प्रयोगो दृश्यतेअयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमद्यते’ (बृ. उ. ५ । ९ । १) इत्यादौअग्निमात्रं वा स्यात् , सामान्येनापि प्रयोगदर्शनात्विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामकृण्वन्’ (ऋ. सं. १० । ८८ । १२) इत्यादौअग्निशरीरा वा देवता स्यात् , तस्यामपि प्रयोगदर्शनात्वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः’ (ऋ. सं. १ । ९८ । १) इत्येवमाद्यायाः श्रुतेर्देवतायामैश्वर्याद्युपेतायां सम्भवात्थात्मशब्दसामानाधिकरण्यादुपक्रमे को आत्मा किं ब्रह्मइति केवलात्मशब्दप्रयोगादात्मशब्दवशेन वैश्वानरशब्दः परिणेय इत्युच्यते, तथापि शारीर आत्मा स्यात्तस्य भोक्तृत्वेन वैश्वानरसन्निकर्षात् , प्रादेशमात्रमिति विशेषणस्य तस्मिन्नुपाधिपरिच्छिन्ने सम्भवात्तस्मान्नेश्वरो वैश्वानर इत्येवं प्राप्ते ततः

रूपोपन्यासप्रसङ्गान्त्रैलोक्यदेहो वैश्वानरः पर इत्याह —

वैश्वानर इति ।

विषयं वक्तुं वाक्योपक्रममाह —

को न इति ।

आत्मनोऽसंसारित्वार्थं ब्रह्मपदम् । तस्यापरोक्ष्यार्थमात्मपदम् । प्राचीनशालसत्ययज्ञेन्द्रद्युम्नजनबुडिलाः समेत्येत्थं मीमांसां चक्रुः । ते च निश्चिचीषयोद्दालकमाजग्मुः । सोऽपि न वेद सम्यगिति सह तेन षडपि ते कैकेयराजमश्वपतिमागत्योचुः — आत्मानमेव' इत्यादि । अद्येषि स्मरसि । स च तेषां विपरीतधीनिरासेन सम्यग्धीजिग्राहयिषया तानेव पप्रच्छ । औपमन्यव कं त्वमात्मानमुपास्से । दिवमेवेत्याहेतरः । राजा पुनरुवाच, एष सुतेजा वैश्वानरो यं त्वमात्मानमुपास्से । मूर्धात्वयमात्मनो मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्य इति । ततः सत्ययज्ञमपृच्छत् । स चादित्यमूचे । ततश्चैष विश्वरूप आत्मा चक्षुस्त्वेतदात्मन इत्यन्धोऽभविष्यो यन्मां नागमिष्य इति राजाभाषत । एवं क्रमेण द्युसूर्यदीनां सुतेजस्त्वविश्वरूपत्वपृथग्वर्त्मात्मत्वबहुलत्वरयित्वपादत्वगुणयोगं विधाय मूर्धपातान्धत्वप्राणोत्क्रमणदेहविशीर्णताबस्तिभेदपादशोषणैरेकैकोपास्तिनिन्दया च तेषां वैश्वानरं प्रति मूर्धादिभावमुक्त्वा समस्तोपासनमाम्नातम् - ‘यस्त्वेतम् ‘ इत्यादिना । आभिमुख्येन विश्वं मिमीते जानातीत्यभिविमानस्तं प्रादेशपरिमाणमुपास्ते यस्तस्य सर्वलोकाद्याश्रयं फलमित्यर्थः । लोका भोगभूमयः, भूतानि तत्तदुपाधयः, भोक्तारस्त्वात्मान इति भेदः । तत्तत्सम्बन्धिफलभाक्त्वमन्नमत्तीत्युच्यते ।

ध्यानफलमुक्त्वा ध्येयरूपमाह —

तस्येति ।

सुतेजस्त्वगुणा द्यौर्वैश्वानरस्य मूर्धा । निपातावेतत्प्रसिद्ध्यर्थौ । विश्वरूपत्वगुणः सूर्यस्तस्य चक्षुः, ‘एष शुक्ल एष नीलः’ इत्यादिश्रुतेः । पृथङ् नाना वर्त्म गमनमात्मा स्वरूपमस्येति तथा नानागतित्वगुणो वायुरस्य प्राणः । बहुलत्वगुण आकाशः सन्देहोऽस्य देहमध्यम् । रयिर्धनं तद्गुणा अापोऽस्य बस्तिस्थमुदकम् । पृथिव्यां वैश्वानरस्य प्रतिष्ठानात्तस्य पादौ पृथिव्येव ।

तस्य होमाधारत्वसम्पादनायोक्तम् —

उर एवेत्यादि ।

‘तद्यद्भक्तं प्रथममागच्छेत्’ इत्यादिवाक्यमादिशब्दार्थः ।

तत्र श्रुतौ वैश्वानरोऽनात्मात्मा वेति संशयं हृदि निधायाद्ये पक्षत्रयं, द्वितीये पक्षद्वयमाह —

तत्रेति ।

संशयहेतुं प्रश्नपूर्वकमाह —

किमिति ।

सत्यां सामग्र्यां कार्यध्रौव्यं फलितमाह —

तत्रेति ।

वाक्योपक्रमस्थादृश्यत्वादिसाधारणधर्मस्य वाक्यशेषस्थसर्वज्ञत्वाद्युक्त्या ब्रह्मविषयत्ववदिहाप्युपक्रमगतसाधारणशब्दस्य शेषस्थहोमाधारत्वलिङ्गेन प्रसिद्ध्यनुगृहीतेन जाठरार्थत्वसिद्धेस्तस्यैवोपास्यतेति विमृश्य पूर्वपक्षमाह —

किमिति ।

वैश्वानरविद्याश्रुतेः सविशेषब्रह्मण्यन्वयोक्तेः सङ्गतयः । पूर्वपक्षे जठराग्नेः, सिद्धान्ते ब्रह्मणो ध्यानं फलम् ।

साधारणे शब्दे कुतो विशेषप्रतिज्ञेत्याह —

कुत इति ।

प्रतिज्ञाविशेषे हेतुमाह —

तत्रेति ।

योऽयं वैश्वानरोऽग्निः सोऽयं पुरषाकारे देहेऽन्तरित्युक्त्वा तमेव विशिनष्टि —

येनेति ।

पक्षान्तरमाह —

अग्नीति ।

तन्मात्रग्रहे हेतुः —

सामान्येनेति ।

विश्वस्मै भुवनाय वैश्वानरमग्निमह्नां केतुं चिह्नं सूर्यमकृण्वन्कृतवन्तो देवाः । तदुदये दिनव्यवहारादित्यर्थः ।

कल्पान्तरमाह —

अग्नीति ।

तदभिमानिदेवताग्रहे हेतुः —

तस्यामिति ।

वैश्वानरस्य देवस्य सुमतौ शोभनबुद्धौ वयं स्याम भवेम । तस्यास्मद्विषया समुतिर्भवत्वित्यर्थः ।

तत्र हेतुः —

राजा हीति ।

यस्माद्भुवनानामयं राजा, कं सुखं सुखहेतुः, अभिमुखा श्रीरस्येत्यभिश्रीरीश्वरस्तस्मात्तस्य सुमतौ स्यामेत्यर्थः । हिकमित्येकं पदमित्येके । तत्राष्ययमेवार्थः । प्रयोगत्रयेऽपि तुल्यप्रयोगग्रहार्थमादिपदम् ।

कथं देवतार्थत्वमस्य प्रयोगस्येति, तदाह —

एवमाद्याया इति ।

ऐश्वर्यादीत्यादिपदं धर्मज्ञानवैराग्यादिसङ्ग्रहार्थम् ।

पक्षत्रयेऽप्यपरितोषमाह —

अथेति ।

वाजसनेयकेऽग्निवैश्वानरशब्दाभ्यामेवोपक्रमान्नेश्वरार्थतेति पक्षान्तरमाह —

तथापीति ।

शारीरे लक्षणया वैश्वानरशब्दोपपत्तिमाह —

तस्येति ।

तत्रैव हेत्वन्तरमाह —

प्रादेशेति ।

भूताग्निदेवताजीवविषयं पक्षत्रयमुपक्रममात्रं प्राणाहुत्याधारत्वादेर्द्युमूर्धत्वादेश्चायोगात् । ‘हृदयं गार्हपत्यः’ इत्यादिना हि देहावयवाः संनिहितस्यौदर्यस्याग्नेर्गार्हपत्यादित्वेन कल्प्यन्ते । ‘आस्यमाहवनीयः’ ‘तद्यद्भक्तं’ ‘तद्धोमीयम्’ इति च जाठरस्य मुखानुस्यूतस्य प्राणाहुत्याधारस्याहवनीयत्वेनास्यं कल्प्यते । नच द्युमूर्धत्वादेस्तत्रासम्भवः । ‘स होवाच मूर्धानमुपदिशन्नेष वा अतिष्ठा वैश्वानरः’ इत्यादिना मूर्धादीनां द्युलोकाद्यात्मना सम्पादनात्तैर्जाठरस्यापि द्युमूर्धत्वदिसिद्धेरारोपितद्युमूर्धत्वादिना बृहत्त्वात्तस्यैव ब्रह्मत्वमापनादात्मत्वम् ।

नच ब्रह्मणयपि द्युमूर्धत्वादेरारोपः, जाठरे तत्कल्पनायाः श्रौतत्वेन विशेषात् । अतो जाठरोपास्तिपरं वाक्यमित्युपसंहरति —

तस्मादिति ।