ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
वैश्वानरः साधारणशब्दविशेषात् ॥ २४ ॥
इदमुच्यतेवैश्वानरः परमात्मा भवितुमर्हतिकुतः ? साधारणशब्दविशेषात्साधारणशब्दयोर्विशेषः साधारणशब्दविशेषःयद्यप्येतावुभावप्यात्मवैश्वानरशब्दौ साधारणशब्दौवैश्वानरशब्दस्तु त्रयस्य साधारणः, आत्मशब्दश्च द्वयस्य, तथापि विशेषो दृश्यते, येन परमेश्वरपरत्वं तयोरभ्युपगम्यते — ‘तस्य वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाःइत्यादिःअत्र हि परमेश्वर एव द्युमूर्धत्वादिविशिष्टोऽवस्थान्तरगतः प्रत्यगात्मत्वेनोपन्यस्त आध्यानायेति गम्यते, कारणत्वात्कारणस्य हि सर्वाभिः कार्यगताभिरवस्थाभिरवस्थावत्त्वात् द्युलोकाद्यवयवत्वमुपपद्यते । ‘ सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्तिइति सर्वलोकाद्याश्रयं फलं श्रूयमाणं परमकारणपरिग्रहे सम्भवति, एवं हास्य सर्वे पाप्मानः प्रदूयन्ते’ (छा. उ. ५ । २४ । ३) इति तद्विदः सर्वपाप्मप्रदाहश्रवणम् , ‘को आत्मा किं ब्रह्मइति चात्मब्रह्मशब्दाभ्यामुपक्रमः; — इत्येवमेतानि लिङ्गानि परमेश्वरमेव गमयन्तितस्मात्परमेश्वर एव वैश्वानरः ॥ २४ ॥

सिद्धान्तयति —

तत इति ।

हेतुं प्रश्नपूर्वकमादाय व्याचष्टे —

कुत इति ।

कौ तौ साधारणौ शब्दौ, को वा तयोर्विशेषः, तत्राह —

यद्यपीति ।

नायं परमात्मगमको विशेषः, तस्य निर्विशेषस्य द्युमूर्धत्वाद्ययोगादित्याशङ्क्याह —

अत्रेति ।

अवस्थान्तरमध्यात्ममधिदैवमित्येवम् ।

तस्य तथैवोपन्यासफलमाह —

आध्यानायेति ।

कथं परस्यावस्थान्तरभाक्त्वं, तदाह —

कारणत्वादिति ।

तदेव स्फुटयति —

कारणस्येति ।

एतेन जाठरे द्युमूर्धत्वादि प्रत्युक्तम् ।

वैश्वानरोपासकस्य सर्वलोकाद्याश्रयफलश्रुतेश्च वैश्वानरस्येश्वरत्वमित्याह —

स इति ।

वैश्वानरविदः सर्वपाप्मदाहश्रुतेश्च तस्य परत्वं तद्विज्ञाने तद्दाहप्रसिद्धेरित्याह —

एवं हेति ।

यथाग्नौ क्षिप्तमिषीकातूलं दह्यत एवमस्य विदुषः सर्वाणि कर्माण्यनर्थहेतवो दह्यन्त इत्यर्थः ।

उपक्रमादपि तस्य परमात्मता तयोस्तत्रैव रूढेर्जाठरे त्वमुख्यत्वादित्याह —

को न इति ।

उक्तलिङ्गानां फलमाह —

इत्येवमेतानीति ।

श्रुतिलिङ्गसिद्धमुपसंहरति —

तस्मादिति ॥ २४ ॥