ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
स्मर्यमाणमनुमानं स्यादिति ॥ २५ ॥
इतश्च परमेश्वर एव वैश्वानरः; यस्मात्परमेश्वरस्यैवअग्निरास्यं द्यौर्मूर्धाइतीदृशं त्रैलोक्यात्मकं रूपं स्मर्यते — ‘यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिःसूर्यश्चक्षुर्दिशः श्रोत्रं तस्मै लोकात्मने नमःइतिएतत्स्मर्यमाणं रूपं मूलभूतां श्रुतिमनुमापयदस्य वैश्वानरशब्दस्य परमेश्वरपरत्वे अनुमानं लिङ्गं गमकं स्यादित्यर्थःइतिशब्दो हेत्वर्थेयस्मादिदं गमकम् , तस्मादपि वैश्वानरः परमात्मैवेत्यर्थःयद्यपि स्तुतिरियम् — ‘तस्मै लोकात्मने नमःइति, तथापि स्तुतित्वमपि नासति मूलभूते वेदवाक्ये सम्यक् ईदृशेन रूपेण सम्भवति । ‘द्यां मूर्धानं यस्य विप्रा वदन्ति खं वै नाभिं चन्द्रसूर्यौ नेत्रेदिशः श्रोत्रे विद्धि पादौ क्षितिं सोऽचिन्त्यात्मा सर्वभूतप्रणेताइत्येवंजातीयका स्मृतिरिहोदाहर्तव्या ॥ २५ ॥

स्मृत्या च श्रुत्यर्थः शक्यो निर्णेतुमित्याह —

स्मर्यमाणमिति ।

तत्र प्रतिज्ञां पूरयति —

इतश्चेति ।

सूत्रं व्याकुर्वन्नितःशब्दार्धमाह —

यस्मादिति ।

स्मृतिमुदाहरति —

यस्येति ।

तस्याः श्रुतिवन्मानत्वं व्युदस्य तद्द्वारा तदाह —

तदिति ।

इतिशब्दस्य वाक्यसमाप्त्यर्थत्वं व्यावर्त्य हेत्वर्थत्वं व्यनक्ति —

यस्मादिति ।

स्तुतेरसदारोपेऽपि सम्भवान्न मूलश्रुत्यपेक्षेत्याशङ्क्याह —

यद्यपीति ।

सद्रूपेण स्तुतित्वमौत्सर्गकमसति श्रुत्यपवादे दुर्वारमित्यर्थः ।

अस्तुतिरूपामपि स्मृतिमाह —

द्यामिति ।

इहेति त्रैलोक्यदेहस्य वैश्वानरस्येश्वरतायामित्यर्थः ॥ २५ ॥