सिद्धान्तं विधान्तरेणाक्षिप्य समाधत्ते —
शब्दादिभ्य इति ।
आक्षेपं विवृण्वन्नञर्थमाह —
अत्रेति ।
स्थितः सिद्धान्तः सप्तम्यर्थः ।
श्रुत्यादिना वैश्वानरस्योक्तेश्वरत्वाक्षेपे प्रश्नद्वारा हेतुमादत्ते —
कुत इति ।
तत्र शब्दं व्याचष्टे —
शब्द इति ।
ईश्वरस्य विरोधीति शेषः ।
तदेव स्फोरयति —
वैश्वानरेति ।
शब्दान्तरमाह —
तथेति ।
सोऽपि श्रौतो वैश्वानरशब्दवदीश्वरे न सम्भवतीति योजना ।
आदिशब्दोपात्तं लिङ्गमाह —
आदीति ।
बहूक्त्यर्थं लिङ्गान्तरमाह —
तद्यदिति ।
अपेक्षितां प्रतिज्ञां पूरयति —
एतेभ्य इति ।
वाजसनेयकेऽग्निरहस्ये वैश्वानरेऽग्निशब्दात्तस्य परस्मिन्नयोगात्तत्सामान्याच्छान्दोग्येऽपि वैश्वानरोऽग्निरेव, स चाहुत्याधारत्वादिलिङ्गाज्जाठर एवेति भावः ।
तत्रैव लिङ्गान्तरमाह —
तथेति ।
यथोक्तहेतुभ्यो वैश्वानरो नेश्वरस्तथा वक्ष्यमाणहेतोरपीत्यर्थः । अन्तःप्रतिष्ठानमपि वैश्वानरस्येति शेषः । अग्निरहस्ये सप्रपञ्चां वैश्वानरविद्यामुक्त्वा स यो हैतमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेद स सर्वलोकाद्याश्रयं फलमत्तीत्युक्तम् । पुरुषेन्तःप्रतिष्ठितश्चाग्निर्जाठर एव, प्रसिद्धेरित्यर्थः ।
तथापि वाजसनेयके द्युमूर्धत्वादिश्रवणान्न जाठरः स्यादित्युक्तमनुवदति —
यदपीति ।
अनेकलिङ्गानुगृहीतानन्यथासिद्धवैश्वानराग्निश्रुतिभ्यामेकं लिङ्गं नेयमित्याह —
अत्रेति ।
जाठरेऽपि द्युमूर्धत्वादि कथञ्चिन्नीतमिति भावः ।
न जाठरे मुख्यं द्युमूर्थत्वादीत्यपरितोषादाह —
अथवेति ।
एष निर्देशो वैश्वानराग्निशब्दाभ्याामन्तःप्रतिष्ठानो्क्त्या चेति शेषः ।
तत्रापि कुतो द्यूमूर्धत्वादि सिद्धं, तत्राह —
तस्यापीति ।
अपिरीश्वरदृष्टान्तार्थः । इमां पृथिवीमुत द्यामपि द्यावापृथिव्यावेव रोदसी यो भानुरूपेणाततान व्याप्तवान् , अन्तरिक्षं च तयोर्मध्यमाततान स देवो द्युलोकाद्यवयवो ध्येय इत्यर्थः ।
परिच्छिन्नभूताग्नेर्न द्युलोकाद्यवयवत्वमित्यरुच्या कल्पान्तरमाह —
अथवेति ।
द्युमूर्धत्वादिविशेषस्यन्यथासिद्धत्वे फलितमाह —
तस्मादिति ।