परिहारमवतारयति —
अत्रेति ।
तदक्षराणि व्याचष्टे —
नेत्यादिना ।
दृष्ट्युपदेशं सदृष्टान्तं स्पष्टयति —
परमेति ।
ब्रह्मप्रतीकस्य जाठरस्योपास्यतेष्टेति शिष्ट्वा सूत्रावयवं तदुपाधिनो ब्रह्मण एवोपास्यतेति विधान्तरेण व्याकरोति —
अथवेति ।
जाठरप्रतीकत्वात्तदुपाधित्वाद्वा परस्मिन्नपि लक्षणयाग्न्यादिशब्दसिद्धौ न तस्य तल्लिङ्गान्यथाकरणे शक्तिरिति भावः ।
असम्भवादिति व्याचष्टे —
यदि चेति ।
उपास्त्यर्थत्वेऽपि जाठरे द्युमूर्धत्वादेरसत एवारोपः स्यात् । नच सति सम्भवे स युक्त इत्यर्थः ।
अस्तु तर्हि देवतादिविषयत्वं विशेषस्येत्याशङ्क्याह —
यथेति ।
पुरुषमपीत्यादि विभजते —
यदि चेति ।
ब्रह्मोपाधित्वतत्प्रतीकत्वयोरसत्त्वं कैवल्यं तस्य सर्वलोकाद्याश्रयं फलमिति शेषः ।
पुरुषत्वेऽपि कथं ब्रह्मणस्तदन्तःप्रतिष्ठितत्वं, तत्राह —
परमेति ।
पाठान्तरमादाय व्याचष्टे —
ये त्विति ।
जाठरस्याचेतनत्वात्पुरुषत्ववन्न तद्विधत्वमपीत्यर्थः ।
ब्रह्मणोऽपि पुरुषत्वमेव न तद्विधत्वमित्याशङ्क्याह —
पुरुषेति ।
तच्च ब्रह्मण्युपास्त्यर्थं स्यादिति भावः ॥ २६ ॥