ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अत एव न देवता भूतं च ॥ २७ ॥
यत्पुनरुक्तम्भूताग्नेरपि मन्त्रवर्णे द्युलोकादिसम्बन्धदर्शनात्मूर्धैव सुतेजाःइत्याद्यवयवकल्पनं तस्यैव भविष्यतीति, तच्छरीराया देवताया वा ऐश्वर्ययोगादिति; तत्परिहर्तव्यम्अत्रोच्यतेअत एवोक्तेभ्यो हेतुभ्यो देवता वैश्वानरःतथा भूताग्निरपि वैश्वानरः हि भूताग्नेरौष्ण्यप्रकाशमात्रात्मकस्य द्युमूर्धत्वादिकल्पनोपपद्यते, विकारस्य विकारान्तरात्मत्वासम्भवात्तथा देवतायाः सत्यप्यैश्वर्ययोगे द्युमूर्धत्वादिकल्पना सम्भवति, अकारणत्वात् परमेश्वराधीनैश्वर्यत्वाच्चआत्मशब्दासम्भवश्च सर्वेष्वेषु पक्षेषु स्थित एव ॥ २७ ॥

द्युमूर्धत्वादिविशेषस्य जाठरविषयत्वं सन्दूष्य देवतादिविषयत्वं दूषयति —

अत एवेति ।

सूत्रं व्याकर्तुं व्यावर्त्यं पक्षद्वयमनूद्य तस्य निरस्यत्वमाह —

यदिति ।

सूत्रमुत्थाप्य व्याकरोति —

अत्रेति ।

द्युमूर्धत्वादिसम्बन्धसर्वलोकाद्याश्रयफलभाक्त्वसर्वपाप्मदाहात्मब्रह्मोपक्रमा उक्ता हेतवः ।

भूतदेवतयोरपि द्युमूर्धत्वादि सिध्यतीत्युक्तं प्रत्याह —

न हीति ।

किञ्च न देवताया निरङ्कुशमैश्वर्यं किन्त्वीश्वरायत्तं, अतस्तस्यैव सर्वकारणस्य द्युमूर्धत्वादीत्याह —

परमेश्वरेति ।

पक्षत्रयसाधारणं दोषमाह —

आत्मेति ।

चकारो ब्रह्मशब्दायोगस्य सर्वपाप्मदाहाद्ययोगस्य च समुच्चयार्थः ॥ २७ ॥