ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
साक्षादप्यविरोधं जैमिनिः ॥ २८ ॥
पूर्वं जाठराग्निप्रतीको जाठराग्न्युपाधिको वा परमेश्वर उपास्य इत्युक्तम् अन्तःप्रतिष्ठितत्वाद्यनुरोधेनइदानीं तु विनैव प्रतीकोपाधिकल्पनाभ्यां साक्षादपि परमेश्वरोपासनपरिग्रहे कश्चिद्विरोध इति जैमिनिराचार्यो मन्यतेननु जाठराग्न्यपरिग्रहेऽन्तःप्रतिष्ठितत्ववचनं शब्दादीनि कारणानि विरुध्येरन्नितिअत्रोच्यतेअन्तःप्रतिष्ठितत्ववचनं तावन्न विरुध्यते हीहपुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेदइति जाठराग्न्यभिप्रायेणेदमुच्यते, तस्याप्रकृतत्वादसंशब्दितत्वाच्चकथं तर्हि ? यत्प्रकृतं मूर्धादिचुबुकान्तेषु पुरुषावयवेषु पुरुषविधत्वं कल्पितम् , तदभिप्रायेणेदमुच्यते — ‘पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेदइतियथा वृक्षे शाखां प्रतिष्ठितां पश्यतीति, तद्वत्अथवा यः प्रकृतः परमात्मा अध्यात्ममधिदैवतं पुरुषविधत्वोपाधिः, तस्य यत्केवलं साक्षिरूपम् , तदभिप्रायेणेदमुच्यते — ‘पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेदइतिनिश्चिते पूर्वापरालोचनवशेन परमात्मपरिग्रहे, तद्विषय एव वैश्वानरशब्दः केनचिद्योगेन वर्तिष्यतेविश्वश्चायं नरश्चेति, विश्वेषां वायं नरः, विश्वे वा नरा अस्येति विश्वानरः परमात्मा, सर्वात्मत्वात् , विश्वानर एव वैश्वानरःतद्धितोऽनन्यार्थः, राक्षसवायसादिवत्अग्निशब्दोऽप्यग्रणीत्वादियोगाश्रयणेन परमात्मविषय एव भविष्यतिगार्हपत्यादिकल्पनं प्राणाहुत्यधिकरणत्वं परमात्मनोऽपि सर्वात्मत्वादुपपद्यते ॥ २८ ॥

वाजसनेयकेऽग्निशब्दं जाठरार्थमुपेत्य परस्मिन्नपि तत्सम्बन्धाल्लक्षणां स्वीकृत्य ब्रह्मोपास्तिरित्युक्तम् । इदानीमत्राप्यग्न्यादिशब्दो ब्रह्मार्थः ।

ततो यदधिदैवं द्युलोकादिपृथिव्यन्तं यच्चाध्यात्मं मूर्धादिचुबुकान्तं रूपं तदनुगतं ब्रह्मैवोपास्यं न जाठरावच्छिन्नमित्याह —

साक्षादिति ।

वृत्तमनूद्य सूत्रार्थं विवृणोति —

पूर्वमित्यादिना ।

जाठरस्य प्रतीकादित्वेन ग्रहे हेतुं सूचयति —

अन्तरिति ।

साक्षादीश्वरोपास्तौ विरोधं शङ्कते —

नन्विति ।

विरोधं व्युदस्यति —

अत्रेति ।

अन्तःप्रतिष्ठितत्वोक्तेर्जाठराग्रहेऽप्यविरोधं प्रतिज्ञाय हेतुमाह —

न हीति ।

इहेति वाजसनेयकोक्तिः । अन्तःप्रतिष्ठितत्वमिदमा परामृष्टम् ।

प्रकरणोपपदयोरभावाज्जाठरानभिप्रायेऽपि पुरुषशब्देन करशिरश्चरणादिमतोऽभिधानात्कथं तद्विधत्वं तदन्तःप्रतिष्ठितत्वं वा परस्यापीत्याशङ्क्याह —

कथमिति ।

पुरुषावयवसम्पत्त्या तद्विधत्वं कार्यकारणसमुदायात्मनि तस्मिन्मूर्धादिचुबुकान्तावयवस्थितेश्च पुरुषेऽन्तःप्रतिष्ठितत्वं समुदायिनां समुदायमध्यपातित्वादित्याह —

यथेति ।

अन्तःप्रतिष्ठितत्वेन माध्यस्थ्येन साक्षीव लक्ष्यत इति पक्षान्तरमाह —

अथवेति ।

अन्तःप्रतिष्ठितत्वोक्तेरविरोधमुक्तवा वैश्वानरशब्दस्याविरोधमाह —

निश्चिते चेति ।

तस्य तत्रारूढेर्न तद्विषयतेत्याशङ्क्याह —

केनेति ।

सर्वात्मत्वमाश्रित्य योगवृत्तिमेव कथयति —

विश्वश्चेति ।

सर्वकारणत्वेन योगवृत्तिमाह —

विश्वेषामिति ।

सर्वेश्वरत्वेनापि तामाह —

विश्वे वेति ।

सर्वात्मत्वं सर्वकारणत्वं सर्वेश्वरत्वोपलक्षणम् ।

तथापि विश्वनर इति स्यात्कथं वैश्वानर इत्युच्यते, तत्राह —

विश्वेति ।

‘नरे संज्ञायाम्’ इति दीर्घता ।

अण्प्रत्ययस्तर्हि कथं, तत्राह —

तद्धित इति ।

अनन्यार्थत्वं प्रकृत्यर्थातिरिक्तार्थशून्यत्वम् ।

तथापि कथं परस्मिन्नग्निपदं, तदाह —

अग्नीति ।

अगेर्धातोर्गत्यर्थस्य निप्रत्ययान्तस्याग्निरिति रूपं, तत्राङ्गयति गमयति जगतोऽग्रं जन्म प्रापयतीत्यग्निरग्रणीरुक्तः । आदिशब्दादभितोगतत्वं सर्वज्ञातृत्वं च गृहीतम् । एवं वाजिशाखायामपि परोपास्तिसिद्धौ न तद्बलाच्छान्दोग्यवाक्यं विघटनीयमित्युक्तम् ।

यत्तु छान्दोग्ये परस्मिन्नसम्भवि लिङ्गमुक्तं, तत्राह —

गार्हपत्यादीति ॥ २८ ॥