ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अभिव्यक्तेरित्याश्मरथ्यः ॥ २९ ॥
अतिमात्रस्यापि परमेश्वरस्य प्रादेशमात्रत्वमभिव्यक्तिनिमित्तं स्यात्अभिव्यज्यते किल प्रादेशमात्रपरिमाणः परमेश्वर उपासकानां कृतेप्रदेशविशेषेषु वा हृदयादिषूपलब्धिस्थानेषु विशेषेणाभिव्यज्यतेअतः परमेश्वरेऽपि प्रादेशमात्रश्रुतिरभिव्यक्तेरुपपद्यत इत्याश्मरथ्य आचार्यो मन्यते ॥ २९ ॥

सूत्रत्रयमाकाङ्क्षाद्वारादत्ते —

कथमिति ।

मतभेदेन व्याख्यामेव दर्शयन्नादावाश्मरथ्यमतमाह —

अभिव्यक्तेरिति ।

विभोरीश्वरस्यायुक्ता प्रादेशमात्रतेति शङ्कां निरस्यन्व्याकरोति —

अतिमात्रस्येति ।

अतिक्रान्ता मात्राः परिमाणं येन तस्येति यावत् ।

अभिव्यक्तिनिमित्तं प्रादेशमात्रत्वमित्येतदेव व्यनक्ति —

अभिव्यज्यत इति ।

स्वाभाविकाणिमाद्यैश्वर्यख्यापनार्थं महतोऽपीश्वरस्योपासकान्प्रति सूक्ष्मत्वेन व्यक्तिरिति द्योतयति —

किलेति ।

नियमेन प्रादेशमात्रतया व्यक्तौ हेत्वभावान्नेयं व्याख्येत्याशङ्क्याह —

प्रदेशेष्विति ।

अभिव्यक्तिफलमाह —

अत इति ॥ २९ ॥