ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अनुस्मृतेर्बादरिः ॥ ३० ॥
प्रादेशमात्रहृदयप्रतिष्ठेन वायं मनसानुस्मर्यतेतेनप्रादेशमात्रःइत्युच्यतेयथा प्रस्थमिता यवाः प्रस्था इत्युच्यन्ते, तद्वत्यद्यपि यवेषु स्वगतमेव परिमाणं प्रस्थसम्बन्धाद्व्यज्यते, चेह परमेश्वरगतं किञ्चित्परिमाणमस्ति, यद्धृदयसम्बन्धाद्व्यज्येत; तथापि प्रयुक्तायाः प्रादेशमात्रश्रुतेः सम्भवति यथाकथञ्चिनुस्मरणमालम्बनमित्युच्यतेप्रादेशमात्रत्वेन वायमप्रादेशमात्रोऽप्यनुस्मरणीयः प्रादेशमात्रश्रुत्यर्थवत्तायैएवमनुस्मृतिनिमित्ता परमेश्वरे प्रादेशमात्रश्रुतिरिति बादरिराचार्यो मन्यते ॥ ३० ॥

मतान्तरमाह —

अनुस्मृतेरिति ।

व्याचष्टे —

प्रादेशेति ।

पूर्वेण विकल्पार्थो वाशब्दः ।

अभिव्यञ्जकस्थं परिमाणमभिव्यङ्ग्ये भातीत्येतद्दृष्टान्तेनाह —

यथेति ।

वैषम्यमाशङ्क्य प्रत्याह —

यद्यपीति ।

हृदयस्थं परिमाणं मनःप्रभवस्मृतावारोपितं स्मृत्यैक्येनाध्यस्तस्मर्यमाणेश्वरेऽध्यस्तमालम्बनमिति यथाकथञ्चिदित्युक्तम् ।

स्मृतिगतपरिमाणस्य हृदयद्वारारोपितस्य स्मर्यमाणो कथमारोपो विषयविषयित्वेन भेदादित्याशङ्क्य व्याख्यान्तरमाह —

प्रादेशेति ।

उपसंहरति —

एवमिति ॥ ३० ॥