प्रादेशमात्रश्रुतेर्विषयं कथञ्चिदुक्त्वा साक्षादेव श्रुत्युक्तं विषयमाह —
सम्पत्तेरिति ।
प्रतिज्ञां विभजते —
सम्पत्तीति ।
सम्पत्तिरत्राश्रुतेति पृच्छति —
कुत इति ।
उत्तरम् —
तथाहीति ।
तदेेव ब्राह्मणमुदाहरति —
प्रादेशेति ।
परमेश्वरमप्रादेशमात्रमपि सम्पादनेन प्रादेशमात्रमिव सम्यग्विदितवन्तो देवास्तमेवेश्वरं पूर्वमभिसम्पन्नास्ततो वो युष्मभ्यं तथा द्युप्रभृतीनेतानवयवान्वक्ष्यामि यथा प्रादेशपरिमाणं वैश्वानरं सम्पादयिष्यामीत्यौपमन्यवप्रभृतीन्प्रति वक्तव्यत्वेन प्रतिज्ञायाश्वपती राजोवाच, किं कुर्वन्नित्युक्ते स्वस्य मूर्धानमुपदिशन्कराग्रेण दर्शयन्नेष वै लोकान्भूरादीनतीत्य तिष्ठतीत्यतिष्ठा द्यौर्वैश्वानरस्यावयव इति । प्रसिद्धे मूर्धनि वैश्वानरस्याधिदैवं यो मूर्धा द्युलोकस्तद्दृष्टिः कर्तव्येत्यर्थः । स्वकीये चक्षुषी दर्शयन्नुवाचैष वै सुतेजाः शोभनतेजःसहितः सूर्योऽधिदैवं वैश्वानरस्य चक्षुरिति । प्रसिद्धयोश्चक्षुषोर्वैश्वानरस्याधिदैवं यदादित्याख्यं चक्षुस्तद्दृष्टिरित्यर्थः ।
अध्यात्मप्रसिद्धयोर्नासिकयोर्वैश्वानरस्याधिदैवं यो वायुः प्राणस्तद्दृष्टिरित्याह —
नासिके इति ।
अध्यात्ममुखावच्छिन्ने नभसि वैश्वानरस्य यदधिदैवं सन्देहाख्यं नभस्तद्धीरित्याह —
मुख्यमिति ।
मुखसम्भवास्वप्सु वैश्वानरस्याधिदैवं या बस्तिस्थानीया आपस्तद्दृष्टिमाह —
मुख्या इति ।
प्रसिद्धे चुबुके वैश्वानरस्य याधिदैवं पादाख्या पृथिवी तद्दृष्टिमाह —
चुबुकमिति ।
ननु छान्दोग्यवाजसनेयकयोर्नैका विद्या गुणवैषम्यादतो न वाजसनेयकानुसारेण छान्दोग्ये प्रादेशमात्रश्रुतिर्नेतव्येति, तत्राह —
यद्यपीती ।
अल्पवैषम्येऽपि बहुतररूपप्रत्यभिज्ञानाद्विद्यैक्यमित्यर्थः । विद्यैक्यं किञ्चिदित्युक्तम् ।
तथापि प्रकरणभेदाद्विद्याभेदमाशङ्क्याह —
सर्वेति ।
न्यायस्य गुणोपसंहाराधिकारे वक्ष्यमाणत्वाद्वाजसनेयकस्थातिष्ठागुणश्छान्दोग्ये तद्गतश्च विश्वरूपगुणोऽन्यत्र ज्ञेय इत्यर्थः ।
छान्दोग्यवदितरत्र ‘को न आत्मा किं ब्रह्म’ इत्युपक्रमाभावान्न विद्यैक्यमित्याशङ्क्य ‘स एषोऽग्निर्वैश्वानरो यत्पुरुषः’ इत्युपसंहारे पुरुषोद्देशेनाग्रणीत्वादिविधेरुपक्रमेऽपि तस्यैवावगमात्पुरुषस्य च परमात्मत्वादुभयत्र विद्यैक्याद्वाजसनेयकानुरोधाच्छान्दोग्ये प्रादेशमात्रश्रुतिरित्युपसंहरति —
सम्पत्तीति ॥ ३१ ॥