प्रादेशमात्रश्रुतिः सम्पत्तिनिमित्तेत्यत्र श्रुत्यन्तरमाह —
आमनन्तीति ।
सूत्रं व्याकरोति —
आमनन्ति चेति ।
य एष प्रसिद्धः परमात्मा नाशाभावादनन्तः, स्वरूपेणानभिव्यक्तेरव्यक्तः, तं कथं विजानीयामित्यत्रिप्रश्ने याज्ञवल्क्यस्योत्तरम् —
स इति ।
स हि परमात्मा जीवात्मन्यविमुक्ते व्यवहारतः संसारिणि प्रतिष्ठितः परस्यैव प्रत्यक्त्वादित्यर्थः ।
पुनरत्रिरपृच्छत् —
स इति ।
तत्र याज्ञवल्क्यो ब्रूते —
वरणायामिति ।
वरणा भ्रूः ।
प्रश्नान्तरं भूमिकापूर्वमादत्ते —
तत्र चेति ।
प्रकृता श्रुतिः सप्तम्यर्थः । इमामेव प्रसिद्धां भ्रूसहितां नासिकां वारयति नाशयतीति वरणासहिता नासीति निश्चयेनोक्त्वेत्यर्थः । अविमुक्तस्य स्थानभूता ‘का वै वरणा का च नासी’ इति प्रश्नस्य प्रत्युक्तिः सर्वानिन्द्रियवृृृृत्तिकृतान्दोषान्वारयति तेन वरणेति सर्वानिन्द्रियवृत्तिकृतान्पाप्मनो नाशयति तेन नासीति । नियम्यजीवाधिष्ठानत्वद्वारा नियन्तुरीश्वरस्याधिष्ठानत्वान्नासाभ्रुवोः पाप्मवारकत्वादिसिद्धिः ।
तयोर्मध्येऽपि स्थानविशेषगवेषणया पृच्छति —
कतमच्चेति ।
याज्ञवल्क्यस्त्वाह —
भ्रुवोरिति ।
प्राणो नासिक्यस्तयोर्मध्यं द्युलोकस्य स्वर्गस्य परस्य च ब्रह्मलोकस्य सन्धित्वेन ध्येयमित्याह —
स इति ।
श्रुत्यन्तरसंवादफलमाह —
तस्मादिति ।
विशेषणान्तरं घटयति —
अभिविमानेति ।
प्रत्यक्त्वेन सर्ववेद्यत्वं सर्वात्मत्वे सत्यानन्त्यं सर्वकारणत्वं वा निमित्तीकृत्याभिप्रायमेव प्रकटयति —
प्रत्यगिति ।
परमेश्वरे साधकसत्त्वाज्जाठरादौ तदभावात्परोपास्तिपरं वैश्वानरवाक्यमित्युपसंहरति —
तस्मादिति ।
सविशेषप्रचुराणां वा रूढिबहुलानां वान्यतरत्रास्पष्टलिङ्गानां वा वाक्यानां ब्रह्मण्यन्वयः सिद्ध इति पादार्थं निगमयति —
इति सिद्धमिति ॥ ३२ ॥