ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
द्युभ्वाद्यायतनं स्वशब्दात् ॥ १ ॥
इदं श्रूयतेयस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैःतमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः’ (मु. उ. २ । २ । ५) इतिअत्र यदेतद्द्युप्रभृतीनामोतत्ववचनादायतनं किञ्चिदवगम्यते, तत्किं परं ब्रह्म स्यात् , आहोस्विदर्थान्तरमिति सन्दिह्यतेतत्रार्थान्तरं किमप्यायतनं स्यादिति प्राप्तम्कस्मात् ? ‘अमृतस्यैष सेतुःइति श्रवणात्पारवान्हि लोके सेतुः प्रख्यातः परस्य ब्रह्मणः पारवत्त्वं शक्यमभ्युपगन्तुम्, अनन्तमपारम्’ (बृ. उ. २ । ४ । १२) इति श्रवणात्अर्थान्तरे चायतने परिगृह्यमाणे स्मृतिप्रसिद्धं प्रधानं परिग्रहीतव्यम् , तस्य कारणत्वादायतनत्वोपपत्तेःश्रुतिप्रसिद्धो वा वायुः स्यात्; वायुर्वाव गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं लोकः परश्च लोकः सर्वाणि भूतानि सन्दृब्धानि भवन्ति’ (बृ. उ. ३ । ७ । २) इति वायोरपि विधारणत्वश्रवणात्शारीरो वा स्यात्; — तस्यापि भोक्तृत्वात् , भोग्यं प्रपञ्चं प्रत्यायतनत्वोपपत्तेः इत्येवं प्राप्ते इदमाह

पूर्वस्मिन्पादे सविशेषवस्तुप्रचुराणां वाक्यानां ब्रह्मपरतोक्ता । सम्प्रति निर्विशेषब्रह्मप्रचुराणां तेषां तत्परतां वक्तुं पादान्तरमारभ्यते । तत्र पूर्वाधिकरणे त्रैलोक्यात्मा वैश्वानरः परमात्मेत्युक्तं तर्हि त्रैलोक्यायतनमन्यदित्याशङ्क्याह —

द्युभ्वादीति ।

यद्वोपक्रमस्थश्रुतेर्वाक्यशेषस्थलिङ्गेनान्यपरत्वमुक्तं, तत्प्रसङ्गेन जगदायतनत्वस्यानेकसाधारणस्य वाक्यशेषस्थात्मश्रुत्या ब्रह्मपरत्वमाह —

द्युभ्वादीति ।

आथर्वणवाक्यमुदाहरति —

इदमिति ।

लोकत्रयकल्पनाधिष्ठानत्वोक्त्या पञ्चीकृतभूतपञ्चकाधिष्ठानत्वमाह —

यस्मिन्निति ।

कार्यब्रह्माख्यसमष्ट्यन्तःकरणस्य तत्रैव कल्पितत्वमाह —

मन इति ।

इन्द्रियसमष्टिदेवतानां तत्रैव कल्पितत्वं सूचयति —

सहेति ।

चकाराद्भूतसूक्ष्माव्याकृतेश्वरान्तर्यामिणामध्यस्तत्वं ध्वनितम् ।

मायाख्यां प्रकृतिं कल्पितकार्यपरम्परां च श्रुत्युदिततर्काग्निना विलाप्य तमेवाधिष्ठानभूतमद्वयमात्मानं जानथेति मुमुक्षून्प्रत्याह —

तमेवेति ।

वाच्यवाचककल्पनानामैक्यापरोक्षप्रमित्या वादमाह —

अन्या इति ।

एष वाग्विमोकपूर्वकस्तत्त्वसाक्षात्कारः सोपादानसंसारनिवृत्तित्वेनामृृतत्वस्य व्यवस्थापक इत्याह —

अमृतस्येति ।

आयतनशब्दाश्रुतेर्नेदमुदाहरणमित्याशङ्क्याह —

अत्रेति ।

आयतनत्वसाधारणधर्मदृष्ट्या संशयमाह —

तदिति ।

अर्थान्तरं प्रधानम् ।

उपक्रमस्थस्य साधारणशब्दस्य वाक्यशेषगतद्युमूर्धत्वादिलिङ्गेनेश्वरार्थत्ववदिहाप्युपक्रमस्थसाधारणायतनत्वस्य वाक्यशेषगतसेतुश्रुत्या परिच्छिन्ने सेतुशब्दार्थे व्यवस्थेति पूर्वपक्षयति —

तत्रेति ।

निर्विशेषे ब्रह्मण्युक्तश्रुत्यन्वयोक्तेः सङ्गतयः । पूर्वपक्षे प्रधानोपास्तिः, सिद्धान्ते परमेश्वरधीरिति फलम् ।

आयतनत्वस्य ब्रह्मण्यपि योगान्नार्थान्तरमित्याशङ्क्य प्रत्याह —

कस्मादिति ।

अमृतस्येति श्रवणादेष सेतुरिति च श्रवणादिति योजना ।

अमृतस्येति षष्ठीप्रयोगाद्ब्रह्मणः स्वयममृतत्वादन्यस्यामृतस्याभावात्तत्प्रयोगो ब्रह्मणि नेति मत्वा सेतुश्रुतिं विशदयति —

पारवानिति ।

तथापि कुतो न ब्रह्मणः सेतुत्वं, तत्राह —

न चेति ।

आनन्त्यमनौपचारिकमित्युक्तम् । उभयत्रापि सेतुशब्दस्य मुख्यार्थत्वायोगेऽपि विधरणस्यागन्तुकस्याश्रयणान्निजसिद्धपरिच्छिन्नाश्रयणं युक्तमिति भावः ।

किं तदर्थान्तरं, तदाह —

अर्थान्तरे चेति ।

श्रुत्युक्तमायतनं श्रौतमेवोचितं न स्मार्तमित्याशङ्क्याह —

श्रुतीति ।

वायोरायतनत्वं साधयति —

वायुरिति ।

सर्वगतस्य तन्त्वादिवत्कुतः सूत्रतेत्याशङ्क्य सूक्ष्मतया सूत्रवदवस्थानादित्याह —

वायुनेति ।

आकाशस्यापि सूत्रवदन्तर्वर्तनमस्तीत्यासङ्क्यास्य सर्वं प्रत्येकस्वभावतया विधारकत्वमाह —

अयं चेति ।

सन्दृब्धानि सङ्ग्रथितानि विधृतानीत्यर्थः ।

आयतनस्यात्मत्वश्रुतेर्नैवमित्याशङ्क्याह —

शारीरो वेति ।

तस्य परिच्छिन्नत्वान्न सर्वविधारकतेत्याशङ्क्य कर्मोपास्त्यादिद्वारा सर्वस्थितिहेतुत्वमाह —

तस्येति ।

विश्वायतनत्वेन प्रधानस्य वायोर्भोक्तुर्वा ध्यानार्थं वाक्यमित्युपसंहर्तुमितिशब्दः ।

पूर्वपक्षमनूद्योत्तरपक्षप्रतिज्ञामादाय विगृह्णाति —

एवमिति ।

‘न भूसुधियोः’ इति निषेधाद्द्युभ्वादीति यणादेशासिद्धिरिति चेन्न । ‘गतिकारकोपपदाभ्यामन्यपूर्वस्य नेष्यते’ इति विशेषणात् , अस्य च कारकोपपदत्वात् । द्वन्द्वे द्वयोः समत्वादुपपदत्वं दिवो नेति चेन्न । समत्वेऽपि प्रथमप्रयुक्ताया दिवश्चरमप्रयुक्तां भुवं प्रत्युपपदत्वमारोप्य समासे यणादेशसिद्धेः । न च द्वन्द्वे समस्यमानानां समत्वनियमः, राजपुरुषादिषु व्यभिचारात् । तस्माद्वर्षाभ्वादिवद्द्युभ्वादीत्यविरुद्धम् ।