ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
द्युभ्वाद्यायतनं स्वशब्दात् ॥ १ ॥
द्युभ्वाद्यायतनमितिद्यौश्च भूश्च द्युभुवौ, द्युभुवौ आदी यस्य तदिदं द्युभ्वादियदेतदस्मिन्वाक्ये द्यौः पृथिव्यन्तरिक्षं मनः प्राणा इत्येवमात्मकं जगत् ओतत्वेन निर्दिष्टम् , तस्यायतनं परं ब्रह्म भवितुमर्हतिकुतः ? स्वशब्दात् आत्मशब्दादित्यर्थःआत्मशब्दो हीह भवति — ‘तमेवैकं जानथ आत्मानम्इतिआत्मशब्दश्च परमात्मपरिग्रहे सम्यगवकल्पते, नार्थान्तरपरिग्रहेक्वचिच्च स्वशब्देनैव ब्रह्मण आयतनत्वं श्रूयतेसन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः’ (छा. उ. ६ । ८ । ४) इतिस्वशब्देनैव चेह पुरस्तादुपरिष्टाच्च ब्रह्म सङ्कीर्त्यते — ‘पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्इति, ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण’ (मु. उ. २ । २ । १२) इति तत्र त्वायतनायतनवद्भावश्रवणात् सर्वं ब्रह्मेति सामानाधिकरण्यात् , यथानेकात्मको वृक्षः शाखा स्कन्धो मूलं चेति, एवं नानारसो विचित्र आत्मेत्याशङ्का सम्भवतितां निवर्तयितुं सावधारणमाह — ‘तमेवैकं जानथ आत्मानम्इतिएतदुक्तं भवति कार्यप्रपञ्चविशिष्टो विचित्र आत्मा विज्ञेयःकिं तर्हि ? अविद्याकृतं कार्यप्रपञ्चं विद्यया प्रविलापयन्तः तमेवैकमायतनभूतमात्मानं जानथ एकरसमितियथायस्मिन्नास्ते देवदत्तस्तदानयइत्युक्ते आसनमेवानयति, देवदत्तम्तद्वदायतनभूतस्यैवैकरसस्यात्मनो विज्ञेयत्वमुपदिश्यतेविकारानृताभिसन्धस्य चापवादः श्रूयतेमृत्योः मृत्युमाप्नोति इह नानेव पश्यति’ (क. उ. २ । १ । १०) इति । ‘सर्वं ब्रह्मइति तु सामानाधिकरण्यं प्रपञ्चप्रविलापनार्थम् , अनेकरसताप्रतिपादनार्थम् , यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव’ (बृ. उ. ४ । ५ । १३) इत्येकरसताश्रवणात्तस्माद्द्युभ्वाद्यायतनं परं ब्रह्मयत्तूक्तम्सेतुश्रुतेः, सेतोश्च पारवत्त्वोपपत्तेः, ब्रह्मणोऽर्थान्तरेण द्युभ्वाद्यायतनेन भवितव्यमिति, अत्रोच्यतेविधारणत्वमात्रमत्र सेतुश्रुत्या विवक्ष्यते, पारवत्त्वादि हि मृद्दारुमयो लोके सेतुर्दृष्ट इत्यत्रापि मृद्दारुमय एव सेतुरभ्युपगम्यतेसेतुशब्दार्थोऽपि विधारणत्वमात्रमेव, पारवत्त्वादि, षिञो बन्धनकर्मणः सेतुशब्दव्युत्पत्तेःअपर आह — ‘तमेवैकं जानथ आत्मानम्इति यदेतत्सङ्कीर्तितमात्मज्ञानम् , यच्चैतत्अन्या वाचो विमुञ्चथइति वाग्विमोचनम् , तत् अत्र अमृतत्वसाधनत्वात् , ‘अमृतस्यैष सेतुःइति सेतुश्रुत्या सङ्कीर्त्यते तु द्युभ्वाद्यायतनम्तत्र यदुक्तम्सेतुश्रुतेर्ब्रह्मणोऽर्थान्तरेण द्युभ्वाद्यायतनेन भाव्यमिति, एतदयुक्तम् ॥ १ ॥

द्वन्द्वे तद्गुणसंविज्ञाने च कृते तस्यायतनमिति स्थिते प्रतिज्ञाया विवक्षितमर्थमाह —

यदिति ।

जगदायतनत्वस्यान्यत्रापि योगे विशेषोक्तिरयुक्तेत्याह —

कुत इति ।

तत्र हेतुमादाय योजयति —

स्वशब्दादिति ।

आयतनशब्दसमानाधिकृतात्मशब्दस्यादृष्टिमाशङ्क्याह —

आत्मेति ।

जीवादावपि तदुपपत्तिमाशङ्क्योक्तम् —

आत्मशब्दश्चेति ।

पक्षान्तरे मुख्यमाप्त्याद्ययुक्तमित्यर्थः ।

स्वशब्देन ब्रह्मोक्त्वा तस्यासाधारणसच्छब्देनायतनत्वोक्तिरिति योजनान्तरमाह —

क्वचिच्चेति ।

स्वस्यायतनस्यासाधारणायतनशब्दादिति योजनान्तरं मत्वा श्रुतिमाह —

सदिति ।

सतो निमित्तत्वेनैव मूलत्वं प्रत्याह —

सदायतना इति ।

असमवायिकारणस्यैव सतः स्थितिहेतुत्वमेवेत्याशङ्क्याह —

सत्पतिष्ठा इति ।

स्वशब्देन ब्रह्मोक्त्वा तदसाधारणपुरुषशब्देन ब्रह्मशब्देन परशब्देनामृतशब्देन चोक्तेरित्यर्थान्तरमाह —

स्वशब्देनेति ।

इहेति प्रकरणोक्तिः । ‘यस्मिन्द्यौः’ इत्यादिवाक्यात्पूर्वोत्तरवाक्ययोर्ब्रह्मोक्तेर्मध्येऽपि तदेव युक्तं, आदिमध्यावसानानामैकार्थ्ये वाक्यैक्यादित्यर्थः ।

पुरस्ताद्ब्रह्मोक्तिमाह —

पुरुष इति ।

पुरस्तादपि तदुक्तिमाह —

ब्रह्मैवेति ।

पुरस्तात्पूर्वस्यां दिशि पश्चात्पश्चिमायां दक्षिणतो दक्षिणस्यामुत्तरेणोत्तरस्यां यदिदं दृश्यते तद्ब्रह्मैवेत्यर्थः ।

सर्वत्र ब्रह्मोक्तावपि तदनेकरसत्वमाशङ्क्याह —

तत्रेति ।

उक्तवाक्यं सप्तम्यर्थः । सामानाधिकरण्याद्विचित्र आत्मेत्याशङ्का सम्भवतीति सम्बन्धः ।

वैचित्र्यं दृष्टान्तेनाह —

यथेति ।

कथं तर्हि तन्निरसनं, तदाह —

तामिति ।

जगदायतनं ब्रह्म ज्ञेयमित्युक्ते कुतस्तदैकरस्यं, तत्राह —

एतदिति ।

तथापि कथं प्रपञ्चायतनस्य निष्कृष्य ज्ञानं, तत्राह —

यथेति ।

एकशब्दादेवकाराच्चायतनपदलक्ष्यमेकरसं ब्रह्मात्मत्वेन ज्ञेयमित्युक्त्वा तत्रैव हेत्वन्तरमाह —

विकारेति ।

वाचारम्भणश्रुतेर्दृश्यत्वादित्युक्तेश्च विकारो मिथ्या तस्मिन्ननृतेऽनिर्वाच्येऽभिसन्धाभिमानो यस्य तस्येति यावत् । द्वैतं सत्यं पश्यतो निन्दाश्रुतेरप्येकरसं ब्रह्मेत्यर्थः ।

ब्रह्मैकरस्यं सामानाधिकरण्यश्रुतिविरुद्धमित्याशङ्क्य पुरुषः स्थाणुरितिवज्जाड्यादिना विरुद्धस्य द्वैतस्य ब्रह्मणा सामानाधिकरण्यं बाधार्थमित्याह —

सर्वमिति ।

यदविद्यारोपितं तत्सर्वं वस्तुतो ब्रह्म न तु यद्ब्रह्म तत्सर्वमतो न श्रुतिविरुद्धमित्यर्थः ।

ब्रह्मानूद्य सर्वत्वविधावप्रसिद्धानुवादेन प्रसिद्धविधिप्रसक्तिरित्यभिप्रेत्य ब्रह्मणो नानारसत्वे श्रुत्यन्तरविरोधमाह —

स यथेति ।

सैन्धवखिल्योऽन्तर्बहिर्विभागहीनः सर्वात्मना लवणैकरसो यथा तथात्मापि सर्वथा चिदेकरसमूर्तिरिति श्रुत्यर्थः ।

ब्रह्मणश्चिदेकरसस्य प्रतिपाद्यत्वे फलितमाह —

तस्मादिति ।

तस्यैकरस्यात्प्रधानादेस्तद्विरहादित्यर्थः ।

सेतुश्रुतेर्गतिं वक्तुमुक्तमनुवदति —

यत्त्विति ।

तस्याविवक्षितां गतिमाह —

अत्रेति ।

अत्रेति सप्तम्या भावप्रधानममृतं वाक्यं चोक्तम् । सावयवत्वाचेतनत्वादि वक्तुमादिपदम् ।

ननु सेतुनाऽविनाभूतत्वात्पारवत्त्वादेस्तत्र तच्छब्दाद्धीरिति चेन्नेत्याह —

नहीति ।

अत्रापीति प्रकृतवाक्योक्तिः अभ्युपगम्यते, परेणापीति शेषः ।

विधरणत्वस्यागन्तुकत्वात्पारवत्त्वादेः स्वाभाव्यात्तदेव सेतुश्रुत्या ग्राह्यमिति चेत् , तत्राह —

सेत्विति ।

गुणवृत्त्यापि शब्दैकदेशार्थविधरणगुणस्वीकरणमेव युक्तं न त्वत्यन्तबहिरर्थपारवत्त्वाद्यङ्गीकरणं मुख्यार्थैकदेशलाभेन विधरणस्य बुद्धिस्थत्वात् , अमृतस्येति षष्ठी च ब्रह्मपक्षे भावार्थस्वीकारादिति भावः ।

सेतुशब्दं ब्रह्मेत्युपेत्य सेतुश्रुतेर्गतिमुक्त्वा विषयान्तरोक्त्यापि तद्गतिमाह —

अपर इति ।

सेतुशब्दस्य वाग्विमोकपूर्वकमात्मज्ञानमर्थो न ब्रह्मेति स्थिते फलितमाह —

तत्रेति ॥ १ ॥