द्युभ्वाद्यायतनं ब्रह्मेत्यत्र हेत्वन्तरमाह —
मुक्तेति ।
तद्व्याख्यातुं प्रतिज्ञां पूरयति —
इतश्चेति ।
इतःशब्दार्थं स्पष्टयति —
यस्मादिति ।
मुक्तेन ब्रह्मणा कुतस्तदेवोपसृप्यमित्याशङ्क्याह —
मुक्तैरिति ।
बन्धविश्लेषं मुक्तिशब्दार्थं वक्तुं बन्धमनुवदति —
देहादिष्विति ।
अविद्याफलमाह —
तत इति ।
अनर्थसमुदायस्य सम्यग्ज्ञानादृते विच्छेदाभावं सूचयति —
सन्तत इति ।
तत्र स्वानुभवं प्रमाणयति —
सर्वेषामिति ।
बन्धमनूद्य तद्विश्लेषं मोक्षमाचक्षाणः सूत्रं योजयति —
तदिति ।
उक्तमुक्त्यनन्तरं प्राप्यं ब्रह्मेति श्रुतिरसिद्धेति शङ्कते —
कथमिति ।
मुक्तौ श्रुतिमाह —
भिद्यत इति ।
तथापि कथं द्युभ्वाद्यायतनस्य मुक्तोपसृप्यत्वं, तत्रापि श्रुतिमाह —
इत्युक्त्वेति ।
यथा नद्यो गङ्गाद्या नामरूपाभ्यां निर्मुक्ता समुद्रं प्राप्य तदात्मनावतिष्ठन्ते, तथा विद्वानपि साक्षात्कृतब्रह्मा तद्बलादेव नामरूपादविद्यातत्कार्यात्मनो विमुक्तः परादव्याकृतात्परमस्पृष्टानर्थं पुरुषं पूर्णमात्मानं दिव्यमखण्डं चिद्धातुमुपैत्यात्मत्वेनाप्नोतीत्यर्थः ।
प्रधानादीनामन्यतमस्यापि मुक्तोपसृप्यत्वसिद्धेरन्यथासिद्धिरित्याशङ्क्याह —
ब्रह्मणश्चेति ।
ज्ञानावस्था यदेत्युक्ता । मुमुक्षुरस्येत्युक्तः । हृदीत्युक्त्या कामानामात्मनिष्ठता निरस्ता । प्रतिबन्धाभावावस्थां वक्तुमथेत्युक्तम् । अत्रेति जीवदवस्थोक्तिः । ‘स यो ह वै तत्परमं ब्रह्म वेद’ इत्यादिसङ्ग्रहार्थमादिपदम् ।
परपक्षव्यावृत्तिं स्फोरयति —
प्रधानादीनां त्विति ।
क्वचिदिति श्रुतिस्मृतिलोकोक्तिः ।
वाग्विमुक्तैर्ज्ञेयत्वव्यपदेशादपि द्युभ्वाद्यायतनं ब्रह्मेति व्याख्यान्तरमाह —
अपि चेति ।
इहेत्युदाहरणोक्तिः ।
वाग्विमोकद्वारा द्युभ्वाद्यायतनस्य ज्ञेयत्वोक्तावपि कुतस्तद्ब्रह्मैव, तत्राह —
तच्चेति ।
धीरो विवेकज्ञानी, विज्ञानं पदार्थज्ञानं, प्रज्ञा वाक्यार्थधीः, ज्ञातपदार्थस्यैव हि वाक्यार्थधीः । ब्राह्मणपदमनुक्तद्विजोपलक्षणम् ।
वाक्यार्थधीहेतुत्वेन कर्मकाण्डवैमुख्यमधिकारिणा कार्यमित्याह —
नेति ।
बहूनिति विशेषणादात्मार्थोपनिषदनुचिन्तनमनुज्ञातम् ।
अनात्मार्थशब्दानामननुसन्धेयत्वे हेतुः —
वाच इति ।
अष्टावपि स्थानानि वाक्शब्देनोक्तानि । ताल्वादिशोषणमेव बहुशब्दानुचिन्तनं न फलवदित्यर्थः ।
मुक्तोपसृप्यत्वोक्तिफलमाह —
तस्मादिति ॥ २ ॥