ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
नानुमानमतच्छब्दात् ॥ ३ ॥
यथा ब्रह्मणः प्रतिपादको वैशेषिको हेतुरुक्तः, नैवमर्थान्तरस्य वैशेषिको हेतुः प्रतिपादकोऽस्तीत्याहनानुमानं साङ्ख्यस्मृतिपरिकल्पितं प्रधानम् इह द्युभ्वाद्यायतनत्वेन प्रतिपत्तव्यम्कस्मात् ? अतच्छब्दात्तस्याचेतनस्य प्रधानस्य प्रतिपादकः शब्दः तच्छब्दः, तच्छब्दः अतच्छब्दः ह्यत्राचेतनस्य प्रधानस्य प्रतिपादकः कश्चिच्छब्दोऽस्ति, येनाचेतनं प्रधानं कारणत्वेनायतनत्वेन वावगम्येततद्विपरीतस्य चेतनस्य प्रतिपादकशब्दोऽत्रास्तियः सर्वज्ञः सर्ववित्’ (मु. उ. १ । १ । ९) इत्यादिःअत एव वायुरपीह द्युभ्वाद्यायतनत्वेनाश्रीयते ॥ ३ ॥

सिद्धान्तमुक्त्वा प्रधानपक्षं निषेधति —

नेति ।

सूत्रतात्पर्यमाह —

यथेति ।

वैशेषिकत्वमसाधारणत्वम् ।

तदाक्षराणि व्याचष्टे —

नेत्यादिना ।

इहेति वाक्योक्तिः ।

प्रश्नपूर्वकं हेतुमुक्त्वा व्याचष्टे —

कस्मादित्यादिना ।

प्रकरणमत्रेत्युक्तम् ।

प्रधानसाधकशब्दाभावे फलमाह —

येनेति ।

प्रधानवाचिशब्दस्य सत्त्वेनेति यावत् । न तथा तद्वाचिशब्दोऽस्तीति शेषः ।

अतच्छब्दादित्यर्थान्तरमाह —

तदिति ।

सप्तमी पूर्ववत् ।

प्रधानस्य द्युभ्वाद्यायतनत्वाभावेऽपि सूत्रात्मनः स्यादित्याशङ्क्याह —

अत इति ।

अतच्छब्दादित्यतःशब्दार्थः ॥ ३ ॥