अस्तु तर्हि शारीरो द्युभ्वाद्यायतनं, तस्मिन्नात्मत्वादियोगात् , तत्राह —
प्राणभृच्चेति ।
तद्व्याचष्टे —
यद्यपीति ।
भोग्यस्य भोक्तृशेषत्वात्तस्यायतनत्वमुक्तमाशङ्क्याह —
न चेति ।
जीवस्यादृष्टद्वारा द्युभ्वादिनिमित्तत्वेऽपि न साक्षात्तदायतनत्वमौपाधिकत्वेनाविभुत्वादित्यर्थः ।
नन्वतच्छब्दादिति हेतुरिहापि चेदनुकृष्यते तर्हि ‘न प्राणभृदनुमाने अतच्छब्दात् ‘ इत्येकमेव सूत्रमस्तु, तत्राह —
पृथगिति ।
उत्तरसूत्रैः प्राणभृदेव निरस्यते न प्रधानं तच्चैकसूत्रकरणे दुर्ज्ञानं, तेनोत्तरसूत्रेषु जीवमात्रनिरासज्ञापनार्थं पृथक्करणं सूत्रयोरित्यर्थः ॥ ४ ॥