स्मृत्या च श्रुत्यर्थः शक्यो निर्णेतुमित्याह —
स्मर्यमाणमिति ।
तत्र प्रतिज्ञां पूरयति —
इतश्चेति ।
सूत्रं व्याकुर्वन्नितःशब्दार्धमाह —
यस्मादिति ।
स्मृतिमुदाहरति —
यस्येति ।
तस्याः श्रुतिवन्मानत्वं व्युदस्य तद्द्वारा तदाह —
तदिति ।
इतिशब्दस्य वाक्यसमाप्त्यर्थत्वं व्यावर्त्य हेत्वर्थत्वं व्यनक्ति —
यस्मादिति ।
स्तुतेरसदारोपेऽपि सम्भवान्न मूलश्रुत्यपेक्षेत्याशङ्क्याह —
यद्यपीति ।
सद्रूपेण स्तुतित्वमौत्सर्गकमसति श्रुत्यपवादे दुर्वारमित्यर्थः ।
अस्तुतिरूपामपि स्मृतिमाह —
द्यामिति ।
इहेति त्रैलोक्यदेहस्य वैश्वानरस्येश्वरतायामित्यर्थः ॥ २५ ॥