सिद्धान्तयति —
तत इति ।
हेतुं प्रश्नपूर्वकमादाय व्याचष्टे —
कुत इति ।
कौ तौ साधारणौ शब्दौ, को वा तयोर्विशेषः, तत्राह —
यद्यपीति ।
नायं परमात्मगमको विशेषः, तस्य निर्विशेषस्य द्युमूर्धत्वाद्ययोगादित्याशङ्क्याह —
अत्रेति ।
अवस्थान्तरमध्यात्ममधिदैवमित्येवम् ।
तस्य तथैवोपन्यासफलमाह —
आध्यानायेति ।
कथं परस्यावस्थान्तरभाक्त्वं, तदाह —
कारणत्वादिति ।
तदेव स्फुटयति —
कारणस्येति ।
एतेन जाठरे द्युमूर्धत्वादि प्रत्युक्तम् ।
वैश्वानरोपासकस्य सर्वलोकाद्याश्रयफलश्रुतेश्च वैश्वानरस्येश्वरत्वमित्याह —
स इति ।
वैश्वानरविदः सर्वपाप्मदाहश्रुतेश्च तस्य परत्वं तद्विज्ञाने तद्दाहप्रसिद्धेरित्याह —
एवं हेति ।
यथाग्नौ क्षिप्तमिषीकातूलं दह्यत एवमस्य विदुषः सर्वाणि कर्माण्यनर्थहेतवो दह्यन्त इत्यर्थः ।
उपक्रमादपि तस्य परमात्मता तयोस्तत्रैव रूढेर्जाठरे त्वमुख्यत्वादित्याह —
को न इति ।
उक्तलिङ्गानां फलमाह —
इत्येवमेतानीति ।
श्रुतिलिङ्गसिद्धमुपसंहरति —
तस्मादिति ॥ २४ ॥