सिद्धान्तमुक्त्वा प्रधानपक्षं निषेधति —
नेति ।
सूत्रतात्पर्यमाह —
यथेति ।
वैशेषिकत्वमसाधारणत्वम् ।
तदाक्षराणि व्याचष्टे —
नेत्यादिना ।
इहेति वाक्योक्तिः ।
प्रश्नपूर्वकं हेतुमुक्त्वा व्याचष्टे —
कस्मादित्यादिना ।
प्रकरणमत्रेत्युक्तम् ।
प्रधानसाधकशब्दाभावे फलमाह —
येनेति ।
प्रधानवाचिशब्दस्य सत्त्वेनेति यावत् । न तथा तद्वाचिशब्दोऽस्तीति शेषः ।
अतच्छब्दादित्यर्थान्तरमाह —
तदिति ।
सप्तमी पूर्ववत् ।
प्रधानस्य द्युभ्वाद्यायतनत्वाभावेऽपि सूत्रात्मनः स्यादित्याशङ्क्याह —
अत इति ।
अतच्छब्दादित्यतःशब्दार्थः ॥ ३ ॥