सूत्र मुत्तरमादाय व्याचष्टे —
प्रकरणं चेति ।
तस्य परमात्मविषयत्वे हेतुमाह —
कस्मिन्निति ।
प्राणभृति ज्ञातेऽपि तच्छेषत्वेन सर्वविज्ञानात्तद्विषयत्वं प्रकरणस्येत्याशङ्क्याह —
परमात्मनीति ॥ ६ ॥