व्याचष्टे —
द्युभ्वादीति ।
निर्देशमेव दर्शयति —
तयोरिति ।
विभक्त्यर्थमाह —
ताभ्यां चेति ।
स्थित्येश्वरस्यादनाज्जीवस्य सङ्ग्रहेऽपि कथमीश्वरस्यैव विश्वायतनत्वं, तदाह —
यदीति ।
ईश्वरस्यायतनत्वेनाप्रकृतत्वे जीवात्पृथक्कथनानुपपत्तिरित्युक्तमेव व्यतिरेकद्वाराह —
अन्यथेति ।
जीवस्याप्यायतनत्वेनाप्रकृतत्वे तुल्यानुपपत्तिरिति शङ्कते —
नन्विति ।
तस्यैक्यार्थं लोकसिद्धस्यानुवादत्वान्नैवमित्याह —
नेति ।
जीवस्यापूर्वत्वाभावेनाप्रतिपाद्यत्वमेव प्रकटयति —
क्षेत्रज्ञो हीति ।
ईश्वरस्यापि लोकवादिसिद्धत्वादप्रतिपाद्यतेत्याशङ्क्याह —
ईश्वरस्त्विति ।
तयोरित्यादौ बुद्धिजीवयोरेवोक्तत्वात्कथमिदं सूत्रं, तत्राह —
गुहामिति ।
गुहाधिकरणे नेदमुदाहरणम् , ‘ऋतं पिबन्तौ’ इत्युदाहृतत्वात् , तत्राह —
यदेति ।
तर्हीह परानुक्तेर्बुद्धिजीवयोरेवोक्तत्वात्कथं परस्याधिगतिरित्याह —
कथमिति ।
जीवस्यापि परात्मत्वेनात्रेष्टत्वादुपाध्यनादरादुपहितनिषेधेऽपि तदस्पृष्टस्य परस्यायतनत्वमित्याह —
प्राणेति ।
कथमेकस्यैवोपाधिविशिष्टत्वाविशिष्टत्वेन भेदाभेदौ, तत्राह —
यथेति ।
प्राणभृतोऽनुपहितस्यात्रेष्टस्येति शेषः ।
तस्य चेदायतनत्वं न निषिध्यते किंविषयस्तर्हि निषेधः, तत्राह —
तस्मादिति ।
पक्षान्तरायोगे सिद्धान्तमुपसंहरति —
तस्मादिति ।
इतश्चायतनवाक्यं ज्ञेयब्रह्मपरमित्याह —
तदिति ।
तेनैव सिद्धत्वे हेतुमाह —
तस्येति ।
तर्हि गतार्धमधिकरणमनर्थकमित्याशङ्क्य भूतयोनिवाक्यमध्यस्थं नैतदिति कृत्वाचिन्तयेदमधिकरणमित्याह —
प्रपञ्चार्थमिति ॥ ७ ॥