दहरस्य परत्वे हेत्वन्तरम् —
प्रसिद्धेश्चेति ।
चकारार्थमाह —
इतश्चेति ।
इतःशब्दार्थं स्फुटयति —
यदिति ।
नास्ति लौकिकी प्रसिद्धिरिति श्रौतीं प्रसिद्धिमाह —
आकाश इति ।
‘यदेष आकाश आनन्दो न स्यात् ‘ इति ग्रहीतुमादिपदम् ।
ब्रह्मण्याकाशशब्दप्रसिद्ध्युक्त्या जीवपक्षोऽपि निरस्त इत्याह —
जीवे त्विति ।
क्वचिल्लोके वेदे चेत्यर्थः ।
तर्हि लोकवेदप्रसिद्धेर्भूताकाशो गृह्यतां, नेत्याह —
भूतेति ॥ १७ ॥