सिद्धान्ते परस्य विभुत्वादङ्गुष्ठमात्रत्वमयुक्तमित्युत्तरसूत्रव्यावर्त्यमाह —
कथमिति ।
सूत्रमवतारयति —
अत्रेति ।
तदवयवं व्याचष्टे —
सर्वेति ।
तुशब्दसूचितं दृष्टान्तमाह —
आकाशस्येति ।
करः सकनिष्ठिकोऽरत्निः ।
किमिति हृद्यवस्थानादङ्गुष्ठमात्रत्वं परस्य गौणमिष्टं, तत्राह —
न हीति ।
तर्हि परिमाणमुख्यत्वाय जीव एव गृह्यतां, नेत्याह —
न चेति ।
मुख्यसम्भवे गौणमुख्ययोर्मुख्ये संप्रत्ययो मुख्यासम्भवश्चात्रोक्तस्तेन गौणं परिमाणमित्यर्थः ।
सूत्रावयवव्यावर्त्यां शङ्कामाह —
नन्विति ।
तदुत्तरत्वेन तं पातयति —
अत इति ।
स्वर्गकामादिवाक्ये स्वर्गादिकामिन एवाविशेषेणाधिकारित्वं न मनुष्यस्येत्याशङ्क्याह —
शास्त्रमिति ।
मनुष्यशब्दस्त्रैवर्णिकविषयः । तेषां शास्त्राधिकारे हेतुमाह —
शक्तत्वादिति ।
तेन तिरश्चां देवतानामृषीणां चाधिकारो वारितः । तिर्यञ्चो वेदार्थज्ञानादिसामग्र्यभावाद्व्यक्तमशक्ताः । देवानां स्वदेवत्ये कर्मण्यात्मोद्देशेन द्रव्यत्यागायोगादशक्तिः । ऋषीणामार्षेयवरणादौ तदभावात् ।
स्थावराणां मुमुक्षूणां च कर्मण्यधिकारं निवर्तयति —
अर्थित्वादिति ।
मुमुक्षोः शुद्ध्यर्थं नित्येष्वधिकारेऽपि काम्येषु तदभावः ।
शूद्राधिकारं वारयति —
अपर्युदस्तत्वादिति ।
ते हि ‘शूद्रो यज्ञेऽनवक्लृप्तः’ इति पर्युदासान्न वैदिके कर्मण्यधिकारिणः ।
तत्रैव हेत्वन्तरमाह —
उपनयनादीति ।
न हि शूद्राणामेकजातित्वस्मृतेरुपनयनं, तदभावे कुतोऽध्ययनं, तस्य तदङ्गत्वात् , अध्ययनाभावे कुतस्तदर्थेऽधिकारः ।
अत्र चापेक्षितन्यायस्य षष्ठेऽध्याये सिद्धत्वान्नेह तदर्थं यत्यत इत्याह —
इति वर्णितमिति ।
फलार्थे कर्मणि तिर्यगादेरपि सुखकामस्याधिकारः स स्वर्गकामश्रुतेरविशेषादित्याशङ्क्याङ्गश्रुत्यर्थवत्त्वाय समर्थविषयतया तिर्यगादेस्तदभावेन स्वर्गकामपदं सङ्कोच्य मनुष्याधिकारत्वे स्थिते चातुर्वर्ण्यमधिकरोति शास्त्रमिति प्रापय्य ‘वसन्ते ब्राह्मणोऽग्नीनादधीत ग्रीष्मे राजन्यः शरदि वैश्यः’ इति त्रयाणामेवाग्निसम्बन्धश्रवणात्तेषामेवाधिकार इति प्रतिष्ठापितमित्यर्थः ।
मनुष्याणामपि कथमुच्चावचावयवानां नियतपरिमाणं हृदयं, तत्राह —
मनुष्याणां चेति ।
अस्मदादिदेहस्यापि परिमाणमनियतं दृष्टं, तत्राह —
औचित्येनेति ।
देहस्य नियतपरिमाणत्वेऽपि हृदयस्य किमायातं, तदाह —
नियतेति ।
परस्मिन्परिमाणोक्तेर्योगमुपसंहरति —
अत इति ।
अङ्गुष्ठमात्रपुरुषस्य जीवत्वेऽपि वाक्यस्य परार्थतेति वक्तुमुक्तमनुवदति —
यदपीति ।
परमात्मपरे वाक्येऽनूद्यमानजीवस्थमङ्गुष्ठमात्रत्वं प्रतिपाद्यमानपरात्मधर्मविरोधाद्बाध्यं, प्रतिपाद्यस्य तात्पर्यविषयत्वादित्याह —
तदिति ।
परमात्मपरे वाक्ये तस्यैव वक्तव्यत्वे कुतो जीवोक्तिरित्याशङ्क्य वाक्यप्रवृत्तेर्वौरूप्यमाह —
द्विरूपेति ।
कथं प्रकृते वाक्यप्रवृत्तिः, तत्राह —
तदत्रेति ।
न हि परैक्यं जीवस्योक्तिं विना शक्यं वक्तुमिति तदुक्तिरित्यर्थः ।
प्रत्यक्षादिविरोधे किमुत्तरं, तत्राह —
एतमिति ।
विरुद्धांशत्यागेनाविरुद्धांशलक्षणयैक्ये वाक्यार्थे न विरोधधीरित्यर्थः । यतोऽन्तरात्मा पुरुषत्वात्पूर्णोऽपि जनानां हृदये सदा सन्निविष्टस्ततोऽङ्गुष्ठमात्र इति त्वमर्थानुवादः ।
तस्यान्वयव्यतिरेकाभ्यां तदनुसारिश्रुत्या च शोध्यत्वमाह —
तमिति ।
शरीरं स्थूलं सूक्षमं च । प्रवृहेत्पृथक्कुर्यात् । धैर्येण शमादिनेति यावत् ।
तं च विविक्तमात्मानं विशुद्धममृतं ब्रह्मैव जानीयादित्याह —
तमिति ।
तदेवं काठकवाक्यं प्रत्यग्ब्रह्मणि ज्ञातव्ये समन्वितमिति ॥ २५ ॥