ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
शब्दादेव प्रमितः ॥ २४ ॥
परमात्मैवायमङ्गुष्ठमात्रपरिमितः पुरुषो भवितुमर्हतिकस्मात् ? शब्दात् — ‘ईशानो भूतभव्यस्यइति ह्यन्यः परमेश्वराद्भूतभव्यस्य निरङ्कुशमीशिता । ‘एतद्वै तत्इति प्रकृतं पृष्टमिहानुसन्दधातिएतद्वै तत् , यत्पृष्टं ब्रह्मेत्यर्थःपृष्टं चेह ब्रह्मअन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’ (क. उ. १ । २ । १४) इतिशब्दादेवेतिअभिधानश्रुतेरेवईशान इति परमेश्वरोऽयं गम्यत इत्यर्थः ॥ २४ ॥

जीवे लिङ्गसिद्धे नियमासिद्धिरित्याह —

कस्मादिति ।

श्रुतिलिङ्गयोः श्रुतिर्बलीयसीति मत्वा हेतुमाह —

शब्दादिति ।

जीवेऽपि कतिपयेशितृत्वादविरुद्धा श्रुतिरित्युक्तं, तन्न, भूतभव्यस्येत्यविशेषश्रुतेरित्याह —

नहीति ।

प्रकरणमपीश्वरविषयमित्याह —

एतदिति ।

उक्तमर्थं वाक्ययोजनया स्पष्टयति —

एतद्वा इति ।

जीवस्यैव पृष्टत्वेन प्रकृतत्वमाशङ्क्योक्तम् —

पृष्टं चेति ।

उपहिते तु जीवे कालत्रयापरिच्छेद्यत्वं कार्यकारणास्पृष्टत्वं च दुर्योजमिति भावः ।

सूत्रे शब्दादिति वाक्योक्तेस्तस्य लिङ्गाद्दुर्बलत्वाद्बलवतो लिङ्गाज्जीवोक्तिः स्यादित्याशङ्क्याह —

शब्दादिति ।

श्रुतिलिङ्गविरोधे श्रुतिरेव बाधिका न लिङ्गमिति मर्यादां वक्तुं सूत्रभाष्ययोरेवकारः ॥ २४ ॥