ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
शब्दादेव प्रमितः ॥ २४ ॥
अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठतिइति श्रूयते; तथा अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकःईशानो भूतभव्यस्य वाद्य श्वःएतद्वै तत्’ (क. उ. २ । १ । १३) इति तत्र योऽयमङ्गुष्ठमात्रः पुरुषः श्रूयते, किं विज्ञानात्मा, किं वा परमात्मेति संशयःतत्र परिमाणोपदेशात्तावद्विज्ञानात्मेति प्राप्तम् ह्यनन्तायामविस्तारस्य परमात्मनोऽङ्गुष्ठपरिमाणमुपपद्यतेविज्ञानात्मनस्तूपाधिमत्त्वात्सम्भवति कयाचित्कल्पनयाङ्गुष्ठमात्रत्वम्स्मृतेश्चअथ सत्यवतः कायात्पाशबद्धं वशं गतम्अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्’ (म. भा. ३ । २९७ । १७) इति हि परमेश्वरो बलात् यमेन निष्क्रष्टुं शक्यःतेन तत्र संसारी अङ्गुष्ठमात्रो निश्चितः एवेहापीत्येवं प्राप्ते ब्रूमः

परस्य ज्योतिष्ट्वोक्ते ज्योतिरिवेत्युपमीयमानपुरुषस्य ततोऽर्थान्तरत्वमाशङ्क्योक्तम् —

शब्दादिति ।

काठकवाक्यं पठति —

अङ्गुष्ठेति ।

स्वाभाविकं परिच्छेदं वारयति —

पुरुष इति ।

पूर्णत्वात्सर्वत्रोपलब्धेर्नाङ्गुष्ठमात्रतेत्याशङ्क्य विशेषव्यक्तिस्थानद्वारा तद्योगमाह —

मध्य इति ।

आत्मनि देहे मध्ये हृदयसद्मनीत्यर्थः ।

तस्यैव परात्मत्ववादिवाक्यान्तरमाह —

तथेति ।

अधूमकं ज्योतिरकलुषितमेकरूपं प्रकाशमात्रं यथा दृष्टं तथायमपि कूटस्थप्रकाशधातुरित्याह —

ज्योतिरिति ।

ज्योतिःपरत्वादधूमकमिति लिङ्गव्यत्ययः ।

शोधितत्वमर्थस्य तदर्थतामाह —

ईशान इति ।

भूतभव्यग्रहणं भवतोऽपि प्रदर्शनार्थम् । कालत्रयपरिच्छेद्यस्य नियन्तेति यावत् ।

अद्वितीयत्वमाह —

स एवेति ।

वर्तमाने काले स एवास्ति, श्वो भविष्यत्यपि काले स एव भविता, अतीतेऽपि काले स एवासीत् ।

यन्नचिकेतसा पृष्टम् ‘अन्यत्र धर्मात् ‘ इत्यादिना, तदेतदेवेत्याह —

एतदिति ।

विषयमनूद्य परिमाणोक्तेरीशानशब्दाच्च संशयमाह —

तत्रेति ।

पूर्वत्रानुभानादिना विषयसप्तम्या णिजध्याहारेण सूर्यादेरगोचरो ब्रह्मेत्युक्तं, तथेहापि परिमाणलिङ्गाज्जीवमादायेशानोऽस्मीति चेतो धारयेदिति विध्यध्याहारेणोपास्तिपरं वाक्यमिति पूर्वपक्षयित —

तत्रेति ।

पठितकाठकश्रुतेर्निर्विशेषेप्रत्यग्ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे जीवस्योपास्तिः, सिद्धान्ते तस्यैव परात्मतया धीरिति फलभेदः ।

परस्योपासनायै क्वचित्परिमाणोक्तावपि वस्तुपरत्वेन त्वदिष्टे वाक्ये तदयोगाज्जीवग्रहोऽत्रेति मत्वोक्तम् —

परिमाणेति ।

श्रुतेरेव लिङ्गाद्बलीयस्त्वादीशानश्रुत्या परमात्मावगतौ कुतो जीवशङ्केत्याशङ्क्य परमात्मनि परिमाणोक्तेरत्यन्तबाधाज्जीवे कतिपयेशितृत्वादीशानत्वसिद्धेर्गौणी श्रुतिरित्याशयेनाह —

नहीति ।

जीवस्यापि विभुत्वादुक्तपरिमाणासिद्धिरित्याशङ्क्याह —

विज्ञानेति ।

कयाचिदिति हृदयकमलकोशस्य जीवोपलब्धिस्थानस्याङ्गुष्ठमात्रतयेत्यर्थः ।

किञ्च यथा सति विषये च साधारणी सप्तमी ‘न तद्भासयते’ इति स्मृत्या विषये व्यवस्थापिता, तथा परिमाणमपि जैवमैश्वरं वेति संशये सति ‘अङ्गुष्ठमात्रं निश्चकर्ष’ इति स्मृत्या निश्चयसिद्धिरित्याह —

स्मृतेश्चेति ।

मरणानन्तर्यमथशब्दार्थः ।

तत्रापि वरमात्मैव प्रतिपाद्योऽस्तु, नेत्याह —

नहीति ।

‘प्रभवति संयमने ममापि विष्णुः’ इति यमस्य तदधीनत्वस्मृतेरित्यर्थः ।

स्मृतेः संसारिविषयत्वं निगमयति —

तेनेति ।

निश्चितार्थस्मृत्या सन्दिग्धार्थश्रुतेरपि जीवार्थतैवेत्याह —

स इति ।

वाक्यस्य जीवगामित्वे स्थिते तस्येशानोऽस्मीति ध्यानं फलतीत्युपसंहर्तुमितिशब्दः ।

पूर्वपक्षमनूद्य सिद्धान्तमवतार्य प्रतिज्ञां व्याकरोति —

एवमिति ।