तत्रादौ सिद्धान्तमेव दर्शयन्मनुष्याधिकारत्वं शास्त्रस्यायोगव्यवच्छेदादन्ययोगव्यवच्छेदाद्वेति विकल्प्याद्यमङ्गीकरोति —
बाढमिति ।
द्वितीयं दूषयति —
नत्विति ।
नियमाभावं सूत्राक्षरव्याख्यया विशदयति —
तेषामिति ।
ब्रह्मविद्यातदङ्गविधयो देवादीन्नाधिकुर्वन्ति, वैदिकविधित्वात् , अग्निहोत्रादिविधिवदिति शङ्कते —
कस्मादिति ।
अनुमानमग्रे दूष्यम् ।
आदौ हेतुमुत्थाप्य व्याचष्टे —
सम्भवादिति ।
ननु देवतादीनां विविधभोगभाजामवैराग्यान्न मोक्षेऽर्थित्वं, तत्राह —
तत्रेति ।
वैषयिकसुखस्यानित्यत्वपारतन्त्र्यादिदोषदृष्ट्या तत्र वैराग्यसिद्धौ परमपुरुषार्थतया मोक्षेऽर्थित्वं, महाधियां तेषामुदेष्यतीत्यर्थः ।
चतुर्थ्यन्तशब्दातिरिक्तदेवताभावात्तस्याश्च विग्रहायोगान्न ज्ञानहेत्वनुष्ठानशक्तिरित्याशङ्क्याह —
तथेति ।
तयोः सतोरपि शूद्रवदनधिकारं शङ्कित्वोक्तम् —
न चेति ।
त्रैवर्णिकानामेवोपनयनाद्देवादीनां तदभावे वैदिकशक्त्यभावान्नाधिकार इत्याशङ्क्याह —
न चेति ।
तर्हि तदभावादङ्गिनोऽध्ययनस्याभावे कुतो वेदार्थेऽधिकारः, तत्राह —
तेषां चेति ।
जन्ममरणव्यवधानेऽपि भूतप्रेतादिषु स्मृतिदर्शनान्न तदस्मृतिरिति भावः ।
तथापि पूर्वोक्तानुमाने जाग्रति कुतो देवादयो ब्रह्मविद्यायामधिक्रियेरन्नित्याशङ्क्य कालातीतत्वमाह —
अपि चेति ।
ब्रह्मचर्यादीत्यादिपदेनोपगमनशुश्रूषादि गृह्यते । द्वितीयमादिपदं सनत्कुमारनारदसंवादादिसङ्ग्रहार्थम् ।
न केवलं लिङ्गविरोधादेव कालातीतत्वं कितुं ‘तद्यो यो देवानाम् ‘ इत्यादिवाक्यविरोधादपीति मत्वाह —
यदपीति ।
देवानां कर्मसु नाधिकारः, देवतान्तराणामुद्देश्यानामभावात्तदनुष्ठानाशक्तेरिति सूत्रार्थः । ऋषीणामपि भृग्वादीनामार्षेयकर्मणि नाधिकारः, भृग्वाद्यन्तराभावात्तद्युक्ते कर्मण्यशक्तेरिति सूत्रान्तरार्थः ।
अधिकारहेत्वसत्त्वं ज्ञानेऽपि तुल्यं तेषामिति कुतो वाक्यार्थधीरित्येतद्दूषयति —
न तदिति ।
तदेव स्पष्टयति —
नहीति ।
साधकबाधकसत्त्वासत्त्वफलमाह —
तस्मादिति ।
ननु देवादीनामधिकारे कथमङ्गुष्ठमात्रश्रुतिः, न हि तेषां महादेहानां हृदयमङ्गुष्ठमात्रं, तत्राह —
देवादीति ।
साधारणी खल्वङ्गुष्ठमात्रश्रुतिस्तत्र तत्र तत्तदङ्गुष्ठपरिमितहृदयापेक्षया निर्वक्ष्यतीत्यर्थः ॥ २६ ॥