मन्त्रादिप्रामाण्येन विग्रहादिमत्त्वं गृहीत्वा देवतादीनामधिकारो निरूपितः । सम्प्रति देवताविग्रहादिमन्त्रादीनामन्यपराणामविरोधे प्रामाण्यात्प्रत्यक्षादिविरोधमाशङ्क्य परिहर्तुं सूत्रचतुष्टये स्थिते प्रथमं कर्मणि विरोधमाशङ्क्य परिहरति —
विरोध इति ।
मानान्तरविरुद्धेऽर्थे मन्त्रादीनामन्यपराणामप्रामाण्याद्विग्रहवद्देवतादिविषयाणां तेषामुपचरितार्थतया शब्दोपहितोऽर्थस्तदुपहितो वा शब्दो देवादिरित्यचेतनत्वात्तस्य नाधिकारसिद्धिरित्यभिसन्धाय शङ्कां विभजते —
स्यादेतदिति ।
अभ्युपगम्यतामिन्द्रादीनामध्वर्युप्रभृतिवदध्वरे स्वरूपसन्निधानेनाङ्गत्वं, तत्राह —
तदा चेति ।
कथं विरोधप्रसक्तिः, तत्राह —
नहीति ।
दर्शनाभावमुक्त्वा युक्त्यभावमाह —
न चेति ।
इन्द्रादीनां स्वरूपसन्निधिद्वारा यागाङ्गत्वायोगे हेतुमाह —
बहुष्विति ।
उद्दिश्य त्यागत्वाद्यागस्य न विरोधोऽस्तीत्याह —
नायमिति ।
विरोधमङ्गीकृत्यापि परिहर्तुं प्रश्नपूर्वकं हेतुमादाय व्याख्याति —
कस्मादिति ।
एकस्य युगपदनेकत्वापत्तिर्विरुद्धेत्याह —
कथमिति ।
प्रामाणिकत्वेन विरोधं समाधत्ते —
दर्शनादिति ।
तत्र श्रौतं दर्शनमाह —
तथाहीति ।
वैश्वदेवस्य निविदि कति देवाः शस्यमाना इति शाकल्येन पृष्टे याज्ञवल्क्यस्योत्तरम् —
त्रयश्चेति ।
शस्यमानदेवतासङ्ख्यावाचिमन्त्रपदं निविदुच्यते ।
षडधिकत्रिशताधिकत्रिसहस्रं देवा इति सङ्ख्यानिर्णयानन्तरं सङ्ख्येयप्रश्ने वसवोऽष्टावेकादश रुद्रा द्वादशादित्याः प्रजापतिरिन्द्रश्चेति त्रयस्त्रिंशद्देवेषु पूर्वेषामन्तर्भावो दर्शित इत्याह —
कतम इति ।
अन्तर्भावश्रुतेस्तात्पर्यमाह —
एकैकस्येति ।
तेऽपि देवाः षण्णामग्निपृथिवीवाय्वन्तरिक्षादित्यदिवां महिमानः, तेऽपि त्रयाणां लोकानां, ते च द्वयोरन्नप्राणयोः, तौ चैकस्य प्राणस्येति प्राणस्य सर्वे महिमान इत्येकस्यानेकरूपताधीरित्याह —
तथेति ।
त्रयस्त्रिंशतोऽपि देवानामिति सम्बन्धः ।
श्रौतं दर्शनमुक्त्वा स्मार्तं दर्शनमाह —
तथेति ।
बलं योगमाहात्म्यम् ।
तेषामर्थक्रियामाह —
तैश्चेति ।
तेषां भोगायतनत्वमाह —
प्राप्नुयादिति ।
परलोकहितत्वमाह —
कैश्चिदिति ।
तत्पारवश्यं पुंसो निरस्यति —
सङ्क्षिपेच्चेति ।
योगिनामनेकरूपप्रतिपत्तावपि देवानां किं जातं, तदाह —
प्राप्तेति ।
‘अणिमा लघिमा चैव महिमा प्राप्तिरीशिता । प्राकाम्यं च वशित्वं च यत्रकामावसायिता ॥ ‘ इत्यष्टैश्वर्याणि ।
अपिशब्दसूचितमर्थमाह —
किम्विति ।
आजानसिद्धानां जन्मनैव प्राप्तातिशयानामित्यर्थः ।
तथापि प्रकृते किं जातं तदाह —
अनेकेति ।
श्रुतिस्मृतिभ्यां युक्तिविरोधे समाहितेऽपि प्रतीतिविरोधस्य कः समाधिः, तत्राह —
परैश्चेति ।
आदिशब्देन परदृष्टिप्रतिबन्धो गृह्यते । उक्तन्यायाद्युज्यते देवादीनां विग्रहवत्त्वोपगमेन विद्यास्वधिकार इति शेषः ।
सन्निहितस्यैवाङ्गतेति न नियमोऽसन्निहितस्यापि युगपदनेकत्र कर्मण्यङ्गभावप्रतिपत्तिरङ्गभावगमनं तस्य दर्शनादित्यर्थान्तरमाह —
अनेकेति ।
तदेव स्पष्टयितुं व्यतिरेकं सोदाहरणमाह —
क्वचिदिति ।
संप्रत्यभीष्टाङ्गत्वार्थमन्वयं सदृष्टान्तमाचष्टे —
क्वचिच्चेति ।
अन्वयव्यतिरेकसिद्धमर्थं प्रकृते योजयति —
तद्वदिति ।
असन्निधानेऽपि देवताया विप्रकृष्टानेकार्थदृष्टिशक्तेर्युगपदनेकत्राङ्गता सिद्धेत्यर्थः ।
कर्मण्यविरोधमुपसंहरति —
इति विग्रहेति ॥ २७ ॥