ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॥ २८ ॥
मा नाम विग्रहवत्त्वे देवादीनामभ्युपगम्यमाने कर्मणि कश्चिद्विरोधः प्रसञ्जिशब्दे तु विरोधः प्रसज्येतकथम् ? औत्पत्तिकं हि शब्दस्यार्थेन सम्बन्धमाश्रित्यअनपेक्षत्वात्इति वेदस्य प्रामाण्यं स्थापितम्इदानीं तु विग्रहवती देवताभ्युपगम्यमाना यद्यप्यैश्वर्ययोगाद्युगपदनेककर्मसम्बन्धीनि हवींषि भुञ्जीत, तथापि विग्रहयोगादस्मदादिवज्जननमरणवती सेति, नित्यस्य शब्दस्य नित्येनार्थेन नित्ये सम्बन्धे प्रतीयमाने यद्वैदिके शब्दे प्रामाण्यं स्थितम् , तस्य विरोधः स्यादिति चेत् , नायमप्यस्ति विरोधःकस्मात् ? अतः प्रभवात्अत एव हि वैदिकाच्छब्दाद्देवादिकं जगत्प्रभवति

तत्राविरोधेऽपि देवतादीनां विग्रहवत्त्वे शब्दे प्रामाण्यविरोधमाशङ्क्य प्रत्याह —

शब्द इति चेदिति ।

शङ्कां विभजते —

मा नामेति ।

शब्दस्याकृत्यर्थत्वात्तत्र विरोधो नेति शङ्कते —

कथमिति ।

गोत्वादिवद्वस्वादिषु पूर्वापरापरामर्शादुपाधेरपि पाचकत्वादिवददृष्टेराकाशादिशब्दवद्व्यक्तिवचनो वस्वादिशब्द इति मत्वाह —

औत्पत्तिकं हीति ।

अस्माभिरपि तथैव तदिष्टमिति न तस्य विरोधोऽस्तीत्याशङ्क्याह —

इदानीं त्विति ।

व्यक्तीनामनित्यत्वात्तत्सम्बन्धस्यापि सङ्केतवदनित्यतया पुन्धीकृतत्वान्मानान्तरापेक्षपुन्धीप्रभवशब्दार्थसम्बन्धाधीनवाक्यार्थधियोऽपि मानान्तरापेक्षत्वाद्वेदस्यामानत्वं स्यादित्यर्थः ।

परिहारस्थं नञर्थमाह —

नायमिति ।

कर्मण्यविरोधं दृष्टान्तयितुमपिशब्दः ।

तत्र प्रश्नपूर्वकं हेतुमुक्त्वा व्याचष्टे —

कस्मादिति ।

तथा च देवादिजगद्धेतुत्वेन शब्दस्य नित्यत्वात्तदनित्यत्वकृतो दोषो नास्तीति शेषः ।