ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॥ २८ ॥
ननु जन्माद्यस्य यतः’ (ब्र. सू. १ । १ । २) इत्यत्र ब्रह्मप्रभवत्वं जगतोऽवधारितम् , कथमिह शब्दप्रभवत्वमुच्यते ? अपि यदि नाम वैदिकाच्छब्दादस्य प्रभवोऽभ्युपगतः, कथमेतावता विरोधः शब्दे परिहृतः ? यावता वसवो रुद्रा आदित्या विश्वेदेवा मरुत इत्येतेऽर्था अनित्या एव, उत्पत्तिमत्त्वात्तदनित्यत्वे तद्वाचिनां वैदिकानां वस्वादिशब्दानामनित्यत्वं केन निवार्यते ? प्रसिद्धं हि लोके देवदत्तस्य पुत्र उत्पन्ने यज्ञदत्त इति तस्य नाम क्रियत इतितस्माद्विरोध एव शब्द इति चेत् , गवादिशब्दार्थसम्बन्धनित्यत्वदर्शनात् हि गवादिव्यक्तीनामुत्पत्तिमत्त्वे तदाकृतीनामप्युत्पत्तिमत्त्वं स्यात्द्रव्यगुणकर्मणां हि व्यक्तय एवोत्पद्यन्ते, नाकृतयःआकृतिभिश्च शब्दानां सम्बन्धः, व्यक्तिभिःव्यक्तीनामानन्त्यात्सम्बन्धग्रहणानुपपत्तेःव्यक्तिषूत्पद्यमानास्वप्याकृतीनां नित्यत्वात् गवादिशब्देषु कश्चिद्विरोधो दृश्यतेतथा देवादिव्यक्तिप्रभवाभ्युपगमेऽप्याकृतिनित्यत्वात् कश्चिद्वस्वादिशब्देषु विरोध इति द्रष्टव्यम्आकृतिविशेषस्तु देवादीनां मन्त्रार्थवादादिभ्यो विग्रहवत्त्वाद्यवगमादवगन्तव्यःस्थानविशेषसम्बन्धनिमित्ताश्च इन्द्रादिशब्दाः सेनापत्यादिशब्दवत्ततश्च यो यस्तत्तत्स्थानमधिरोहति, इन्द्रादिशब्दैरभिधीयत इति दोषो भवति चेदं शब्दप्रभवत्वं ब्रह्मप्रभवत्ववदुपादानकारणत्वाभिप्रायेणोच्यतेकथं तर्हि ? स्थिते वाचकात्मना नित्ये शब्दे नित्यार्थसम्बन्धिनि शब्दव्यवहारयोग्यार्थव्यक्तिनिष्पत्तिःअतः प्रभवःइत्युच्यतेकथं पुनरवगम्यते शब्दात्प्रभवति जगदिति ? प्रत्यक्षानुमानाभ्याम्; प्रत्यक्षं श्रुतिः, प्रामाण्यं प्रत्यनपेक्षत्वात्अनुमानं स्मृतिः, प्रामाण्यं प्रति सापेक्षत्वात्ते हि शब्दपूर्वां सृष्टिं दर्शयतः । ‘एत इति वै प्रजापतिर्देवानसृजतासृग्रमिति मनुष्यानिन्दव इति पितॄंस्तिरःपवित्रमिति ग्रहानाशव इति स्तोत्रं विश्वानीति शस्त्रमभिसौभगेत्यन्याः प्रजाःइति श्रुतिःतथान्यत्रापि मनसा वाचं मिथुनं समभवत्’ (बृ. उ. १ । २ । ४) इत्यादिना तत्र तत्र शब्दपूर्विका सृष्टिः श्राव्यते; स्मृतिरपिअनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा ।’(म॰भा॰ १२-२३२-२४),आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः’(कू॰पु॰ २-२७) इति; उत्सर्गोऽप्ययं वाचः सम्प्रदायप्रवर्तनात्मको द्रष्टव्यः, अनादिनिधनाया अन्यादृशस्योत्सर्गस्यासम्भवात्; तथा नाम रूपं भूतानां कर्मणां प्रवर्तनम् ।’, ‘वेदशब्देभ्य एवादौ निर्ममे महेश्वरः’(म॰भा॰ १२-२३२-२६), (वि॰पु॰ १-५-६३) इति; सर्वेषां तु नामानि कर्माणि पृथक् पृथक्वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे’(म॰स्मृ॰ १-२१) इति अपि चिकीर्षितमर्थमनुतिष्ठन् तस्य वाचकं शब्दं पूर्वं स्मृत्वा पश्चात्तमर्थमनुतिष्ठतीति सर्वेषां नः प्रत्यक्षमेतत्तथा प्रजापतेरपि स्रष्टुः सृष्टेः पूर्वं वैदिकाः शब्दा मनसि प्रादुर्बभूवुः, पश्चात्तदनुगतानर्थान्ससर्जेति गम्यतेतथा श्रुतिः भूरिति व्याहरत् भूमिमसृजत’ (तै. ब्रा. २ । २ । ४ । २) इत्येवमादिका भूरादिशब्देभ्य एव मनसि प्रादुर्भूतेभ्यो भूरादिलोकान्सृष्टान्दर्शयति

पूर्वापरविरोधं शङ्कते —

नन्विति ।

शब्दस्य निमित्तत्वाद्ब्रह्मणश्चोपादानत्वादुभयप्रभवत्वं जगतो युक्तमित्याशङ्क्याह —

अपि चेति ।

आकृतेः शब्दार्थतया विरोधसमाधिरित्यशङ्क्याह —

यावतेति ।

मानाभावान्न वसुत्वादिजातिरस्ति तद्व्यक्तीनां जनिमत्त्वादनित्यतेति नाविरोध इत्यर्थः ।

व्यक्तीनामनित्यत्वेऽपि वाचकशब्दनित्यतया सुकरो विरोधसमाधिरित्याशङ्क्याह —

तदिति ।

जगतः शब्दप्रभवत्वमुपेत्य विरोधमुक्त्वा शब्दस्यार्थोत्पत्त्युत्तरकालत्वादर्थस्य ततो जन्मायोगात्तदेव नास्तीत्याह —

प्रसिद्धं हीति ।

विरोधं निगमयति —

तस्मादिति ।

वस्वादिशब्दार्थसम्बन्धनित्यत्वं दृष्टान्तेन वदन्नुत्तरमाह —

नेति ।

तत्रापि व्यक्तेरनित्यत्वान्न सम्बन्धनित्यतेत्याशङ्क्याह —

न हीति ।

व्यक्तिभिरभेदाज्जातिरपि जातेत्याशङ्क्योक्तम् —

द्रव्येति ।

अभेदवद्भेदस्यापि भावान्नित्यमनेकसमवेतं सामान्यमिति च स्थितेरिति हिशब्दार्थः ।

आकृतीनामुत्पत्त्यभावेऽपि कुतः सम्बन्धनित्यता, तत्राह —

आकृतिभिश्चेति ।

तास्त्वाकृतिद्वारा लक्षणया शाब्द्यो भवन्तीति भावः ।

दृष्टान्तमुपसंहरति —

व्यक्तिष्विति ।

गवादिशब्दार्थसम्बन्धनित्यत्वेऽपि प्रकृते किमित्याशङ्क्य दार्ष्टान्तिकमाह —

तथेति ।

उक्तो देवादिष्वाकृत्यभावः साधकाभावादित्याशङ्क्याह —

आकृतीति ।

अनेकत्र साकल्येन वर्तमाना जातिरित्यङ्गीकारादिन्द्रादीनां मन्त्रादिसिद्धविग्रहादिपञ्चकवतां पूर्वापरव्यक्त्यनुगता जातिरनुगतधीवेद्या न विरुध्यते । वस्वादिशब्दा जातिवाचिनो बहुषु प्रयुज्यमानाखण्डशब्दत्वात्पटादिशब्दवदिति चानुमानादित्यर्थः ।

इन्द्रादिशब्दानामुपाधिनिमित्तत्वं पक्षान्तरमाह —

स्थानेति ।

औपाधिकत्वपक्षे शब्दार्थमनूद्यावान्तरलयेऽपि विरोधाभावमाह —

ततश्चेति ।

यत्तु पूर्वापरविरोध इति, तत्राह —

न चेति ।

तर्हि कथं ‘अतः प्रभवात्’ इत्युक्तं, तत्राह —

कथमिति ।

उक्तेऽर्थे मानं पृष्ट्वोत्तरपदमवतारयति —

कथमित्यादिना ।

नन्वैन्द्रियकं प्रत्यक्षं जगतः शाब्दप्रभवत्वे नास्ति, तत्राह —

प्रत्यक्षमिति ।

तत्रापि श्रुतौ प्रत्यक्षशब्दे हेतुमाह —

प्रामाण्यमिति ।

तथापि तत्रानुमानं कथं प्रमाणं, तत्राह —

अनुमानमिति ।

तत्रापि प्रवृत्तिनिमित्तमाह —

प्रामाण्यमिति ।

अव्यभिचारिलिङ्गोत्थत्वादनुमानस्य स्वतःप्रामाण्येऽप्युत्पत्तौ सापेक्षत्वमात्रसाम्यादनुमानशब्दः स्मृताविति भावः ।

पञ्चम्याभीष्टमर्थमाह —

ते हीति ।

तत्र श्रुतिमाह —

एत इति ।

‘एते असृग्रमिन्दवस्तिरः पवित्रमाशवः । विश्वान्यभिसौभगा’ इत्येतन्मन्त्रस्थपदैः स्मृत्वा देवादीन्ब्रह्मा ससर्ज । तत्र सन्निहितवाचकैतच्छब्दो देवानां करणेष्वनुग्राहकत्वेन सन्निहितानां स्मारकः । असृग्रुधिरं तत्प्रधानदेहरमणान्मनुष्याणामसृग्रशब्दः स्मारकः । इन्दुमण्डलमध्यस्थपितृणामिन्दुशब्दः स्मारकः । पवित्रं सोमं स्वान्तस्तिरःकुर्वतां ग्रहाणां तिरःपवित्रशब्दः स्मारकः । ऋचोऽश्नुवतां स्तोत्राणां गीतिरूपाणामाशवः शब्दः स्मारकः । स्तोत्रानन्तरं प्रयोगं विशतां शस्त्राणां विश्वशब्दः स्मारकः । व्यापिवस्तुवाच्यभिशब्दसंयुक्तः सौभगेति शब्दः सौभाग्यवाचकः, तेनाभिसौभगेति निरतिशयसौभाग्यार्थः शब्दोऽन्यासां प्रजानां स्मारकः । तथा च तत्तत्पदेन तत्तद्देवादीन्स्मृत्वा प्रजापतिः सृष्टवानिति शब्दपूर्विका सृष्टिः श्रौतीत्यर्थः ।

तत्रैव श्रुत्यन्तरमाह —

तथेति ।

स प्रजापतिर्मनसा सह वाचं मिथुनभावमभवदभावयत् । त्रयीप्रकाशितां सृष्टिं मनसालोचितवानित्यर्थः । ‘स भूरिति व्याहरत्स भूमिमसृजत’ इत्यादिवाक्यमादिशब्दार्थः । तत्र तत्रेत्याम्नायप्रदेशोक्तिः ।

तत्र स्मृतिमाह —

स्मृतीति ।

रूपसर्गात्प्राथम्यमादावित्युक्तम् । सम्प्रदायातिरेकेणाप्राप्तिर्दिव्यत्वम् ।

अस्त्वेवं शब्दसृष्टिस्तथापि कथं तत्पूर्वार्थसृष्टिः, तत्राह —

यत इति ।

उत्सृष्टत्वोक्त्या पौरुषेयत्वमाशङ्क्योक्तम् —

उत्सर्गोऽपीति ।

सम्प्रदायो गुरुशिष्यपरम्पराध्ययनम् ।

उत्सृष्टिरेव किं न स्यात् , तत्राह —

अनादीति ।

कर्मणां प्रवर्तनं सतामनुष्ठापनमुक्तम् । सर्वेषामित्यत्र कर्मणां सृष्टिरेवोक्तेति भेदः । संस्थाशब्दो रूपभेदग्राही ।

अस्मदादिषु पटाद्युत्पत्तेः शब्दपूर्वकत्वप्रात्यक्ष्याज्जगतोऽपि सृष्टेस्तत्पूर्वकत्वमनुमेयमिति प्रत्यक्षानुमानाभ्यामित्यत्रार्थान्तरमाह —

अपि चेति ।

कल्पकालीना सृष्टिः शब्दपूर्विका, सृष्टित्वात् , इदानीन्तनसृष्टिवत् । विमतः शब्दार्थसम्बन्धव्यवहारः तथाविधसम्बन्धानुस्मृतिपूर्वकः, अभिधानाभिधेयसम्बन्धव्यवहारत्वात् , सम्प्रतिपन्नवदित्याह —

तथेति ।

प्रत्यक्षादिसिद्धेऽर्थे तैत्तिरीयश्रुतिमाह —

तथा चेति ।

‘स भुव इति व्याहरत्सोऽन्तरिक्षमसृजत’ इत्यादिरादिशब्दार्थः ।

उक्तश्रुतेस्तात्पर्यमाह —

भूरादीति ।