ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॥ २८ ॥
वर्णा एव तु शब्दःइति भगवानुपवर्षःननूत्पन्नप्रध्वंसित्वं वर्णानामुक्तम्; तन्न एवेति प्रत्यभिज्ञानात्सादृश्यात्प्रत्यभिज्ञानं केशादिष्विवेति चेत् , प्रत्यभिज्ञानस्य प्रमाणान्तरेण बाधानुपपत्तेःप्रत्यभिज्ञानमाकृतिनिमित्तमिति चेत् , व्यक्तिप्रत्यभिज्ञानात्यदि हि प्रत्युच्चारणं गवादिव्यक्तिवदन्या अन्या वर्णव्यक्तयः प्रतीयेरन् , तत आकृतिनिमित्तं प्रत्यभिज्ञानं स्यात् त्वेतदस्तिवर्णव्यक्तय एव हि प्रत्युच्चारणं प्रत्यभिज्ञायन्तेद्विर्गोशब्द उच्चारितःइति हि प्रतिपत्तिः; तु द्वौ गोशब्दावितिननु वर्णा अप्युच्चारणभेदेन भिन्नाः प्रतीयन्ते, देवदत्तयज्ञदत्तयोरध्ययनध्वनिश्रवणादेव भेदप्रतीतेरित्युक्तम्त्राभिधीयतेसति वर्णविषये निश्चिते प्रत्यभिज्ञाने, संयोगविभागाभिव्यङ्ग्यत्वाद्वर्णानाम् , अभिव्यञ्जकवैचित्र्यनिमित्तोऽयं वर्णविषयो विचित्रः प्रत्ययः, स्वरूपनिमित्तःअपि वर्णव्यक्तिभेदवादिनापि प्रत्यभिज्ञानसिद्धये वर्णाकृतयः कल्पयितव्याःतासु परोपाधिको भेदप्रत्यय इत्यभ्युपगन्तव्यम्तद्वरं वर्णव्यक्तिष्वेव परोपाधिको भेदप्रत्ययः, स्वरूपनिमित्तं प्रत्यभिज्ञानम्इति कल्पनालाघवम्एष एव वर्णविषयस्य भेदप्रत्ययस्य बाधकः प्रत्ययः, यत्प्रत्यभिज्ञानम्कथं ह्येकस्मिन्काले बहूनामुच्चारयतामेक एव सन् गकारो युगपदनेकरूपः स्यात्उदात्तश्चानुदात्तश्च स्वरितश्च सानुनासिकश्च निरनुनासिकश्चेतिअथवा ध्वनिकृतोऽयं प्रत्ययभेदो वर्णकृत इत्यदोषःकः पुनरयं ध्वनिर्नाम ? यो दूरादाकर्णयतो वर्णविवेकमप्रतिपद्यमानस्य कर्णपथमवतरति; प्रत्यासीदतश्च पटुमृदुत्वादिभेदं वर्णेष्वासञ्जयतिन्निबन्धनाश्चोदात्तादयो विशेषाः, वर्णस्वरूपनिबन्धनाः, वर्णानां प्रत्युच्चारणं प्रत्यभिज्ञायमानत्वात्एवं सति सालम्बना उदात्तादिप्रत्यया भविष्यन्तिइतरथा हि वर्णानां प्रत्यभिज्ञायमानानां निर्भेदत्वात्संयोगविभागकृता उदात्तादिविशेषाः कल्प्येरन्संयोगविभागानां चाप्रत्यक्षत्वान्न तदाश्रया विशेषाः वर्णेष्वध्यवसातुं शक्यन्त इत्यतो निरालम्बना एव एते उदात्तादिप्रत्ययाः स्युःअपि नैवैतदभिनिवेष्टव्यम्उदात्तादिभेदेन वर्णानां प्रत्यभिज्ञायमानानां भेदो भवेदिति ह्यन्यस्य भेदेनान्यस्याभिद्यमानस्य भेदो भवितुमर्हति हि व्यक्तिभेदेन जातिं भिन्नां मन्यन्तेवर्णेभ्यश्चार्थप्रतीतेः सम्भवात् स्फोटकल्पनानर्थिका कल्पयाम्यहं स्फोटम् , प्रत्यक्षमेव त्वेनमवगच्छामि, एकैकवर्णग्रहणाहितसंस्कारायां बुद्धौ झटिति प्रत्यवभासनादिति चेत् , अस्या अपि बुद्धेर्वर्णविषयत्वात्एकैकवर्णग्रहणोत्तरकाला हीयमेका बुद्धिर्गौरिति समस्तवर्णविषया, नार्थान्तरविषयाकथमेतदवगम्यते ? यतोऽस्यामपि बुद्धौ गकारादयो वर्णा अनुवर्तन्ते, तु दकारादयःयदि ह्यस्या बुद्धेर्गकारादिभ्योऽर्थान्तरं स्फोटो विषयः स्यात् , ततो दकारादय इव गकारादयोऽप्यस्या बुद्धेर्व्यावर्तेरन् तु तथास्तितस्मादियमेकबुद्धिर्वर्णविषयैव स्मृतिःनन्वनेकत्वाद्वर्णानां नैकबुद्धिविषयतोपपद्यत इत्युक्तम् , तत्प्रति ब्रूमःसम्भवत्यनेकस्याप्येकबुद्धिविषयत्वम् , पङ्क्तिः वनं सेना दश शतं सहस्रमित्यादिदर्शनात्या तु गौरित्येकोऽयं शब्द इति बुद्धिः, सा बहुष्वेव वर्णेष्वेकार्थावच्छेदनिबन्धना औपचारिकी वनसेनादिबुद्धिवदेवअत्राहयदि वर्णा एव सामस्त्येन एकबुद्धिविषयतामापद्यमानाः पदं स्युः, ततो जारा राजा कपिः पिक इत्यादिषु पदविशेषप्रतिपत्तिर्न स्यात्; एव हि वर्णा इतरत्र चेतरत्र प्रत्यवभासन्त इतिअत्र वदामःसत्यपि समस्तवर्णप्रत्यवमर्शे यथा क्रमानुरोधिन्य एव पिपीलिकाः पङ्क्तिबुद्धिमारोहन्ति, एवं क्रमानुरोधिन एव हि वर्णाः पदबुद्धिमारोक्ष्यन्तितत्र वर्णानामविशेषेऽपि क्रमविशेषकृता पदविशेषप्रतिपत्तिर्न विरुध्यतेवृद्धव्यवहारे चेमे वर्णाः क्रमाद्यनुगृहीता गृहीतार्थविशेषसम्बन्धाः सन्तः स्वव्यवहारेऽप्येकैकवर्णग्रहणानन्तरं समस्तप्रत्यवमर्शिन्यां बुद्धौ तादृशा एव प्रत्यवभासमानास्तं तमर्थमव्यभिचारेण प्रत्याययिष्यन्तीति वर्णवादिनो लघीयसी कल्पनास्फोटवादिनस्तु दृष्टहानिः, अदृष्टकल्पना वर्णाश्चेमे क्रमेण गृह्यमाणाः स्फोटं व्यञ्जयन्ति स्फोटोऽर्थं व्यनक्तीति गरीयसी कल्पना स्यात्

आचार्यसम्प्रदायोक्तिपूर्वकं सिद्धान्तमाह —

वर्णा इति ।

गौरित्युक्ते गकारौकारविसर्जनीयातिरिक्तस्य स्वतन्त्रस्य परन्त्रस्य वा श्रौत्रेणाग्रहणादुपवर्षाचार्यो वर्णानामेव तु शब्दत्वं पश्यतीत्यर्थः ।

तेषां क्षणिकत्वान्न जगद्धेतुतेत्युक्तं स्मारयति —

नन्विति ।

प्रत्यभिज्ञया स्थायित्वसिद्धेर्न क्षणिकतेत्याह —

तन्नेति ।

प्रयत्नानन्तरीयकतया वर्णानां भेदसिद्धेरन्यथासिद्धा प्रत्यभिज्ञेत्याह —

सादृश्यादिति ।

किं क्वचिद्व्यभिचारदृष्टेरेवं बाधदृष्टेर्वा । नाद्यः, सर्वत्र संशयप्रसङ्गात् । ज्वालादौ तु प्रभावैतत्यादिकार्यानुपपत्त्या तथात्वादिह तदभावादित्याह —

नेति ।

न द्वितीय इत्याह —

प्रत्यभिज्ञानस्येति ।

गवादौ जातिप्रत्यभिज्ञादृष्टेरिहापि तथेति शङ्कते —

प्रत्यभिज्ञानमिति ।

यत्र जातिप्रत्यभिज्ञा तत्र व्यक्तिभेदो दृष्टः । प्रकृते तदभावान्न जातिविषयतेत्याह —

न व्यक्तीति ।

तदेव स्फुटयति —

यदिहीति ।

युक्तितो व्यक्तिविषया प्रत्यभिज्ञेत्युक्त्वा प्रतीतितोऽपि तथेत्याह —

वर्णेति ।

हिशब्दसूचितमनुभवमभिनयति —

द्विरिति ।

दहनतुहिनवद्विरुद्धधर्मवत्त्वाद्धर्मिभेदजः स्यादिति शङ्कते —

नन्विति ।

भेदप्रत्ययेऽपि प्रत्यभिज्ञाया निरपेक्षस्वरूपविषयत्वेन प्राबल्यात्तस्य च सापेक्षभेदविषयत्वेन दौर्बल्यादेकस्यामाकाशव्यक्तौ कुम्भाकाशः कूपाकाश इतिवद्व्यञ्जकवायुसंयोगविभागवैचित्र्याद्वर्णेषु वैचित्र्यधीर्न स्वत इत्याह —

अत्रेति ।

कल्पनागौरवाच्च वर्णेषु स्वतो वैचित्र्यं नास्तीत्याह —

अपि चेति ।

भेदधीहेतोस्त्वयापि कल्प्यत्वात्तुल्या कल्पनेत्याशङ्क्य जातिकल्पना तवाधिकेत्याह —

तास्विति ।

कथं तर्हि भेदाभेदधियावित्याशङ्क्याह —

तद्वरं वर्णेति ।

नायमौपाधिको भ्रमो बाधकाभावादित्याशङ्क्याह —

एष इति ।

एकत्वनानात्वयोरेकत्र वास्तवत्वोपपत्तौ किमिति बाध्यबाधकत्वं, तत्राह —

कथं हीति ।

एकस्य युगपदनेकरूपत्वानुपपत्तिसहकृतमेकत्वप्रत्यभिज्ञानं भेदधियो बाधकमेवेत्यर्थः ।

कण्ठादिदेशैः सह कोष्ठनिष्ठस्य वायोः सन्नियोगविभागयोर्व्यञ्जकत्वमुपेत्य वर्णेषु भेदधीर्न स्वरूपकृतेति परमतमुक्त्वा स्वमतमाह —

अथवेति ।

अत्र प्रश्नपूर्वकं वर्णेभ्यो ध्वनिं निष्कर्षति —

कः पुनरित्यादिना ।

अवतरति स ध्वनिरिति शेषः । वर्णातिरिक्तशब्दो ध्वनिरित्यर्थः ।

स एव प्रत्यासन्नस्य पुंसो वर्णेषु स्वधर्मानारोपयतीत्याह —

प्रत्यासीदतश्चेति ।

वर्णेषूदात्तादिवत्षड्जत्वादिरपि स्वाभाविकः स्यादित्याशङ्क्याह —

तदिति ।

वर्णानामेवाव्यक्तानां ध्वनित्वे कुतो भेदधीस्तेषु तत्कृतेत्याशङ्क्याह —

वर्णानामिति ।

ध्वनेश्च सानुनासिकत्वादिभेदवतस्तदभावात्तेभ्योऽर्थान्तरत्वात्तत्कृता तेषु भेदधीर्युक्तेत्यर्थः । एतेन तस्य जातित्वमपि प्रत्युक्तम् ।

वायुसंयोगविभागयोर्व्यञ्जकत्वं हित्वा किमिति ध्वनीनां तदुपगतं, तत्राह —

एवं चेति ।

पक्षान्तरेऽपि तुल्यमेषां सालम्बनत्वमित्याशङ्क्याह —

इतरथेति ।

अस्तु कल्पना का हानिः, तत्राह —

संयोगेति ।

अप्रत्यक्षत्वमश्रावणत्वम् । पूर्वत्रापरितोषे हेतूक्तिसमाप्तावितिशब्दः ।

अपरितोषहेतुसत्त्वे प्रथमपक्षायोगं फलमाह —

अत इति ।

वर्णमात्रस्याप्रत्यभिज्ञानादुदात्तादिमत्तयैव तद्भानात्तदारोपकल्पनानुपपत्तेर्द्वितीयोऽपि पक्षो नेत्यशङ्क्याह —

अपि चेति ।

विरुद्धधर्मत्वादग्निज्वालादिवद्भेदः स्यादित्याशङ्क्याह —

नहीति ।

तदेवोदाहरणेन स्फोरयति —

नहीति ।

खण्डमुण्डाद्युपरक्ततया प्रत्यभिज्ञायमानगोत्ववदुदात्तादिमत्त्वेन भातानामपि वर्णानां न तात्त्विकं नानात्वमिति भावः ।

प्रत्यभिज्ञया स्थायित्वं वर्णानामुक्त्वा तेषामेव वाचकत्वं वक्तुं स्फोटं विघटयति —

वर्णेभ्यश्चेति ।

कल्पनाममृष्यन्नाह —

नेति ।

कथं तर्हि तद्धीः, तत्राह —

प्रत्यक्षमिति ।

तथा स्फोटावगतिं स्कुटयति —

एकैकेति ।

वर्णेषु व्यञ्जकेषु दृष्टेषु तद्व्यङ्ग्यतया स्फोटो विनैव सम्प्रयोगं चकास्तीत्याह —

झटितीति ।

यः खल्वाकारो यस्यां बुद्धौ स्फुरति स तदालम्बनम् ।

न चात्र कश्चिदाकारो वर्णातिरिक्तो भाति । तेनास्या वर्णगामित्वान्नातिरिक्ते स्फोटे मानतेत्याह —

नास्या इति ।

वर्णगामित्वमस्यास्तद्भानोत्तरत्वादसिद्धमित्याशङ्क्याह —

एकैकेति ।

सर्ववर्णविषयत्वे तदितरस्फोटविषयत्वे च तुल्ये न पक्षपातहेतुरिति शङ्कते —

कथमिति ।

पक्षपाते हेतुमाह —

यत इति ।

गौरितिबुद्धौ गकारादिवर्णानामेवानुवृत्तावपि कुतोऽस्यास्तदालम्बनत्वं, स्फोटव्यञ्जकत्वेनापि तदनुवृत्तियोगादित्याशङ्क्याह —

यदीति ।

न खल्वस्यां बुद्धौ विषयभूतस्फोटव्यञ्जकतया वर्णानुवृत्तिर्वह्निबुद्धाविव धूमस्य लक्ष्यबुद्धौ लक्षणस्य भानासिद्धेरिति भावः ।

नन्वस्या बुद्धेः स्फोटाविषयत्वे न वर्णविषयत्वमपि, तेषां प्रागेव प्रत्येकं दृष्टतया प्रकृतबुद्ध्यनपेक्षत्वात् , तत्राह —

तस्मादिति ।

अनेकेष्वेकत्वबुद्धेर्भ्रमत्वमुक्तं स्मारयति —

नन्विति ।

अनेकस्य निरुपाधिकैकबुद्ध्यविषयत्वेऽपि सोपाधिकतया तद्विषयत्वं स्यादित्याह —

तदिति ।

तत्रैकदेशसम्बन्धादिनिबन्धना धीः, इह तु किङ्कृतेत्याशङ्क्याह —

या त्विति ।

न चैकार्थधीहेतुत्वे सत्येकपदत्वं तस्मिंश्च तद्धीहेतुत्वमित्यन्योन्याश्रयत्वम् , अर्थज्ञानात्पूर्वं, केषाञ्चिद्वर्णानामेकस्मृत्यारूढानामेकार्थधीहेतुत्वादेकपदत्वनिश्चयात् । न चानेकसंस्काराणां नैकस्मृतिहेतुत्वम् । कुशकाशादिष्वनेकसंस्कारजन्यैकस्मृतिदर्शनात् । क्रमवद्वर्णसंस्काराणां स्थायित्वादन्त्यवर्णदृष्ट्यनन्तरं साहित्यात्तेषां सर्ववर्णविषयैकस्मृतिहेतुत्वसिद्धेरिति भावः ।

वर्णानामेकस्मृत्यारोहिणामेकपदत्वे पदविशेषसिद्धौ क्रमापेक्षा न स्यादित्याह —

अत्रेति ।

तदपेक्षाभावे हेतुः —

त एवेति ।

दृष्टान्तेन प्रत्याह —

अत्रेति ।

क्रमानुरोधिनां वर्णानां पदधीविषयत्वे फलितमाह —

तत्रेति ।

कथमेतेषां वर्णानामेतावतामेतत्क्रमकाणामेतत्पदत्वमित्यादिविशेषधीः, तत्राह —

वृद्धेति ।

व्युत्पत्तिदशा वृद्धव्यवहारः । क्रमादीत्यादिशब्देन सङ्ख्या गृह्यते । स्वव्यवहारो मध्यमवृद्धस्य प्रवृत्त्यवस्था । तादृशत्वं व्युत्पत्तिदशादृष्टक्रमाद्यनुगृहीतत्वम् । तं तमर्थं गृहीतसम्बन्धप्रतियोगिनमिति यावत् ।

‘यावन्तो यादृशा ये च यदर्थप्रतिपादकाः । वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधकाः ॥ ‘ इति न्यायेनाह —

इति वर्णेति ।

स्फोटवादिनस्तु यद्दृष्टं वर्णानामर्थबोधकत्वं तस्य हानिरदृष्टस्य स्फोटस्य कल्पना, सा च गौरवदुष्टेत्याह —

स्फोटेति ।

किञ्च येन हेतुना वर्णानामर्थव्यञ्जकत्वं निरस्तं तेनैव तेषां न स्फोटव्यञ्जकत्वमपि । यदि कथञ्चिदमी स्फोटं भासयेयुस्तर्हि तथैवार्थमिति युक्तं लाघवादित्याह —

वर्णाश्चेति ।

स्फोटपक्षं प्रतिक्षिपता वर्णपक्षः समर्थितः ।