जगतः शब्दजत्वमुक्तमुपजीव्य शब्दनित्यत्वमाह —
अत एवेति ।
पूर्वमीमांसायामेव वेदनित्यत्वस्य सिद्धत्वादिह तन्नित्यत्वसाधनमकिञ्चित्करमित्याशङ्क्य सूत्रतात्पर्यमाह —
कर्तुरिति ।
पूर्वतन्त्रसिद्धमेव वेदनित्यत्वंं देवादिजगदुत्पत्तौ वाचकशब्दस्यापि तद्भावादयुक्तमिति शङ्किते शब्दादेव नित्याकृतिमतस्तज्जन्मेति समाहितम् । एवं वेदोऽवान्तरप्रलयस्थायी, जगद्धेतुत्वात् , ईश्वरवदित्यनुमानेन दृढीकर्तुमिदं सूत्रमित्यर्थः ।
तत्तात्पर्यमुक्त्वाक्षराणि व्याकरोति —
अत इति ।
अनुमानसिद्धेऽर्थे श्रुतिमनुकूलयति —
तथा चेति ।
यज्ञेन पुण्येन कर्मणा वाचो वेदस्य पदवीयं मार्गयोग्यतां ग्रहणयोग्यतामायन्नाप्तवन्तः, ततस्तां वाचमृषिषु प्रविष्टां विद्यमानामन्वविन्दन्ननुलब्धवन्तो याज्ञिका इति यावत् ।
तस्य तात्पर्यमाह —
स्थितामिति ।
अनुविन्नामनुलब्धामित्येतत् ।
तत्रैव स्मृतिमाह —
वेदेति ।
वेदान्कर्मज्ञानार्थान्मन्त्रब्रह्मणवादान् । सेतिहासानितिहासशब्दितनानार्थवादोपेतान्प्रसिद्धेतिहाससहितान्वा तेषामप्यवान्तरप्रलये सत्त्वात् । पूर्वमवान्तरसर्गादावित्यर्थः ।
तपसापि न तल्लाभोऽध्यापकाभावादित्याशङ्क्याह —
अनुज्ञाता इति ॥ २९ ॥