ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च ॥ ३० ॥
अथापि स्यात्यदि पश्वादिव्यक्तिवद्देवादिव्यक्तयोऽपि सन्तत्यैवोत्पद्येरन् निरुध्येरंश्च, ततोऽभिधानाभिधेयाभिधातृव्यवहाराविच्छेदात्सम्बन्धनित्यत्वेन विरोधः शब्दे परिह्रियेतयदा तु खलु सकलं त्रैलोक्यं परित्यक्तनामरूपं निर्लेपं प्रलीयते, प्रभवति चाभिनवमिति श्रुतिस्मृतिवादा वदन्ति, तदा कथमविरोध इतितत्रेदमभिधीयते समाननामरूपत्वादितितदापि संसारस्यानादित्वं तावदभ्युपगन्तव्यम्प्रतिपादयिष्यति चाचार्यः संसारस्यानादित्वम्उपपद्यते चाप्युपलभ्यते ’ (ब्र. सू. २ । १ । ३६) इतिअनादौ संसारे यथा स्वापप्रबोधयोः प्रलयप्रभवश्रवणेऽपि पूर्वप्रबोधवदुत्तरप्रबोधेऽपि व्यवहारान्न कश्चिद्विरोधः, एवं कल्पान्तरप्रभवप्रलययोरपीति द्रष्टव्यम्स्वापप्रबोधयोश्च प्रलयप्रभवौ श्रूयेतेयदा सुप्तः स्वप्नं कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति तदैनं वाक्सर्वैर्नामभिः सहाप्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैः शब्दैः सहाप्येति मनः सर्वैर्ध्यानैः सहाप्येति यदा प्रतिबुध्यते यथाग्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः’ (कौ. उ. ३ । ३) इतिस्यादेतत्स्वापे पुरुषान्तरव्यवहाराविच्छेदात्स्वयं सुप्तप्रबुद्धस्य पूर्वप्रबोधव्यवहारानुसन्धानसम्भवादविरुद्धम्महाप्रलये तु सर्वव्यवहारोच्छेदाज्जन्मान्तरव्यवहारवच्च कल्पान्तरव्यवहारस्यानुसन्धातुमशक्यत्वाद्वैषम्यमितिनैष दोषः, सत्यपि सर्वव्यवहारोच्छेदिनि महाप्रलये परमेश्वरानुग्रहादीश्वराणां हिरण्यगर्भादीनां कल्पान्तरव्यवहारानुसन्धानोपपत्तेःयद्यपि प्राकृताः प्राणिनो जन्मान्तरव्यवहारमनुसन्दधाना दृश्यन्त इति, तथापि प्राकृतवदीश्वराणां भवितव्यम्यथा हि प्राणित्वाविशेषेऽपि मनुष्यादिस्तम्बपर्यन्तेषु ज्ञानैश्वर्यादिप्रतिबन्धः परेण परेण भूयान् भवन् दृश्यतेतथा मनुष्यादिष्वेव हिरण्यगर्भपर्यन्तेषु ज्ञानैश्वर्याद्यभिव्यक्तिरपि परेण परेण भूयसी भवतीत्येतच्छ्रुतिस्मृतिवादेष्वसकृदनुश्रूयमाणं शक्यं नास्तीति वदितुम्ततश्चातीतकल्पानुष्ठितप्रकृष्टज्ञानकर्मणामीश्वराणां हिरण्यगर्भादीनां वर्तमानकल्पादौ प्रादुर्भवतां परमेश्वरानुगृहीतानां सुप्तप्रतिबुद्धवत्कल्पान्तरव्यवहारानुसन्धानोपपत्तिःतथा श्रुतिःयो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मैतꣳ देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये’ (श्वे. उ. ६ । १८) इतिस्मरन्ति शौनकादयःमधुच्छन्दःप्रभृतिभिऋषिभिर्दाशतय्यो दृष्टाः’(शौ॰ऋ॰अनु॰ ४) इतिप्रतिवेदं चैवमेव काण्डर्ष्यादयः स्मर्यन्तेश्रुतिरपि ऋषिज्ञानपूर्वकमेव मन्त्रेणानुष्ठानं दर्शयति — ‘यो वा अविदितार्षेयच्छन्दोदैवतब्राह्मणेन मन्त्रेण याजयति वाध्यापयति वा स्थाणुं वर्च्छति गर्तं वा प्रतिपद्यतेइत्युपक्रम्य तस्मादेतानि मन्त्रे मन्त्रे विद्यात्’(सा॰आ॰ब्रा॰ १-१-६) इतिप्राणिनां सुखप्राप्तये धर्मो विधीयतेदुःखपरिहाराय चाधर्मः प्रतिषिध्यतेदृष्टानुश्रविकसुखदुःखविषयौ रागद्वेषौ भवतः, विलक्षणविषयौइत्यतो धर्माधर्मफलभूतोत्तरा सृष्टिर्निष्पद्यमाना पूर्वसृष्टिसदृश्येव निष्पद्यतेस्मृतिश्च भवति — ‘तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरेतान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः ॥’, हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृतेतद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते’(वि॰पु॰ १-५-६०,६१) इतिप्रलीयमानमपि चेदं जगच्छक्त्यवशेषमेव प्रलीयतेशक्तिमूलमेव प्रभवतिइतरथा आकस्मिकत्वप्रसङ्गात् चानेकाकाराः शक्तयः शक्याः कल्पयितुम्ततश्च विच्छिद्य विच्छिद्याप्युद्भवतां भूरादिलोकप्रवाहाणाम् , देवतिर्यङ्मनुष्यलक्षणानां प्राणिनिकायप्रवाहाणाम् , वर्णाश्रमधर्मफलव्यवस्थानां चानादौ संसारे नियतत्वमिन्द्रियविषयसम्बन्धनियतत्ववत्प्रत्येतव्यम् हीन्द्रियविषयसम्बन्धादेर्व्यवहारस्य प्रतिसर्गमन्यथात्वं षष्ठेन्द्रियविषयकल्पं शक्यमुत्प्रेक्षितुम्अतश्च सर्वकल्पानां तुल्यव्यवहारत्वात् कल्पान्तरव्यवहारानुसन्धानक्षमत्वाच्चेश्वराणां समाननामरूपा एव प्रतिसर्गं विशेषाः प्रादुर्भवन्तिसमाननामरूपत्वाच्चावृत्तावपि महासर्गमहाप्रलयलक्षणायां जगतोऽभ्युपगम्यमानायां कश्चिच्छब्दप्रामाण्यादिविरोधःसमाननामरूपतां श्रुतिस्मृती दर्शयतःसूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्दिवं पृथिवीं चान्तरिक्षमथो सुवः’ (ऋ. सं. १० । १९० । ३) इतियथा पूर्वस्मिन्कल्पे सूर्याचन्द्रमःप्रभृति जगत् कॢप्तम् , तथास्मिन्नपि कल्पे परमेश्वरोऽकल्पयदित्यर्थःतथाअग्निर्वा अकामयतअन्नादो देवानाꣳ स्यामिति एतमग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपालं निरवपत्’ (तै. ब्रा. ३ । १ । ४ । १) इति नक्षत्रेष्टिविधौ योऽग्निर्निरवपत् यस्मै वाग्नये निरवपत् , तयोः समाननामरूपतां दर्शयतिइत्येवंजातीयका श्रुतिरिहोदाहर्तव्यास्मृतिरपि ऋषीणां नामधेयानि याश्च वेदेषु दृष्टयः ।’, ‘शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यजः ॥(लि॰पु॰ ७०-२५८,२५९),यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्ययेदृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥’(वि॰पु॰ १-५-६६),यथाभिमानिनोऽतीतास्तुल्यास्ते साम्प्रतैरिहदेवा देवैरतीतैर्हि रूपैर्नामभिरेव ’(वा॰पु॰ ५०-६६) इत्येवंजातीयका द्रष्टव्या ॥ ३० ॥

महाप्रलये जातेरपि सत्त्वासिद्धेः शब्दार्थसम्बन्धानित्यत्वमाशङ्क्य प्रत्याह —

समानेति ।

सूत्रव्यावर्त्यामाशङ्कामाह —

अथापीति ।

अवान्तरलये शब्दार्थसम्बन्धानित्यत्वाभावेऽपीति यावत् ।

तत्र विरोधसमाधिमुक्तमङ्गीकरोति —

यदीति ।

अभिधातृशब्देनाध्यापकाध्येतारावुक्तौ । अभिधानाभिधेयव्यवहाराविच्छेदे सम्बन्धनित्यत्वमध्यापकाध्येतृपरम्पराविच्छेदे च वेदनित्यतेत्यविरोध इत्यर्थः ।

महाप्रलये तु नाविरोध इत्याह —

यदा त्विति ।

जगतो निरन्वयनाशेऽत्यन्तापूर्वस्य चोत्पत्तौ सम्बन्धनित्यत्वाद्यसिद्धिः, सम्बन्धिनोरभावे तदभावात् , अध्यापकाद्यभावे वाश्रयाभावात् , ब्रह्मणश्च केवलस्यातदाश्रयत्वात् । अतो महाप्रलये विरोधतादवस्थ्यमित्यर्थः ।

तं परिहर्तुं सूत्रं पातयति —

तत्रेति ।

तदिदं व्याकुर्वन्ननादित्वं संसारस्य प्रतिजानीते —

तदापीति ।

महाप्रलयमहासर्गाङ्गीकारेऽपीति यावत् ।

तत्र वक्ष्यमाणन्यायं हेतूकरोति —

प्रतिपादयिष्यतीति ।

तस्यानादित्वेऽपि महाप्रलयव्यवधानादस्मरणे वेदानां कुतस्तदीयो व्यवहारः, तत्राह —

अनादौ चेति ।

न कश्चिद्विरोधः, शब्दार्थसम्बन्धनित्यत्वादेरिति शेषः । स्वापे लये च प्राणमात्रावशेषानवशेषाभ्यां विशेषेऽपि कर्मविक्षेपसंस्कारसहिताविद्यावशेषतासाम्यादनयोः साम्यम् ।

कथं पुनःस्वापे प्रलयस्य प्रबोधे च प्रभवस्य श्रवणं, तदाह —

स्वापेति ।

यदेत्युपक्रमादथशब्दस्तदेत्यर्थः । प्राणः परमात्मा । सुषुप्तस्य परस्मिन्नेकीभावावस्था तदेत्युक्ता । एनं प्रकृतं प्राणं परमात्मानमन्तर्बहिरिन्द्रियाणि सविषयाणि स्वापे परमात्मनि लीनानीत्यर्थः ।

प्रबोधे तस्मादेव जगतो जन्मोदाहरति —

स इति ।

स सुषुप्तः पुरुषः । यथेत्यस्मात्प्रागुपक्रमवशात्तदेति द्रष्टव्यम् । एतस्मादात्मन इत्यत्रापादानं प्राणः परमात्मैव । सर्वे प्राणा वागादयस्तेभ्योऽनन्तरं तदनुग्राहका देवा अग्न्यादयस्तदनन्तरं लोकाः शब्दादिविषयाः । कल्पितस्याज्ञातसत्त्वाभावाद्दृष्ट्यदृष्टिभ्यामुत्पत्तिलयावुक्तौ ।

व्यावहारिकसत्त्वे त्वनास्थाश्रुतेरित्यनुसन्धानयोगायोगाभ्यां दृष्टान्तदार्ष्टान्तिकवैषम्यं शङ्कते —

स्यादिति ।

सर्वेषां यौगपद्येनास्वापात्तदा प्रबुद्धेभ्यः सुप्तानां पुनर्व्यवहाराग्रहात्कालविप्रकर्षस्य मरणस्य च वासनोच्छेदिनोऽभावात्तत्र स्मरणम् । इह तु विमतो न जन्मान्तरव्यवहारानुसन्धानार्हः, जनिमृतिव्ययहितत्वात् , अस्मदादिवदित्यनुमानान्न स्मरणम् , अतो दृष्टान्ते शब्दार्थसम्बन्धनित्यत्वाद्यविरुद्धं दार्ष्टान्तिके नैवमित्यर्थः ।

हिरण्यगर्भादीनामनुसन्धानसिद्धेर्न वैषम्यमित्याह —

नैष इति ।

तेषामस्मदादिसाम्यमाशङ्क्योक्तम् —

यद्यपीति ।

इतिशब्दो यद्यपीत्यनेन सम्बध्यते । तथापि न प्राकृतवदिति वक्तव्यम् ।

उक्तमर्थं दृष्टान्तेन साधयति —

यथेति ।

आ मानुषादा च स्थाणोर्ज्ञानादिप्रतिबन्धस्योत्तरोत्तरमुत्कर्षप्रतीतिं प्रमाणयति —

दृश्यत इति ।

आ मनुष्यादा च हिरण्यगर्भादुत्तरोत्तरज्ञानाद्याधिक्ये मानमाह —

इत्येतदिति ।

‘हिरण्यगर्भः समवर्तत’ इत्यादयः श्रुतिवादाः । ‘ज्ञानमप्रतिमं यस्य’ इत्यादयः स्मृतिवादाः ।

तेषामुक्तेऽर्थे तात्पर्यलिङ्गमभ्यासमाह —

असकृदिति ।

पूर्वकल्पीयेश्वराणां कल्पान्तरे मुक्तत्वात्कथं व्यवहितानुसन्धानं, तत्राह —

ततश्चेति ।

पुरुषविशेषाणां व्यवहितानुसन्धानयोगस्य स्थितत्वादिति यावत् ।

पुरुषविशेषानेवाह —

अतीतेति ।

ईश्वराणां तद्भावनाभाजां यजमानानामित्यर्थः । प्रादुर्भवतां हिरण्यगर्भादिभावेनेति शेषः ।

तेषां व्यवहितव्यवहारानुसन्धाने हेतुमाह —

परमेश्वरेति ।

हिरण्यगर्भस्य परानुग्रहे मानमाह —

तथा चेति ।

विपूर्वो दधातिः करोत्यर्थः । पूर्वं कल्पादौ प्रहिणोति ददाति । लटश्चोभयत्राविवक्षा । आत्माकारबुद्धौ प्रकाशत इति तथोक्तः । तत्त्वमस्यादिवाक्योत्थधीवृत्तिव्याप्यमित्येतत् । शरणं मुक्त्यालम्वनमित्यर्थः ।

न केवलमेकस्यैव प्रतिभानं येनाविश्वासः किन्तु तत्तच्छाखाद्रष्टारोऽपि बहवः सन्तीत्याह —

स्मरन्तीति ।

ऋग्वेदो दशमण्डलात्मको मण्डलानां दशतयमत्रास्तीति दाशतय्यस्तत्र भवा ऋचः ।

ऋग्वेदातिरिक्तेष्वपि वेदेषु काण्डसूक्तमन्त्रादिदृशो बौैधायनादिभिः स्मृता इत्याह —

प्रतीति ।

एवमेव मधुच्छन्दः प्रभृतिवदेवेत्यर्थः ।

किञ्चर्ष्यादिधीपूर्वमनुष्ठानं दर्शयन्ती श्रुतिस्तांस्तानृषीन्मन्त्रदृशो दर्शयतीत्याह —

श्रुतिरिति ।

तत्र तत्र प्रथममृष्यादिज्ञानं विनानुष्ठाने दोषमाह —

यो हेति ।

आर्षेयमृषिसम्बन्धं, छन्दो गायत्र्यादि, दैवतमग्न्यादि, ब्राह्मणं विनियोगो न विदितान्येतानि यस्य मन्त्रस्य तेन याजयति - यागं कारयत्यध्यापयत्यध्ययनं कारयति, स्थाणुं स्थावरं, गर्तं नरकम् । ऋष्याद्यज्ञाने दोषित्वं तच्छब्दार्थः । भूतप्रेतादीनां जन्मान्तरानुस्मरणदर्शनन्यायानुगृहीतानामृष्यादिषु स्मृत्यादिप्रमितकल्पान्तरीयवेदानुस्मरणसूचकश्रौतलिङ्गानां कल्पान्तरव्यवहारानुस्मरणसाधकत्वम् । न च कालविप्रकर्षस्य जन्मनाशयोश्च सर्वसंस्कारोच्छेदकत्वं, पूर्वाभ्यस्तस्मृत्यनुसन्धानाज्जातमात्रस्य हर्षादिदृष्टेरित्यर्थः ।

कल्पान्तरानुसन्धानेन व्यवहारप्रवर्तनयोगात्पूर्वकल्पतुल्यैवोत्तरकल्पप्रवृत्तिरित्युक्तम् । सम्प्रति सृष्टिनिमित्तादृष्टमहिम्नापि पूर्वसदृष्येवोत्तरसृष्टिरित्याह —

प्राणिनां चेति ।

कथमेतावता पूर्वसृष्टिसादृश्यमुत्तरसृष्टेरित्याशङ्क्याह —

दृष्टेति ।

अन्वयव्यतिरेकसिद्धत्वं दृष्टत्वम् । आगममात्रप्रतिपन्नत्वमानुश्रविकत्वम् । विशिष्टसंस्थानपश्वादिकामनया कृतं कर्म तादृशं पश्वादि भावयतीति दृष्टविषयरागाद्यधीनकर्मफलभूतसृष्टेः श्लिष्टं पूर्वसृष्टिसादृश्यमित्यर्थः ।

पूर्वोत्तरसृष्टिसादृश्ये मानमाह —

स्मृतिश्चेति ।

तेषां सृज्यमानानां प्राणिनामिति निर्धारणे षष्ठी । तेषां पौनःपुन्येन सृज्यमानतया सर्गस्य प्रवाहात्मनानादित्वं द्योत्यते ।

पूर्वकृतकर्मपारवश्यमुत्तरसृष्टौ किमिति प्राणिनामित्याशङ्क्याह —

हिंस्रेति ।

व्यवस्थया धर्माधर्मसंस्कृतत्वं कथं तेषामिष्टं, तत्राह —

तस्मादिति ।

सम्प्रतितनधर्मादिरुचिदृष्ट्या प्राचि भवेऽपि तत्तद्भावितत्वधीरित्यर्थः ।

यत्तु निर्लेपं प्रलीयते जगदिति, तत्राह —

प्रलीयमानमिति ।

ततश्चोपासनशक्तिनियमादपि पूर्वसदृश्येवोत्तरसृष्टिरित्यर्थः ।

कार्यस्य कारणमात्रत्वात्तन्नाशान्नोत्तरसृष्टेः सादृश्यमित्याशङ्क्याह —

शक्तीति ।

निरन्वयनाशेन नवस्योदये दोषमाह —

इतरथेति ।

शक्तिवैचित्र्याद्विचित्रसृष्टिमाशङ्क्याह —

न चेति ।

अविद्याशक्तेरेकस्यास्तत्तत्कार्ये शक्तिभेदकल्पने गौरवादात्माविद्यैव नः शक्तिरिति स्थितेरित्यर्थः ।

पूर्वोत्तरसृष्टिसादृश्ये फलितमाह —

ततश्चेति ।

विच्छिद्य महाप्रलयव्यवधानेनापीत्यर्थः । भूरादिलोकप्रवाहा भोगभूमयः । देवादिप्राणिसमूहो भोक्तृवर्गः । वर्णाश्रमादिव्यस्थास्तदीयधर्माधर्म इति भेदः ।

दृष्टान्तं स्पष्टयति —

न हीति ।

‘मनःषष्ठानीन्द्रियाणि’ इति स्मृतेः षष्ठमिन्द्रियं मनस्तस्य नासाधारणो विषयः, सुखादेरपि साक्षिमात्रगम्यत्वात्तत्तुल्यमत्यन्तासदिति यावत् । यद्वा षष्ठमिन्द्रियं ज्ञानेन्द्रियेषु कर्मेन्द्रियेषु वा नास्ति तद्विषयस्तु दूरापास्तस्तथा व्यवहारान्यथात्वं प्रतिकल्पमशक्यं कल्पयितुम् । न हि कस्याञ्चिदि सृष्टौ नेत्रश्रोत्रादेर्गोचरविपर्ययो दृष्टः । तथा सर्वकल्पेषु लोकलोकितद्धर्मनियमसिद्धिरित्यर्थः ।

उक्तमर्थं सङ्क्षिप्य निगमयन्प्रकृतसूत्राक्षराणि योजयति —

अतश्चेति ।

समाननामरूपाणां विशेषाणां प्रतिसर्गं सर्गेऽपि कुतो विरोधसमाधिः, तत्राह —

समानेति ।

प्रादुर्भवतां विशेषाणां समाननामरूपत्वे मानमाह —

समानेति ।

उक्तं व्याकर्तुं श्रुतिं व्याचष्टे —

यथेति ।

तत्रैव श्रुत्यन्तरमाह —

तथेति ।

भाविवृत्त्या यजमानोऽग्निरुच्यते, अग्नेरग्न्यन्तराभावात् ।

यजमानश्चैवं कामयित्वा किं कृतवानिति, तदाह —

स इति ।

कृत्तिकाभ्यः कृत्तिकानश्रत्रदेवतायै बहुवचनं नक्षत्रबहुत्वात् । अष्टाकपालमष्टसु कपालेषु पचनीयं निरवपन्निरुप्तवान् । उक्तपुरोडाशहविष्कामिष्टिं कृतवानित्यर्थः ।

उक्तश्रुतेस्तात्पर्यमाह —

नक्षत्रेति ।

‘मित्रो वा अकामयत चन्द्रमा वा अकामयत’ इत्येवंविधा श्रुतिरेवंजातीयका । पूर्वोत्तरसृष्ट्योः समाननामरूपत्वमिहेत्युक्तम् । स्मृतिरपीह द्रष्टव्येति सम्बन्धः । वेदेष्विति विषयसप्तमी । शर्वर्यन्ते प्रलयान्ते । ऋतुलिङ्गानि वसन्तादीनामृतूनां चिह्नानि नवकिसलयप्रसूनादीनि । पर्यये पर्याये पौनःपुन्येन परिवर्तने । ये चक्षुराद्यभिमानिनोऽतीता देवास्ते साम्प्रतैर्देवैरिह चक्षुराद्यभिमानिभिस्तुल्या इति योजना ॥ ३० ॥