ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
मध्वादिष्वसम्भवादनधिकारं जैमिनिः ॥ ३१ ॥
इह देवादीनामपि ब्रह्मविद्यायामस्त्यधिकार इति यत्प्रतिज्ञातं तत्पर्यावर्त्यतेदेवादीनामनधिकारं जैमिनिराचार्यो मन्यतेकस्मात् ? मध्वादिष्वसम्भवात्ब्रह्मविद्यायामधिकाराभ्युपगमे हि विद्यात्वाविशेषात् मध्वादिविद्यास्वप्यधिकारोऽभ्युपगम्येत; चैवं सम्भवतिकथम् ? असौ वा आदित्यो देवमधु’ (छा. उ. ३ । १ । १) इत्यत्र मनुष्या आदित्यं मध्वध्यासेनोपासीरन्देवादिषु ह्युपासकेष्वभ्युपगम्यमानेष्वादित्यः कमन्यमादित्यमुपासीत ? पुनश्चादित्यव्यपाश्रयाणि पञ्च रोहितादीन्यमृतान्यनुक्रम्य, वसवो रुद्रा आदित्या मरुतः साध्याश्च पञ्च देवगणाः क्रमेण तत्तदमृतमुपजीवन्तीत्युपदिश्य, एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति’ (छा. उ. ३ । ६ । ३) इत्यादिना वस्वाद्युपजीव्यान्यमृतानि विजानतां वस्वादिमहिमप्राप्तिं दर्शयतिवस्वादयस्तु कान् अन्यान् वस्वादीनमृतोपजीविनो विजानीयुः ? कं वान्यं वस्वादिमहिमानं प्रेप्सेयुः ? तथा — ‘अग्निः पादो वायुः पाद आदित्यः पादो दिशः पादःवायुर्वाव संवर्गः’ (छा. उ. ४ । ३ । १) आदित्यो ब्रह्मेत्यादेशः’ (छा. उ. ३ । १९ । १) इत्यादिषु देवतात्मोपासनेषु तेषामेव देवतात्मनामधिकारः सम्भवतितथा इमावेव गोतमभरद्वाजावयमेव गोतमोऽयं भरद्वाजः’ (बृ. उ. २ । २ । ४) इत्यादिष्वपि ऋषिसम्बन्धेषूपासनेषु तेषामेव ऋषीणामधिकारः सम्भवति ॥ ३१ ॥

देवानां विग्रहवत्त्वे सर्गप्रलयोपगमे च कर्मणि शब्दे च विरोधमाशङ्क्य समाधिरुक्तः । सम्प्रति ‘तदुपर्यपि - ‘ इत्यत्रोक्तमाधिकारमाक्षिपति —

मध्वादिष्विति ।

पूर्वपक्षसूत्रतात्पर्यमाह —

इहेति ।

प्रतिज्ञाभागस्याक्षरार्थमाह —

देवादीनामिति ।

तेषां समर्थिताधिकारस्याक्षेपो न युक्त इत्याह —

कस्मादिति ।

तत्र हेतुमवतार्य व्याकरोति —

मध्वादिष्विति ।

मधुविद्यायां देवानामधिकारायोगं वक्तुं पृच्छति —

कथमिति ।

तेषामनुपासकत्वार्थमुपासकान्तरसत्त्वमाह —

असाविति ।

किमर्थं मनुष्यग्रहणं, तत्राह —

देवादिष्विति ।

उपास्योपासकभावस्य भेदापेक्षत्वात्प्राचामादित्यानामस्मिन्कल्पे क्षीणाधिकारत्वेनादित्यत्वाभावादादित्य एव मधुदृष्टिरादित्यस्यायुक्तेत्यर्थः ।

तर्हि देवतान्तराणामुक्तोपास्त्यधिकारित्वं, नेत्याह —

पुनश्चेति ।

लोहितं, शुक्लं, कृष्णं, परं कृष्णं, मध्ये क्षोभत इव, इत्युक्तानि पञ्च रोहितादीन्यमृतानि प्रागाद्यूर्ध्वदेशस्थितरश्मिनाडीभिस्तत्तद्वेदोक्तकर्मकुसुमेभ्यस्तत्तद्वैदिकमन्त्रमधुकरैरादित्यमण्डलमानीतानि सोमाज्यपयःप्रभृतिद्रव्याहुतिनिष्पन्नानि यशस्तेजोवीर्यमिन्द्रियमित्येवमात्मकान्यादित्यमधुसम्बन्धीनि वस्वाद्युपजीव्यानि चिन्तयतां फलं वस्वाद्याप्तिरुच्यते । तेषामुपासकत्वे कर्मकर्तृविरोधः स्यादित्यर्थः ।

आदिशब्दार्थं व्याचष्टे —

तथेति ।

कर्मकर्तृविरोधसाम्यादित्यर्थः ।

तथापि कथमृषीणामनधिकारः, तत्राह —

तथेति ।

सप्तसु शीर्षण्यप्राणेषु द्वयोर्द्वयोर्गोतमादिदृष्ट्योपास्तिः । दक्षिणः कर्णो गोतमः, वामो भरद्वाजः, चक्षुर्दक्षिणं विश्वामित्रः, वामं जमदग्निरित्यादि । न च तत्र तेषामेवाधिकारः, विरोधादित्यर्थः ॥ ३१ ॥