ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
ज्योतिषि भावाच्च ॥ ३२ ॥
यदिदं ज्योतिर्मण्डलं द्युस्थानमहोरात्राभ्यां बम्भ्रमज्जगदवभासयति, तस्मिन्नादित्यादयो देवतावचनाः शब्दाः प्रयुज्यन्ते; लोकप्रसिद्धेर्वाक्यशेषप्रसिद्धेश्च ज्योतिर्मण्डलस्य हृदयादिना विग्रहेण चेतनतया अर्थित्वादिना वा योगोऽवगन्तुं शक्यते, मृदादिवदचेतनत्वावगमात्एतेनाग्न्यादयो व्याख्याताः

देवादीनां विग्रहाद्यभावादनधिकारं सार्वत्रिकं साधयति —

ज्योतिषीति ।

सूत्रं विभज्यते —

यदिति ।

आदित्यः सविता पूषा चन्द्रमा नक्षत्रमित्यादिशब्दानां ज्योतिर्मण्डलविषयत्वे प्रसिद्धिद्वयं प्रमाणयति —

लोकेति ।

‘यावदादित्यः पुरस्तादुदेता’ इत्यादिः, ‘असौ वा आदित्यो देवमधु’ इत्यादिवाक्यशेषः ।

उदयास्तमयौ च ज्योतिर्मण्डलस्योपलभ्येते, तेन तदेवादित्यपदोक्तमस्तु । तर्हि तस्यैवाधिकारः, तत्राह —

न चेति ।

आदित्यादीनामचैतन्यादनधिकारेऽपि चैतन्यादग्न्यादीनामधिकारः स्यादित्याशङ्क्याह —

एतेनेति ।

न खल्वादित्यादिभ्योऽग्नयादयो विशिष्यन्ते, येन तेषां चेतनत्वादधिकारितेत्यर्थः ।