देवादीनां विग्रहाद्यपरिग्रहादनधिकारितेत्युक्तममृष्यमाणः सिद्धान्ती शङ्कते —
स्यादिति ।
‘वज्रहस्तः पुरन्दरः’ इत्यादयो मन्त्राः । ‘प्रजापतिरात्मनो वपामुदक्खिदत् ‘ इत्यादयोऽर्थवादाः । ‘इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः । ‘ ‘ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः । ‘ इत्यादीनीतिहासपुराणानि । लोकेऽपि यमं दण्डहस्तमालिखन्ति । वरुणं पाशहस्तम् । अतो मन्त्रादिप्रामाण्याद्देवादीनां विग्रहादियोगाद्विद्याधिकारितेत्यर्थः ।
विग्रहवत्त्वादीति ।
आदिशब्देन हविर्भोजनं तृप्तिरैश्वर्यं फलदानं च गृहीतम् ।
देवादीनां विग्रहादिपञ्चकं प्रामाणिकमित्युक्तं दूषयति —
नेतीति ।
यदुक्तं लोकतो विग्रहादिधीरिति, तत्राह —
न तावदिति ।
तर्हि प्रत्यक्षादिप्रसिद्धितो लोकप्रसिद्धेर्न भेदः, तत्राह —
प्रत्यक्षादिभ्य इति ।
अस्तु तर्हि तन्मूला लोकप्रसिद्धिः, नेत्याह —
न चेति ।
देवताविग्रहादिपञ्चकं सप्तम्यर्थः ।
तर्हि लोकप्रसिद्धेरितिहासपुराणं मूलं, तत्राह —
इतिहासेति ।
तस्य यन्मूलं तदेेव लोकप्रसिद्धेर्मूलमिति चेत् , अस्तु तर्हि निर्मूलं तल्लोकप्रसिद्धेर्मूलं, पौरुषेयगिरां मूलाभावे प्रामाण्यासिद्धेः । न च तस्य यन्मूलं तदेव लोकप्रसिद्धेर्मूलं, तन्मूलतया सम्भावितार्थवादमन्त्राणां निरसिष्यमाणत्वादिति भावः ।
अपौरुषेयाणामर्थवादानां तर्हि लोकप्रसिद्धिमूलत्वं, न अर्थवादाधिकरणविरोधादित्याह —
अर्थवादा इति ।
मन्त्राणां तर्हि स्तुत्यर्थत्वाभावात्तन्मूलतेत्याशङ्क्याह —
मन्त्रा इति ।
व्रीह्यादिवत्कर्मणि श्रुतिलिङ्गादिविनियुक्तानां तेषां दृष्टद्वारोपकारे सत्यदृष्टकल्पनायोगात् , अर्थपरत्वस्य शब्दानामौत्सर्गिकत्वात् , प्रयोगसमवेतार्थस्मृतावेव तात्पर्यं, नाज्ञातदेवताविग्रहादावपि, तात्पर्यभेदे वाक्यभेदादिति मत्वा मन्त्राधिकरणमुक्तेऽर्थे प्रमाणयति —
इत्याचक्षत इति ।
विग्रहादिपञ्चके मानाभावे फलितमाह —
तस्मादिति ॥ ३२ ॥