सूत्राभ्यां पूर्वपक्षे सिद्धान्तयति —
भावन्त्विति ।
तत्र परपक्षनिषेधं स्वपक्षप्रतिज्ञां च विभजते —
तुशब्द इति ।
यदुक्तं ब्रह्मविद्या देवादीन्नाधिकरोति, विद्यात्वात् , मध्वादिविद्यावदिति, तत्र मध्वादिविद्यानां देवादिव्यामिश्रत्वान्न तास्तानधिकुर्वन्ति, न विद्यात्वात् । ब्रह्मविद्या तु न व्यामिश्रेत्यतस्तानप्यधिकरोतीत्यप्रयोजकत्वमाह —
यद्यपीति ।
तत्र देवादीनामधिकारस्य सम्भवे हेतुमाह —
अर्थित्वेति ।
वैराग्यादिब्रह्मचर्यादिसङ्ग्रहार्थमादिपदम् । द्विविधसामर्थ्यस्यैव योग्यताख्यस्याधिकारकारणत्वेऽपि तत्प्रयोजकत्वेनार्थित्वाद्यास्थेयम् ।
अतिप्रसङ्गपक्षबाधकोपहतं चेदमनुमानमित्याह —
नेति ।
राजसूयाद्यनधिकृतस्यापि ब्राह्मणस्य बृहस्पतिसवे प्रामाण्यादधिकारः । प्रकृते तु कथमित्याशङ्क्याह —
ब्रह्मेति ।
तत्र ब्रह्मवेदनात्सर्वभावे स्थिते देवानां मध्ये यो यो देवः प्रतिबुद्धवानात्मानमहं ब्रह्मस्मीति स स प्रतिबोद्धैव तद्ब्रह्माभवत् ।
तथापि जातित्रयस्यैव विद्याधिकारमाशङ्क्याह —
ते हेति ।
ते देवाश्चासुराश्चान्योन्यमुक्तवन्तः किल, हन्त यद्यनुमतिर्भवतां तर्हि तमात्मानं विचारयामः । यं विचारतो ज्ञात्वा सर्वाणि फलान्याप्नोतीत्युक्त्वा विद्याग्रहणायेन्द्रविरोचनौ प्रजापतिमाजग्मतुरित्यर्थः । चकारो बृहदारण्यकश्रुत्या छान्दोग्यश्रुतेः समुच्चयार्थः ।
श्रौतलिङ्गेनानुमानबाधं दर्शयित्वा स्मार्तेनापि तद्बाधं दर्शयति —
स्मार्तमिति ।
‘किमत्र ब्रह्म अमृतं किंस्विद्वेद्यमनुत्तमम् । चिन्तयेत्तत्र वै गत्वा गन्धर्वो मामपृच्छत ॥ विश्वावसुस्ततो राजा वेदान्तज्ञानकोविदः । ‘इति मोक्षधर्मे जनकयाज्ञवल्क्यसंवादात्प्रह्लादाजगरसम्बादाच्चोक्तानुमानासिद्धिरित्यर्थः ।