आदित्यादिशब्दानां ज्योतिर्मण्डलविषयत्वात्तस्याचेतनस्य विग्रहादिरहितस्य नाधिकारोऽस्तीत्युक्तं, तत्राह —
यदपीति ।
गोलकादिषु प्रयुक्तचक्षुरादिशब्दानामतिरिक्तेन्द्रियार्थत्ववदादित्यादिशब्दानां ज्योतिरादिषु प्रयोगेऽपि तदतिरिक्ते चेतने प्रवृत्तिरित्याह —
ज्योतिरिति ।
दृष्टान्तेऽतिरिक्तेन्द्रियसत्त्वे मानवत्प्रकृते तन्नास्तीत्याशङ्क्याह —
मन्त्रेति ।
यथा चेतने देवतात्मन्यादित्यादिशब्दस्तथा मन्त्रादिषु शाब्दव्यवहारादिति हेत्वर्थः ।
कथं तर्हि ज्योतिरादिष्वादित्यादिशब्दः, तत्राह —
अस्तीति ।
देवादीनामनेकरूपप्रतिपत्तियोगाच्चेतनाचेतनयोरादित्यादिशब्दानां मुख्यत्वसिद्धिरित्यर्थः ।
देवादीनां विविधविग्रहग्रहसामर्थ्ये मानमाह —
तथाहीति ।
सुब्रह्मण्यो नामोद्गातृगणप्रविष्टः कश्चिदृत्विग्विशेषस्तत्सम्बन्द्धार्थवादः ‘इन्द्र, आगच्छ’ इत्यादिः ।
तत्र मेधातिथेः मेष, इतीन्द्रसम्बोधनं मन्त्रपदं श्रुतं, तद्व्याचष्टे —
मेधेति ।
इन्द्रस्य नानाविग्रहयोगेऽपि देवतान्तरस्य किमित्याशङ्क्याह —
स्मर्यते चेति ।
धर्मो वायुरिन्द्रश्च पुरुषो भूत्वा तामेवोपजग्मुः अश्विनौ च पुरुषौ भूत्वा माद्रीमुपजग्मतुरिति महाभारते प्रसिद्धमित्यर्थः ।
यत्तु मृदादिवदचेतनत्वं, तत्राधिष्ठातृविवक्षया, अधिष्ठेयविवक्षया वाचेतनत्वम् । प्रथमं प्रत्याह —
मृदादिष्विति ।
तेष्वधिष्ठातृचेतनोपगमे मानमाह —
मृदिति ।
आदिशब्देन वागादिसंवादो गृहीतः ।
द्वितीये दार्ष्टान्तिकेऽपि तदिष्टमेवेत्याह —
ज्योतिरादेरिति ।
मृदादिष्वधिष्ठातृचैतन्ये मानवदत्र तदभावादधिष्ठेयवदधिष्ठातुरपि न चैतन्यमित्याशङ्क्याह —
चेतनास्त्विति ।