ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥
यदप्युक्तम्मन्त्रार्थवादयोरन्यार्थत्वान्न देवताविग्रहादिप्रकाशनसामर्थ्यमिति, अत्र ब्रूमःप्रत्ययाप्रत्ययौ हि सद्भावासद्भावयोः कारणम्; नान्यार्थत्वमनन्यार्थत्वं वातथा ह्यन्यार्थमपि प्रस्थितः पथि पतितं तृणपर्णाद्यस्तीत्येव प्रतिपद्यतेअत्राहविषम उपन्यासःतत्र हि तृणपर्णादिविषयं प्रत्यक्षं प्रवृत्तमस्ति, येन तदस्तित्वं प्रतिपद्यतेअत्र पुनर्विध्युद्देशैकवाक्यभावेन स्तुत्यर्थेऽर्थवादे पार्थगर्थ्येन वृत्तान्तविषया प्रवृत्तिः शक्याध्यवसातुम् हि महावाक्येऽर्थप्रत्यायकेऽवान्तरवाक्यस्य पृथक्प्रत्यायकत्वमस्तियथा सुरां पिबेत्इति नञ्वति वाक्ये पदत्रयसम्बन्धात्सुरापानप्रतिषेध एवैकोऽर्थोऽवगम्यते पुनः सुरां पिबेदिति पदद्वयसम्बन्धात्सुरापानविधिरपीतिअत्रोच्यतेविषम उपन्यासःयुक्तं यत्सुरापानप्रतिषेधे पदान्वयस्यैकत्वादवान्तरवाक्यार्थस्याग्रहणम्विध्युद्देशार्थवादयोस्त्वर्थवादस्थानि पदानि पृथगन्वयं वृत्तान्तविषयं प्रतिपद्य, अनन्तरं कैमर्थ्यवशेन कामं विधेः स्तावकत्वं प्रतिपद्यन्तेयथा हिवायव्यं श्वेतमालभेत भूतिकामःइत्यत्र विध्युद्देशवर्तिनां वायव्यादिपदानां विधिना सम्बन्धः, नैवम्वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति एवैनं भूतिं गमयतिइत्येषामर्थवादगतानां पदानाम् हि भवति, ‘वायुर्वा आलभेतइतिक्षेपिष्ठा देवता वा आलभेतइत्यादिवायुस्वभावसङ्कीर्तनेन तु अवान्तरमन्वयं प्रतिपद्य, एवं विशिष्टदैवत्यमिदं कर्मेति विधिं स्तुवन्तितद्यत्र सोऽवान्तरवाक्यार्थः प्रमाणान्तरगोचरो भवति, तत्र तदनुवादेनार्थवादः प्रवर्ततेयत्र प्रमाणान्तरविरुद्धः, तत्र गुणवादेनयत्र तु तदुभयं नास्ति, तत्र किं प्रमाणान्तराभावाद्गुणवादः स्यात् , आहोस्त्वित्प्रमाणान्तराविरोधाद्विद्यमानवाद इतिप्रतीतिशरणैर्विद्यमानवाद आश्रयणीयः, गुणवादःएतेन मन्त्रो व्याख्यातःअपि विधिभिरेवेन्द्रादिदैवत्यानि हवींषि चोदयद्भिरपेक्षितमिन्द्रादीनां स्वरूपम् हि स्वरूपरहिता इन्द्रादयश्चेतस्यारोपयितुं शक्यन्ते चेतस्यनारूढायै तस्यै तस्यै देवतायै हविः प्रदातुं शक्यतेश्रावयति यस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट्करिष्यन्’ (ऐ. ब्रा. ३ । ८ । १) इति; शब्दमात्रमर्थस्वरूपं सम्भवति, शब्दार्थयोर्भेदात्तत्र यादृशं मन्त्रार्थवादयोरिन्द्रादीनां स्वरूपमवगतं तत्तादृशं शब्दप्रमाणकेन प्रत्याख्यातुं युक्तम्इतिहासपुराणमपि व्याख्यातेन मार्गेण सम्भवन्मन्त्रार्थवादमूलकत्वात् प्रभवति देवताविग्रहादि साधयितुम्प्रत्यक्षादिमूलमपि सम्भवतिभवति ह्यस्माकमप्रत्यक्षमपि चिरंतनानां प्रत्यक्षम्तथा व्यासादयो देवादिभिः प्रत्यक्षं व्यवहरन्तीति स्मर्यतेयस्तु ब्रूयात्इदानींतनानामिव पूर्वेषामपि नास्ति देवादिभिर्व्यवहर्तुं सामर्थ्यमिति, जगद्वैचित्र्यं प्रतिषेधेत्इदानीमिव नान्यदापि सार्वभौमः क्षत्रियोऽस्तीति ब्रूयात्ततश्च राजसूयादिचोदना उपरुन्ध्यात्इदानीमिव कालान्तरेऽप्यव्यवस्थितप्रायान्वर्णाश्रमधर्मान्प्रतिजानीत, ततश्च व्यवस्थाविधायि शास्त्रमनर्थकं कुर्यात्तस्माद्धर्मोत्कर्षवशाच्चिरंतना देवादिभिः प्रत्यक्षं व्यवजह्रुरिति श्लिष्यतेअपि स्मरन्तिस्वाध्यायादिष्टदेवतासम्प्रयोगः’ (यो. सू. २ । ४४) इत्यादियोगोऽप्यणिमाद्यैश्वर्यप्राप्तिफलकः स्मर्यमाणो शक्यते साहसमात्रेण प्रत्याख्यातुम्श्रुतिश्च योगमाहात्म्यं प्रख्यापयतिपृथिव्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते तस्य रोगो जरा मृत्युः प्राप्तस्य योगाग्निमयं शरीरम्’ (श्वे. उ. २ । १२) इतिऋषीणामपि मन्त्रब्राह्मणदर्शिनां सामर्थ्यं नास्मदीयेन सामर्थ्येनोपमातुं युक्तम्तस्मात्समूलमितिहासपुराणम्लोकप्रसिद्धिरपि सति सम्भवे निरालम्बनाध्यवसातुं युक्तातस्मादुपपन्नो मन्त्रादिभ्यो देवादीनां विग्रहवत्त्वाद्यवगमःततश्चार्थित्वादिसम्भवादुपपन्नो देवादीनामपि ब्रह्मविद्यायामधिकारःक्रममुक्तिदर्शनान्यप्येवमेवोपपद्यन्ते ॥ ३३ ॥

मन्त्रादयो न स्वार्थे मानम् , अन्यपरवाक्यत्वात् , विषभक्षणवाक्यवदित्युक्तमनुवदति —

यदपीति ।

यस्मान्मानाद्यस्मिन्नबाधिता धीस्तस्मात्तद्भावः सिध्यति । यत्र तु यतो मानान्न तथा धीर्न ततस्तत्सिद्धिरित्युत्सर्गः ।

तथा च मन्त्रादिभ्योऽपि स्वार्थे चेदबाधिता धीस्ततस्तेषां तत्र प्रामाण्यमित्याह —

अत्रेति ।

अनन्यार्थत्वेे स्वार्थे प्रामाण्यमन्यथा नेत्युक्तमाशङ्क्याह —

नेति ।

न हि विषभक्षणवाक्यमन्यार्थत्वान्न स्वार्थे मानं किन्तु मानान्तरविरोधात् । अवेक्षणस्य च संस्कारार्थस्य स्वार्थपरिच्छेदकत्वात् । न च तथाविधं वाक्यं न परिच्छेदकं, संवादविसंवादयोरसतोरवान्तरतात्पर्यात्तत्परिच्छेदध्रौव्यात् । न चानन्यार्थत्वं प्रामाण्ये प्रयोजकम् , अबाधितस्वार्थज्ञाने तदभावेन प्रामाण्याभावादृष्टेरित्यर्थः ।

अन्यार्थत्वमप्रयोजकमित्यत्र दृष्टान्तमाह —

तथाहीति ।

प्रतिसंयोगिवस्तुतात्पर्यानपेक्षमेव मानं चक्षुः ।

वाक्यं तु यत्र तात्पर्यं तत्र मानं न प्रत्यर्थमिति वैशेष्यमाह —

अत्रेति ।

विध्युद्देशो विधिवाक्यं, विधिरुद्दिश्यतेऽनेेनेति व्युत्पत्तेः । स्तुत्यर्थत्वं विधेः प्राशस्त्यलक्षणापरत्वम् । वृत्तान्तो भूतार्थः ।

महावाक्यावान्तरवाक्यभेदेन पृथक्प्रत्यायकत्वं मन्त्रादेर्विधेश्चेत्याशङ्क्याह —

नहीति ।

तत्र दृष्टान्तः —

यथेति ।

पदद्वयसम्बन्धाद्विधिरपि तत्र भाति, अप्राप्तनिषेधायोगादित्याशङ्क्याह —

नेति ।

न प्रत्ययमात्रादर्थसिद्धिः, तत्प्रत्ययस्य रागप्राप्ततया भ्रमत्वात् , तत्प्राप्तस्य च रजतादिवन्निषेधादित्यर्थः ।

यद्यपि पदैकवाक्यतायां नार्थान्तरधीर्विशिष्टबोधनप्रयुक्तपदानामन्यत्रापर्यवसानात् , तथापि वाक्यैकवाक्यतायां द्वारार्थे वाक्यार्थधीः । यथा देवदत्तस्य गौः क्रेतव्या बहुक्षीरेत्युक्ते बहुक्षीरत्वद्वारा क्रयणे तात्पर्यमित्युभयं तात्पर्यभेदाद्भाति तथेहापीत्याह —

अत्रेति ।

आर्थवादिकानां पदानां साक्षादेव विध्यन्वये किमिति पृथगन्वयप्रतिपत्तिः, तत्राह —

यथाहीति ।

अर्थवादस्थपदानां विधिना साक्षादसम्बन्धे योग्यत्वाभावं हेतुमाह —

नहीति ।

कथं तर्हि विधिना तेषामन्वयः, तत्राह —

वाय्विति ।

अध्ययनविध्युपात्तस्याक्षरमात्रस्यापि नैष्फल्यायोगात्तत्फलाकाङ्क्षायामर्थवादानां विधेयस्तुतिलक्षणया तदेकवाक्यत्वम् । न चान्वयभेदेऽपि वाक्यभेदः, तात्पर्यभेदस्य तद्भेदकस्याभावादित्यर्थः ।

तर्हि सर्वत्रार्थवादानां स्वार्थे प्रामाण्यात् ‘अग्निर्हिमस्य’ इत्याद्यपि स्वार्थे प्रमाणं, नेत्याह —

तदिति ।

मानान्तरसंवादाभावात् ‘आदित्यो यूपः’ इत्यादीनां स्वार्थे प्रमाण्यमाशङ्क्योक्तम् —

यत्रेति ।

'वज्रहस्तः पुरन्दरः’ इत्यादिषु संवादविसंवादयोरभावेऽपि सन्देहान्न स्वार्थे मानतेत्याशङ्क्याह —

यत्र त्विति ।

इतिशब्दादूर्ध्वं विचार्येत्यध्याहार्यम् । उक्तं हि - ‘विरोधे गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः ॥ ‘ इति । यत्र विद्यमानार्थत्वं तत्र संवादो दृष्टः । प्रकृते तदभावात्किं गुणवादः ।

किंवा यत्र विरोधस्तत्रैव तद्दृष्टेरिह तदभावाद्विद्यमानार्थतेति सन्देहे मानानां स्वतो मानत्वाद्विद्यमानार्थता, सति च मुख्ये गुणानाश्रयणादर्थवादवाक्यानि स्वार्थप्रमितावनन्यार्थान्येव फलवशादन्यार्थानि, विधिप्रकरणस्थानुवादविरोधविधुरवाक्यत्वात् , प्रयाजादिवाक्यवदित्यनुमानादित्याह —

प्रतीतीति ।

अर्थवादानां संवादविसंवादासत्त्वे स्वार्थे प्रामाण्योक्त्या मन्त्राणामपि तदुक्तमेवेत्यतिदिशति —

एतेनेति ।

तस्यापि संवादाद्यभावे स्वार्थे मानत्वाविशेषात्प्रतीते देवतारूपे प्रामाण्यमावश्यकमित्यर्थः ।

न केवलं मन्त्रादिप्रमाणकमेव देवतारूपं विधिप्रमाणकमपीत्युपादानं प्रमाणयति —

अपि चेति ।

यथा स्वर्गकामवाक्ये विध्यपेक्षितं स्वर्गरूपं ‘यन्न दुःखेन सम्भिन्नम्’ इत्यर्थवादसिद्धं विधिप्रमाणकं तथा यागविधिनैव देवतारूपापेक्षणादर्थवादादिसिद्धमपि तद्रूपं तत्प्रमाणकमेवेत्यर्थः ।

कथमिन्द्रादिस्वरूपापेक्षा विधीनां, ते हि करणेतिकर्तव्यताभाव्यमात्रापेक्षिणः, तत्राह —

न हीति ।

दर्शपूर्णमासाधिकारपाठात्प्रयाजाद्यनुष्ठानादेवापूर्वसिद्धिः । तथौत्सर्गिकप्रतीतिकार्यार्थवादप्रमितदेवताप्रमितिमतो यागादपूर्वसिद्धिरविशेषादित्यर्थः ।

चेतसि देवतारूपारोपणमपि मा भूत् , तत्सम्प्रदानकहविर्दानकस्य तदपेक्षात्वाभावादित्याशङ्क्याह —

न चेति ।

देवतामुद्दिश्य हविरवमृश्य तदीयस्वत्वत्यागात्मकत्वाद्यागस्येत्यर्थः ।

न केवलं यागदेहालोचनया चेतसि देवतारोपः, किन्तु श्रूयमाणत्वाच्चेत्याह —

श्रावयतीति ।

विध्यपेक्षायां मन्त्रादिभ्यो देवताविग्रहादि ग्राह्यं, तदपेक्षैव नास्ति, शब्दरूपस्यैव देवतात्वात् , तस्य च मानान्तरसिद्धत्वात् , तत्राह —

न चेति ।

विमता बुद्धिः शब्यातिरिक्तार्थाकारा, कारकबुद्धित्वात् , कर्तृबुद्धिवत् । न च मन्त्ररूपकारकबुद्धौ व्यभिचारः, तथापि ‘ऐन्द्र्या गार्हपत्यम्‘ इत्यादिकारकत्ववादिशब्दातिरिक्तमन्त्ररूपार्थाकारबुद्धित्वोपगमादिति भावः ।

ननु तथापि देवतारूपज्ञानमुद्देशोऽपेक्षते, न तद्रूपसत्त्वम् , आरोपादपि तद्धीयोगाद्योषिदग्निधीवत् , तत्राह —

तत्रेति ।

दृष्टस्यासति बाधके न मिथ्यात्वम् । न च कर्मणो देवतागुणत्वात्तस्मादेव फलोत्पादे यागस्य फलवत्त्वविरोधः, अपूर्ववद्देवताप्रसादस्यापि यागावान्तरव्यापारत्वादित्यर्थः ।

न केवलं मन्त्रार्थवादेभ्यो देवताविग्रहादिसिद्धिः किं त्वितिहासपुराणादपीत्याह —

इतिहासेति ।

मन्त्रादावुक्तप्रामाण्यप्रकारो व्याख्यातो मार्गः ।

न केवलं मन्त्राद्येव तन्मूलं किं तु प्रत्यक्षाद्यपीत्याह —

प्रत्यक्षादीति ।

ननु न तत्तस्य मूलं, न हि देवादिविषयमस्मदादीनामस्ति प्रत्यक्षं, तत्राह —

भवतीति ।

व्यासादीनां तद्विषयं प्रत्यक्षमस्तीत्यत्र मानमाह —

तथा चेति ।

न चार्षं प्रत्यक्षमितिहासादिसिद्धं तच्च तन्मूलतया मानमित्यन्योन्याश्रयत्वं, आर्षप्रत्यक्षस्य योगिप्रत्यक्षान्तर्भूतस्यानुमानागमाभ्यामेव सिद्धत्वात् , इतिहासादौ च तन्मूलत्वव्यक्तीकरणाय तदनुवादादित्यर्थः ।

ननु पूर्वेऽपि व्यासादयो न देवादीन्प्रत्यक्षयन्ति, प्राणित्वात् , अस्मदादिवदित्यनुमानान्न योगिप्रत्यक्षं तन्मूलमिति शङ्कते —

यस्त्विति ।

सामान्यतो दृष्टमतिप्रसक्त्या प्रत्याचष्टे —

स इति ।

विमतं घटमात्रं, वस्तुत्वात् , घटवदित्यपि सम्भवादित्यर्थः ।

अतीतानागतौ कालौ, सार्वभौमशून्यौ, कालत्वात् , वर्तमानवदित्यतिप्रसङ्गान्तरमाह —

इदानीमिवेति ।

तत्रापि सिद्धसाध्यत्वं प्रत्याह —

ततश्चेति ।

विमतः कालोऽव्यवस्थितप्रायवर्णाश्रमशाली, कालत्वात् , संमतवदित्यतिप्रसङ्गान्तरमाह —

इदानीमिवेति ।

तत्रापि सिद्धसाध्यत्वमाशङ्क्याह —

ततश्चेति ।

व्यवस्थाविधायि तत्तद्युगेषु तत्तद्वर्णाश्रमयोगितया तत्तदसङ्कीर्णधर्मबोधकमित्यर्थः ।

सामान्यतो दृष्टस्यातिप्रसक्तिप्रहतत्वे फलितमाह —

तस्मादिति ।

इष्टदेवतासाक्षात्कारोद्देशेन जपविधानादपि युक्तमेतदित्याह —

अपि चेति ।

आदिपदेन संयोगफलं देवतासाक्षात्कारस्तत्फलं व्यवहारश्चोच्यते ।

योगशास्त्रादपि योगिनो देवतादिभिः सह प्रत्यक्षं व्यवहरन्तीति दृष्टमित्याह —

योगोऽपीति ।

न केवलं योगशास्त्राद्योगमाहात्म्यधीः किं तु श्रुतेरपीत्याह —

श्रुतिश्चेति ।

पादतलमारभ्याजानोर्जानोरानाभेर्नाभेराग्रीवं ग्रीवायाश्चाकेशप्ररोहं ततश्चाब्रह्मरन्ध्रं क्रमेण पृथिव्यादिधारणया पृथिव्यादिपञ्चात्मके भूतसमुदाये समुत्थिते प्रतिपत्तिद्वारा वशीकृते योगगुणे चाणिमादौ प्रवृत्ते योगाभिव्यक्तं तेजोमयं देहं प्राप्तस्य योगिनो न जरादिसङ्गतिरित्यर्थः ।

किञ्च मन्त्रादिदृशामृषीणां शक्तिरस्मदादिशक्तिसदृशी नेत्यभ्युपगन्तव्यम् । तथा व्यासादीनामपि शक्तेरस्मदादिशक्त्यतिशायितया न तत्प्रत्यक्षं प्रतिक्षेप्तुं शक्यमित्याह —

ऋषीणामिति ।

सिद्धे व्यासादीनामतीन्द्रियार्थदर्शित्वे फलितमाह —

तस्मादिति ।

तथा चेतिहासादिप्रामाण्याद्धेवताविग्रहादिपञ्चकसिद्धिरित्यर्थः ।

लोकप्रसिद्ध्यापि तत्सिद्धिरित्याह —

लोकेति ।

प्रमाणस्यादुष्टत्वे प्रमेयसिद्धिरवश्यम्भाविनीत्यवान्तरप्रकृतमुपसंहरति —

तस्मादिति ।

तेषां विग्रहवत्त्वादौ सिद्धे प्रकृते किमित्याशङ्क्य परमप्रकृतमुपसंहरति —

ततश्चेति ।

किञ्च ब्रह्मलोकादिप्राप्तानां देवादिभावं प्राप्तानां तत्रोत्पन्नापरोक्षधियां मुक्तिवादीन्यपि श्रुतिस्मृतिवाक्यानि देवादीनामधिकारं सूचयन्तीति तेषां विद्याधिकारे श्रूतार्थापत्तिमाह —

क्रमेति ॥ ३३ ॥