मनुष्याधिकारनियमापवादेन देवादीनामधिकारवद्विजात्यधिकारनियमं निरस्य शूद्रस्यापि स्यादधिकारः, संवर्गविद्याधिकारिणी जानश्रुतौ शूद्रशब्दादित्याशङ्क्याह —
शुगस्येति ।
प्रासङ्गिकीं सङ्गतिं वदन्नधिकरणस्य तात्पर्यमाह —
यथेति ।
पूर्वत्रात्रैवर्णिकदेवाद्यधिकारोक्त्या मन्त्रादीनां स्वार्थे समन्वयः साधितः । सम्प्रति विद्याधिकारिणि शूद्रशब्ददृष्टेर्जातिशूद्रस्यापि विद्याहेतुवेदान्तविचारादिष्वधिकारमाशङ्क्य शूद्रशब्दस्य क्षत्रिये समन्वयोक्तेरेतदध्यायान्तर्भावोऽस्य युक्तः । अर्थवादिकशूद्रशब्दस्यैव पौर्वापर्यालोचनया वेदान्तानां स्वार्थे समन्वयसिद्धेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे जातिशूद्रस्यापि ब्रह्मविद्यायां त्रैवर्णिकादविशेषः, सिद्धान्ते ततो विशेषः फलति । ब्रह्मविद्या विषयः ।
तस्यां शूद्रस्याधिकारोऽस्ति न वेत्यधिकारहेतुसत्त्वासत्त्वाभ्यां सन्देहे पूर्वपक्षयति —
तत्रेति ।
सत्यपि लौकिके सामर्थ्ये शास्त्रीयसामर्थ्याभावादनधिकारमाशङ्क्याह —
तस्मादिति ।
अनग्नित्वादित्यर्थः । अनवक्लृप्तत्वमयोग्यत्वम् ।
कर्मानधिकारे तेनैव न्यायेन विद्यायामपि नाधिकारः, तत्राह —
यच्चेति ।
किमाहवनीयाद्यभावादनधिकारः शूद्रस्य विद्यायामुच्यते, किंवाऽधिकारे मानाभावात् । तत्राद्यं दूषयति —
नहीति ।
विद्याया दृष्टसाधनत्वादाहवनीयादेस्तत्राकिञ्चित्करत्वात्तद्रहितस्यापि तद्धेतुमतस्तत्प्राप्तिरिति भावः ।
द्वितीयं निराह —
भवतीति ।
अहेति खेदार्थो निपातः । हारेण सहित इत्वा रथः स तवैव हे शूद्र, गोभिः सहास्तु, किमनेनात्यल्पेन गार्हस्थ्यं निर्वोढुमसमर्थेनेति रैक्वो जानश्रुतिं विद्याधिकारिणं शूद्रशब्देनोक्तवानित्यर्थः ।
न केवलं शूद्राधिकारे श्रौतं लिङ्गं, स्मार्तमपीत्याह —
विदुरेति ।
अर्थित्वादिमतः साधने फलवति स्वाभाविकी प्रवृत्तिरितिन्यायानुगृहीतेन ‘तद्यो यो देवानाम्’ इति ब्रह्मधीसम्बन्धलिङ्गेन देवादीनामधिकारो यथोक्तस्तथात्राप्यर्थित्वादिमतः शूद्रशब्देन परामर्शलिङ्गादस्त्यधिकारस्तस्येत्युपसंहरति —
तस्मदिति ।
सूत्राद्बहिरेव सिद्धान्तयति —
एवमिति ।