अध्ययनाभावेऽपि किमित्यधिकारो विद्याहेतुषु नेष्यते, तत्राह —
अधीतेति ।
साङ्गाध्ययनविधिरदृष्टसंस्कारसहितवेदवाक्योत्थप्रमितिमत एवोत्तरविधिष्वधिकारो नान्यस्येति नियमयन्वैदिकेषु ब्रह्मधीफलपर्यन्तोपायविधिषु शूद्रस्यानधीयानस्याधिकारं वारयतीति भावः ।
अध्ययनमपि तर्हि तस्य किं न स्यात् , तत्राह —
न चेति ।
उपनयनमपि तस्य स्यादित्याशङ्क्याह —
उपनयनस्येति ।
वक्ष्यते हि तस्य वर्णत्रयविषयत्वम् ।
यदुक्तमर्थित्वसामर्थ्ययोः सम्भवादिति, तत्रार्थित्वमुपेत्य सामर्थ्यं प्रत्याह —
यत्त्विति ।
सामर्थ्यमपि तस्य सम्भवतीत्याशङ्क्य लौकिकं वैदिकं वेति विकल्प्याद्यं निराह —
सामर्थ्यमिति ।
ननु लिखितपाठादिना प्राप्तस्वाध्यायादर्थधीयोगादस्ति तस्य वैदिकमपि सामर्थ्यम् । न च निषिद्धाध्ययनाद्दुरितोदयभयान्न प्रवर्तते लिखितपाठादिजनितविद्यया तन्निबर्हणात् , तत्राह —
शास्त्रीयस्येति ।
लिखितपाठादिजन्यविद्यया दुरितनिवृत्तावध्ययनविध्यानर्थक्यान्मैवमित्यर्थः ।
यत्तु ‘शूद्रो विद्यायामनवक्लृप्तः’ इति पर्युदासो न श्रुत इति, तत्राह —
यच्चेति ।
संस्कृतवेदार्थज्ञानाभावेनासामर्थ्यस्य यज्ञवज्ज्ञानेऽपि तुल्यत्वाद्यज्ञोक्तेरुपलक्षणत्वादनधिकारो ज्ञानेऽपि वाचनिकः शूद्रस्येत्याह —
न्यायस्येति ।
पूर्वपक्षबीजमनुभाष्य दूषयति —
यदिति ।
तदभावेऽपि स्वतन्त्रमेव लिङ्गदर्शनं द्योतकमित्याशङ्क्याह —
न्यायेति ।
‘निषादस्थपतिं याजयेत् ‘ इतिवच्चोदनाभावादर्थवादस्थशूद्रशब्दस्य चान्यतः सिद्धार्थावद्योतिनः स्वतोऽप्रापकत्वादन्यपरस्य मानान्तराविरोध एव प्रामाण्यादत्र न्यायविरोधस्योक्तत्वादसाधकं लिङ्गमित्यर्थः ।
शूद्राधिकारेऽपि तर्हि लिङ्गानुग्राहको न्यायोऽस्तु, नेत्याह —
न चेति ।
किञ्चार्थवादवशाद्विद्यामात्रे वा शूद्राधिकारः, संवर्गविद्यायामेव वा । नाद्य इत्याह —
कामं चेति ।
तद्विषयत्वात्संवर्गविद्याविषयार्थवादस्थत्वादस्येति यावत् ।
संवर्गविद्याधिकारे शूद्रशब्दसिद्धे विद्यात्वादन्यत्रापि तदधिकारोऽस्त्विति द्वितीयमाशङ्क्याह —
अर्थवादेति ।
तर्हि वैदिकशूद्रपदस्यानर्थक्यमित्याशङ्क्य सूत्रं योजयति —
शक्यते चेति ।
जात्यन्तरे रूढस्य कथमन्यार्थतेति शङ्कते —
कथमिति ।
यौगिकार्थसन्निधावदृष्टरूढिग्रहाद्वरं दृष्टयोगग्रहणमित्याह —
उच्यत इति ।
जानश्रूती राजा बहुविधान्नपानदानशूरो ग्रीष्मे रात्रौ हर्म्ये सुष्वाप । तस्योर्ध्वमन्तरिक्षे दृष्टिगोचरं हंसेषु गच्छत्सु पृष्ठगामी हंसो हंसमग्रेसरं प्रत्युवाच, किं न पश्यसि परमधार्निकस्य जानश्रुतेर्ज्योतिर्द्युलोकसंलग्नं तत्त्वां धक्ष्यतीति । ततः सोऽब्रवीत्कमेनं वराकं प्राणिमात्रं सन्तमरे सयुग्वानमिव रैक्वमेतद्वचनं ब्रवीषि । उशब्दोऽवधारणे । युग्वा गन्त्री तया सह वर्तते यो रैक्वः । यस्य धीफले कर्मफलं सर्वमन्तर्भूतं स एवैतदुक्तियोग्यो नायमज्ञो राजेत्यर्थः ।
श्रुतिमेतामाश्रित्य शुगस्येत्याद्यक्षराणि योजयति —
इत्यस्मादिति ।
उत्पन्नशोकसूचनमनुपयोगीत्याशङ्क्याह —
आत्मन इति ।
शूद्रशब्दस्य मुख्यार्थत्यागे हेतुमाह —
जातीति ।
तदाद्रवणादित्यस्य शङ्कामाह —
कथमिति ।
व्याख्येयमादाय त्रिधा व्याख्याति —
उच्यतइति ।
शुचं शोकमभिदुद्राव प्राप्तवानित्यर्थः । शुचा वा कर्त्र्या स्वयमभिदुद्रुवे प्राप्त इत्यर्थः । शुचा वा करणभूतया रैक्वं गतवानित्यर्थः । एवं तावत्तदाद्रवणादिति तच्छब्देन शुग्जानश्रुती रैक्वो वा गृह्यते ।
उक्तव्युत्पत्त्या शूद्रशब्दस्याधिकृतार्थत्वे पूर्वोक्तं न्यायं सूचयति —
अवयवेति ।
हंसवाक्यादात्मनोऽनादरं श्रुत्वा जानश्रुतेः शुगुत्पन्नेत्येतदेव कथं गम्यते, येनासौ शूद्रशब्देन सूच्यते, तत्राह —
दृश्यते चेति ॥ ३४ ॥