शूद्रशब्दस्य यौगिकत्वे हेत्वन्तरमाह —
क्षत्रियत्वेति ।
चशब्दार्थमाह —
इतश्चेति ।
हेत्वन्तरमेव स्फोरयति —
यदिति ।
कथमभिप्रतारिणश्चैत्ररथित्वं, चैत्ररथस्य वा कथं क्षत्रियत्वं, कथं वा जानश्रुतेस्तेन समभिव्याहारः, तस्मिन्सत्यपि वा कथं तस्य क्षत्रियत्वं, तदाह —
उत्तरत्रेति ।
संवर्गविद्याविध्यनन्तरमर्थवादारम्भार्थोऽथशब्दः । हशब्दो वृत्तान्तावद्योती । शौनकः शुनकस्यापत्यं कापेयं कपिगोत्रं पुरोहितमभिप्रतारिणं च नाम्ना राजानं काक्षसेनिं कक्षसेनस्यापत्यं तौ भोक्तुमुपविष्टौ सूदेन परिविष्यमाणौ ब्रह्मचारी, भिक्षितवानित्यर्थः ।
ब्रह्मचारिभिक्षयास्याऽशूद्रत्वेऽपि कथं चैत्ररथित्वं, तदाह —
चैत्रेति ।
कापेययोगेऽपि कथं तस्य चैत्ररथित्वप्रथा, तत्राह —
कापेयेति ।
अवगतिमेव छान्दोग्यश्रुत्या स्फुटयति —
एतेनेति ।
द्विरात्रेणेति यावत् ।
चित्ररथस्य कापेययोगेऽपि कथमभिप्रतारिणश्चैत्ररथित्वं, तत्राह —
समानेति ।
चित्ररथस्य याजकेन कापेयेन योगाद्याज्योऽभिप्रतारी चैत्ररथिः सिद्धः, तत्तत्पुरोहितवंश्यानामेव तत्तद्राजवंश्येषु प्रायो याजकत्वात् । चैत्ररथित्वाच्च क्षत्रियोऽभिप्रतारि, चित्ररथस्य क्षत्रित्वात्तद्वंश्यस्य तद्योगादित्यर्थः ।
वचनादपि तस्य क्षत्रियत्वमित्याह —
तस्मादिति ।
चित्ररथादित्यर्थः ।
तथापि क्षत्रियत्वे किं जातं जानश्रुतेरित्याशङ्क्याह —
तेनेति ।
समभिव्याहारेऽपि कुतोऽस्य क्षत्रियत्वं, तत्राह —
समानानामिति ।
शिष्याचार्ययोः स्वामिभृत्ययोश्च समभिव्याहारेऽपि वैषम्यमस्तीति प्रायेणेत्युक्तम् ।
तस्य क्षत्रियत्वे हेत्वन्तरमाह —
क्षत्त्रिति ।
आदिशब्देन गोदानादिसङ्ग्रहः ।
क्षत्रियत्वे संवर्गविद्याधिकारिणः सिद्धे फलितमाह —
अत इति ॥ ३५ ॥