ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
संस्कारपरामर्शात्तदभावाभिलापाच्च ॥ ३६ ॥
इतश्च शूद्रस्याधिकारः, यद्विद्याप्रदेशेषूपनयनादयः संस्काराः परामृश्यन्तेतं होपनिन्ये’ (श. ब्रा. ११ । ५ । ३ । १३) धीहि भगव इति होपससाद’ (छा. उ. ७ । १ । १) ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष वै तत्सर्वं वक्ष्यतीति ते समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः’ (प्र. उ. १ । १) इति तान्हानुपनीयैव’ (छा. उ. ५ । ११ । ७) इत्यपि प्रदर्शितैवोपनयनप्राप्तिर्भवतिशूद्रस्य संस्काराभावोऽभिलप्यते शूद्रश्चतुर्थो वर्ण एकजातिः’ (मनु. स्मृ. १० । ४) इत्येकजातित्वस्मरणात् शूद्रे पातकं किञ्चिन्न संस्कारमर्हति’ (मनु. स्मृ. १० । १२ । ६) इत्यादिभिश्च ॥ ३६ ॥

शूद्रस्यानधिकारे लिङ्गान्तरमाह —

संस्कारेति ।

चशब्दार्थमाह —

इतश्चेति ।

हेत्वन्तरं स्फोरयति —

यदिति ।

आदिशब्देनाध्ययनाचार्यशुश्रूषादयो गृह्यन्ते ।

परामर्शं विशदयति —

तं हेति ।

विद्यार्थिनं शिष्यमाचार्यः किलोपनीतवान् । अनुपनीताय विद्यादानायोगादिति यावत् ।

सनत्कुमारं प्रति नारदोऽपि विद्यार्थी मन्त्रमुच्चारयन्नुपसत्तिं कृतवानित्याह —

अधीहीति ।

भारद्वाजादयः षड्ऋषयः परं ब्रह्म परत्वेनावगतवन्त इति ब्रह्मपरास्तद्ध्याननिष्ठाश्च ब्रह्मनिष्ठाः, परं च परमार्थभूतं ब्रह्म विचारयन्तो निर्णयार्थमेष पिप्पलादस्तज्जिज्ञासितं सर्वं वक्ष्यतीति निश्चित्य रिक्तहस्तानां गुरूपगमनायोगं मन्यमानाः समित्पाणयस्तमुपसन्नाः किलेत्याह —

ब्रह्मेति ।

अनुपनीतानामपि वैश्वानरविद्यायामधिकारश्रुतेरनियतमुपनयनमित्याशङ्क्याह —

तानिति ।

औपमन्यवप्रभृतीन्ब्राह्मणाननुपनीयैवाश्वपती राजोवाचेति निषेधात्तस्य प्राप्तिपूर्वत्वात्प्राप्तोपनयनानां द्विजानामेवाधिकार इत्यर्थः ।

संस्कारपरामर्शादिति व्याख्यायावशिष्टं व्याचष्टे —

शूद्रस्येति ।

एकजातिरुपनयनरहितः । पातकं भक्ष्याभक्ष्यविभागाभावकृतम् । आदिशब्देन ‘पद्यु ह वा एतत् ‘ इत्यादि गृह्यते ॥ ३६ ॥