ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
तदभावनिर्धारणे च प्रवृत्तेः ॥ ३७ ॥
इतश्च शूद्रस्याधिकारः; यत्सत्यवचनेन शूद्रत्वाभावे निर्धारिते जाबालं गौतम उपनेतुमनुशासितुं प्रववृतेनैतदब्राह्मणो विवक्तुमर्हति समिधं सोम्याहरोप त्वा नेष्ये सत्यादगाः’ (छा. उ. ४ । ४ । ५) इति श्रुतिलिङ्गात् ॥ ३७ ॥

शूद्रस्य विद्यानधिकारे लिङ्गान्तरमाह —

तदभावेति ।

चकारार्थमाह —

इतश्चेति ।

तदेव स्फुटयति —

यदिति ।

सत्यकामो जाबालो ब्रह्मचर्यकालमालक्ष्य प्रमीतपितृकः स्वां मातरं जबालामपृच्छत् , भगवति, कस्यचिद्‌गुरोरावासमासाद्य ब्रह्मचर्यमाचरितुमिच्छामि, ब्रवीतु भवती किङ्गोत्रोऽहमिति । सा तु त्वत्पितृपरिचरणपरतया नाहं तदवेदिषं, जबालाहमस्मि त्वं जाबालोऽसीत्येतावदवगतमवादीत् । ततः सत्यकामो गौतममभ्येत्याभ्यभाषत, ब्रह्मचर्यं भगवति चरितुमिच्छाम्यनुगृह्णातु मां भवानिति । ततो गौतमेन किङ्गोत्रोऽसीति पृष्टो नाहं वेद, नापि मातेति तेनोक्ते तदीयसत्यवचनेन शूद्रस्य मायावित्वयोगात्तदशूद्रत्वे सिद्धे तमुपनेतुमध्यापयितुं चाचार्यो यस्मात्प्रवृत्तस्तस्मान्न शूद्रस्याधिकारोऽस्तीत्यर्थः ।

कथमुक्तनीत्या गौतमस्य प्रवृत्त्यौन्मुख्यं, तत्राह —

नेति ।

एतत्सत्यवचनं विवक्तुं विविच्य निःसन्दिग्धं वक्तुमित्येतत् । ‘न सत्यादगाः’ सत्यवचनान्नातिगतोऽसीत्यर्थः ॥ ३७ ॥