श्रौतमिव लिङ्गं शूद्रस्य विद्यानधिकारे स्मार्तं तद्दर्शयति —
श्रवणेति ।
तद्व्याकरोति —
इतश्चेति ।
उक्तमेव विभजते —
वेदेति ।
तत्र श्रवणप्रतिषेधं स्वहस्तयति —
श्रवणेति ।
पठ्यमानं वेदं समीपे प्रमादादेव श्रृण्वतः शूद्रस्य प्रत्यवायप्रायश्चित्तालोचनायां सीसलाक्षाभ्यां सन्तप्ताभ्यामतिद्रुताभ्यां श्रोत्रद्वयपूरणं कार्यमित्यर्थः । पद्यु पदा युक्तम् । सञ्चारसमर्थमिति यावत् ।
श्रवणनिषेधादेवार्थादध्ययननिषेधोऽपि सिध्यतीत्याह —
अत इति ।
तदेव स्फुटयति —
यस्येति ।
न केवलमार्थिकोऽध्ययननिषेधः, श्रौतश्चेत्याह —
भवतीति ।
अध्ययननिषेधानुपपत्त्या ज्ञानानुष्ठानयोरपि स सिध्यतीत्याह —
अत इति ।
साक्षादपि ज्ञाननिषेधमाह —
भवतीति ।
अनुष्ठाननिषेधमपि शाब्दं दर्शयति —
द्विजातीनामिति ।
दानमत्र नित्यमिष्टं, नैमित्तिकस्य शूद्रेऽपि योगात् ।
यत्तु विदुरादीनां ज्ञानित्वं स्मृतिसिद्धमिति, तत्राह —
येषामिति ।
साधकस्याधिकारचिन्ता न सिद्धस्येत्याह —
तेषामिति ।
विदुरादीनां ज्ञानाभावस्य स्मृतिविरोधेन दुर्वचत्वादुत्पन्नज्ञानानां तेषां मुक्तिरेव । सामग्र्याः साध्याव्यभिचारादित्यर्थः ।
कुतस्तर्हि शूद्राणां ज्ञानोत्पत्तिः, तत्राह —
श्रावयेदिति ।
कुत्र तर्हि तदधिकारो वार्यते, तत्राह —
वेदेति ।
आर्थवादिकशूद्रशब्दस्योक्तनीत्या क्षत्रियेऽन्वयान्न जातिशूद्रस्य वेदद्वाराधिकारो विद्यायामित्युपसंहरति —
इति स्थितमिति ॥ ३८ ॥