ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
कम्पनात् ॥ ३९ ॥
अवसितः प्रासङ्गिकोऽधिकारविचारःप्रकृतामेवेदानीं वाक्यार्थविचारणां प्रवर्तयिष्यामःयदिदं किञ्च जगत्सर्वं प्राण एजति निःसृतम्महद्भयं वज्रमुद्यतं एतद्विदुरमृतास्ते भवन्ति’ (क. उ. २ । ३ । २) इति एतद्वाक्यम्एजृ कम्पनेइति धात्वर्थानुगमाल्लक्षितम्अस्मिन्वाक्ये सर्वमिदं जगत् प्राणाश्रयं स्पन्दते, महच्च किञ्चिद्भयकारणं वज्रशब्दितमुद्यतम् , तद्विज्ञानाच्चामृतत्वप्राप्तिरिति श्रूयतेतत्र, कोऽसौ प्राणः, किं तद्भयानकं वज्रम् , इत्यप्रतिपत्तेर्विचारे क्रियमाणे, प्राप्तं तावत्प्रसिद्धेः पञ्चवृत्तिर्वायुः प्राण इतिप्रसिद्धेरेव चाशनिर्वज्रं स्यात्वायोश्चेदं माहात्म्यं सङ्कीर्त्यतेकथम् ? सर्वमिदं जगत् पञ्चवृत्तौ वायौ प्राणशब्दिते प्रतिष्ठाय एजतिवायुनिमित्तमेव महद्भयानकं वज्रमुद्यम्यतेवायौ हि पर्जन्यभावेन विवर्तमाने विद्युत्स्तनयित्नुवृष्ट्यशनयो विवर्तन्त इत्याचक्षतेवायुविज्ञानादेव चेदममृतत्वम्तथा हि श्रुत्यन्तरम् — ‘वायुरेव व्यष्टिर्वायुः समष्टिरप पुनर्मृत्युं जयति एवं वेदइतितस्माद्वायुरयमिह प्रतिपत्तव्यः इत्येवं प्राप्ते ब्रूमः

बहुलिङ्गविरोधादेकस्य शूद्रशब्दस्य मुख्यार्थबाधवद्वायुसहितजगत्कम्पनाश्रयत्वभयहेतुत्वामृतत्वसाधनत्वलिङ्गैर्बहुभिर्विरोधात्प्राणश्रुतेरेकस्या मुख्यार्थत्यागमाह —

कम्पनादिति ।

आपादसमाप्तेरुत्तरसन्दर्भस्य सङ्गतिमाह —

अवसित इति ।

अस्याधिकरणस्योदाहरणतया काठकवाक्यं पठति —

यदिति ।

यत्किञ्चेदमविशिष्टं जगत्तत्सर्वं प्राणे निमित्ते सत्येजति चेष्टते । तच्च तस्मादेव निःसृतमुत्पन्नम् । तच्च प्राणाख्यं जगत्कारणं महदपरिच्छिन्नं बिभेत्यस्मादिति भयम् ।

तदेव भयहेतुत्वं निरूपयति —

वज्रमिति ।

उद्यतं वज्रमिवेत्यर्थः ।

प्राणतत्त्वधियोऽमृतत्वहेतुत्वमाह —

य इति ।

सूत्राक्षराननुगमान्नेदमुदाहरणमित्याशङ्क्याह —

एतदिति ।

एजतिधात्वर्थस्य कम्पनस्य सूत्रणादेजतिपदयुक्तमेतद्वाक्यं सूत्रितमित्यर्थः ।

वाक्ये प्रातीतिकमर्थं सङ्क्षिप्याह —

अस्मिन्निति ।

सहेतुकं संशयमुक्त्वा श्रुत्या पूर्वपक्षयति —

तत्रेत्यादिना ।

‘शब्दादेव प्रमितः’ इत्यत्र ब्रह्मवाक्ये जीवानुवादो ब्रह्मैक्यज्ञानायेत्युक्तम् । इह तु प्राणस्य स्वरूपेण कल्पितस्य न ब्रह्मैक्यं, यतोऽनूद्येत, तस्मादुपास्तिविधिरिति प्रत्यवस्थीयते । सिद्धान्ते तु निर्विशेषे ब्रह्मण्युक्तश्रुत्यन्वयादस्ति श्रुत्यादिसङ्गतिः । फलं तु पूर्वोत्तरपक्षयोरुपास्तिर्ज्ञानं चेति ।

नन्वतिदेशाधिकरणे प्रातर्दने विचारे च प्राणशब्दस्य ब्रह्मार्थत्वमुक्तं तथेहापीत्यनर्थकमधिकरणम् । मैवम् । ‘प्राणमेवाभिसंविशन्ति’ इत्यत्र निरपेक्षकारणत्वपरैवकारवत् ‘प्राणोऽस्मि प्रज्ञात्मा’ इत्यादावुपक्रमोपसंहारैकरूप्यवच्चात्र तदभावादगतार्थत्वादित्यभिप्रेत्याह —

वायोश्चेति ।

जगत्कम्पनहेतुत्वं ब्रह्मलिङ्गमिहापि भाति, तत्कथं वायोरिदं माहात्म्यमित्याह —

कथमिति ।

उक्तलिङ्गमन्यथयति —

सर्वमिति ।

तथापि जगद्भयहेतुत्वं ब्रह्मलिङ्गमित्याशङ्क्याह —

वाय्विति ।

न तावदत्रोपमा, तद्वाचकाभावात् । न च ब्रह्मनिमित्तं भयानकं वज्रमुद्यम्यते, मानाभावात् । न चेदमेव मानं वायुनिमित्तत्वेन तदुद्यमनोक्तेरित्यर्थः ।

कथं वायोरपि वज्रोद्यमहेतुत्वं, तत्रापि मानाभावाद्वाक्यस्य साधारण्यात् । तत्राह —

वायौ हीति ।

तथापि ज्ञानस्यामृतत्वहेतुत्वं ब्रह्मलिङ्गमित्याशङ्क्याह —

वाय्विति ।

तत्र बृहदारण्यकमनुकूलयति —

तथाहीति ।

व्यष्टिर्विशेषः । समष्टिः सामान्यम् ।

प्राणवज्रश्रुतिभ्यां सिद्धमुपसंहरति —

तस्मादिति ।

आध्यात्मिकाधिदैविकवायूपास्त्यर्थं वाक्यमित्युक्तमनूद्य सिद्धान्तयति —

एवमिति ।