ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
कम्पनात् ॥ ३९ ॥
ब्रह्मैवेदमिह प्रतिपत्तव्यम्कुतः ? पूर्वोत्तरालोचनात्पूर्वोत्तरयोर्हि ग्रन्थभागयोर्ब्रह्मैव निर्दिश्यमानमुपलभामहेइहैव कथमकस्मादन्तराले वायुं निर्दिश्यमानं प्रतिपद्येमहि ? पूर्वत्र तावत् तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यतेतस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन’ (क. उ. २ । ३ । १) इति ब्रह्म निर्दिष्टम्तदेव इहापि, सन्निधानात् , ‘जगत्सर्वं प्राण एजतिइति लोकाश्रयत्वप्रत्यभिज्ञानात् निर्दिष्टमिति गम्यतेप्राणशब्दोऽप्ययं परमात्मन्येव प्रयुक्तःप्राणस्य प्राणम्’ (बृ. उ. ४ । ४ । १८) इति दर्शनात्एजयितृत्वमपीदं परमात्मन एवोपपद्यते, वायुमात्रस्यतथा चोक्तम् प्राणेन नापानेन मर्त्यो जीवति कश्चनइतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ’ (क. उ. २ । २ । ५) इतिउत्तरत्रापि भयादस्याग्निस्तपति भयात्तपति सूर्यःभयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः’ (क. उ. २ । ३ । ३) इति ब्रह्मैव निर्देक्ष्यते, वायुः, सवायुकस्य जगतो भयहेतुत्वाभिधानात्तदेव इहापि सन्निधानात्महद्भयं वज्रमुद्यतम्इति भयहेतुत्वप्रत्यभिज्ञानान्निर्दिष्टमिति गम्यतेवज्रशब्दोऽप्ययं भयहेतुत्वसामान्यात्प्रयुक्तःयथा हिवज्रमुद्यतं ममैव शिरसि निपतेत् , यद्यहमस्य शासनं कुर्याम्इत्यनेन भयेन जनो नियमेन राजादिशासने प्रवर्तते, एवमिदमग्निवायुसूर्यादिकं जगत् अस्मादेव ब्रह्मणो बिभ्यत् नियमेन स्वव्यापारे प्रवर्तत इतिभयानकं वज्रोपमितं ब्रह्मतथा ब्रह्मविषयं श्रुत्यन्तरम्भीषास्माद्वातः पवतेभीषोदेति सूर्यःभीषास्मादग्निश्चेन्द्रश्चमृत्युर्धावति पञ्चमः’ (तै. उ. २ । ८ । १) इतिअमृतत्वफलश्रवणादपि ब्रह्मैवेदमिति गम्यतेब्रह्मज्ञानाद्ध्यमृतत्वप्राप्तिः, तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ६ । १५) इति मन्त्रवर्णात्यत्तु वायुविज्ञानात्क्वचिदमृतत्वमभिहितम् , तदापेक्षिकम्तत्रैव प्रकरणान्तरकरणेन परमात्मानमभिधाय अतोऽन्यदार्तम्’ (बृ. उ. ३ । ४ । २) इति वाय्वादेरार्तत्वाभिधानात्प्रकरणादप्यत्र परमात्मनिश्चयःअन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’ (क. उ. १ । २ । १४) इति परमात्मनः पृष्टत्वात् ॥ ३९ ॥

बहिरेव प्रतिजानीते —

ब्रह्मेति ।

वाक्यस्य वायूपास्तिपरत्वे श्रौते कुतो ब्रह्मधीरित्याह —

कुत इति ।

पूर्वोत्तरवाक्यैकवाक्यतानुगृहीतं सर्वलोकाश्रयत्वादिलिङ्गं प्राणश्रुतेर्बाधकमित्याह —

पूर्वेति ।

तत्र वाक्यैकवाक्यत्वं विवृणोति —

पूर्वोत्तरयोरिति ।

तथाप्येजतिवाक्ये वायुरुच्यतामित्याशङ्क्य वाक्यैक्यसम्भवे न तद्भेत्तव्यमित्याह —

इहैवेति ।

पूर्ववाक्यस्य कुतो ब्रह्मार्थत्वं, तत्राह —

पूर्वत्रेति ।

शुक्रं शुभ्रं ज्योतिष्मत् ।

तस्यैव पूर्णतामाह —

तद्ब्रह्मेति ।

तस्य कूटस्थतामाह —

तदेवेति ।

तस्य सर्वाधिष्ठानतामाह —

तस्मिन्निति ।

तदेव व्यतिरेकमुखेनाह —

तदु नेति ।

तथापि कथं तदेवात्र वाच्यमित्याशङ्क्य प्रकरणाल्लिङ्गप्रत्यभिज्ञानाच्चेत्याह —

तदेवेति ।

प्राणश्रुत्या मुख्यप्राणे सिद्धे कथं प्रकरणादिनार्थान्तरधीरित्याशङ्क्याह —

प्राणेति ।

एकवाक्यताकाङ्क्षप्रकरणानुगृहीतबहुलिङ्गविरोधे ब्रह्मणि प्रयुक्तपूर्वप्राणशब्दस्य न मुख्यार्थोऽस्तीत्यर्थः ।

उत्सूत्रं सिद्धान्तमुक्त्वा सर्वजगत्कम्पहेतुत्वं लिङ्गान्तरं सूत्रयोजनया दर्शयति —

एजयितृत्वमिति ।

तत्र हेतुः —

तथा चेति ।

केन तर्हि मर्त्यानां जीवनं, तत्राह —

इतरेणेति ।

इतरं स्फोरयति —

यस्मिन्निति ।

पूर्वत्र ब्रह्मोक्तेरत्रापि तदेकवाक्यत्वात्तदेवोक्तमित्युक्तम् ।

इदानीमुत्तरवाक्येऽपि ब्रह्मोक्तिमाह —

उत्तरत्रेति ।

अस्येश्वरस्य भयादग्निसूर्यौ तपतः । इन्द्रादयः स्वव्यापारेषु धावन्ति । मृत्योरुक्तानपेक्ष्य पञ्चमत्वम् ।

कथमत्र ब्रह्मोक्तं, वायुरेवाग्न्यादिभयकारणं किं न स्यात् , तत्राह —

सवायुकस्येति ।

तथापि कथं प्रकृते ब्रह्मोक्तिरित्याशङ्क्य प्रकरणानुगृहीतभयहेतुत्वलिङ्गप्रत्यभिज्ञानादित्याह —

तदेवेति ।

अशनौ प्रसिद्धवज्रशब्दस्य ब्रह्मविरोधित्वान्नात्र ब्रह्मोक्तमित्याशङ्क्याह —

वज्रेति ।

तस्य भयहेतौ ब्रह्मणि प्रवृत्तिं दृष्टान्तेन स्फुटयति —

यथेति ।

भयहेतुत्वस्य श्रुत्यन्तरे ब्रह्मणः सिद्धेस्तत्प्रत्यभिज्ञानादपि ब्रह्मैवेदमित्याह —

तथा चेति ।

भीषा भयेनास्माद्ब्रह्मणो निमित्तादिति यावत् ।

ब्रह्मैवात्र प्रतिपाद्यमित्यत्र लिङ्गान्तरमाह —

अमृतत्वेति ।

श्रुतस्य फलस्य ब्रह्मधिया व्याप्तिमाह —

ब्रह्मेति ।

व्याप्तिभङ्गमुक्तमनूद्य प्रत्याह —

यत्त्विति ।

'अपपुनर्मृत्युं जयति’ इत्यपमृत्युजयस्योक्तेरित्यर्थः ।

तस्यापेक्षिकत्वे हेत्वन्तरमाह —

तत्रैवेति ।

पञ्चमेऽध्याये सूत्रोक्त्यनन्तरमेव परमात्मानमन्तर्यामिणं प्रकृत्य ततोऽन्यस्य नाशित्वोक्तेर्वायुज्ञानाधीनममृतत्वमापेक्षिकमित्यर्थः ।

एजतिवाक्ये ब्रह्मैव प्रतिपाद्यमित्यत्र मानान्तरमाह —

प्रकरणादिति ।

तस्य परमात्मविषयत्वे हेतुमाह —

अन्यत्रेति ॥ ३९ ॥